तान्सर्वान्पतितान्दृष्ट्वा भीतो दुर्योधनस्ततः। अभ्यधावत संक्रुद्धो राक्षसं घोरदर्शनम्
आर्श्यशृङ्गिं महेष्वासं मायाविनमरिन्दमम्। वैरिणं भीमसेनस्य पूर्वं बकवधेन वै
पश्य वीर यथा ह्येष फल्गुनस्य सुतो बली। मायावी विप्रियं कर्तुमकार्षीन्मे बलक्षयम्
त्वं च कामगमस्तात मायास्त्रे च विशारदः । कृतवैरश्च पार्थेन तस्मादेनं रणे जहि
बाढमित्येवमुक्त्वा तु राक्षसो घोरदर्शनः । प्रययौ सिंहनादेन यत्रार्जुनसुतो युवा
स योधैर्युद्धकुशलैर्विमलप्रासयोधिभिः । वीरैः प्रहारिभिर्युक्तैः स्वैरनीकैः समावृतः
[हतशेषैर्महाराज द्विसाहस्त्रैर्हयोत्तमैः] निहन्तुकामः समरे इरावन्तं महाबलम्
इरावानपि संक्रुद्धस्त्वरमाणः पराक्रमी हन्तुकाममयित्रघ्नो राक्षसं प्रत्यवारयत्
तमापतन्तं संप्रेक्ष्य राक्षसः सुमहाबलः। त्वरमाणस्ततो मायां प्रयोक्तुमुपचक्रमे
तेन मायामयाः सृष्टा हयास्तावन्त एव हि। स्वारूढा राक्षसैर्घोरैः शूलपट्टसधारिभिः
ते संरब्धाः समागम्य द्विसाहस्राः प्रहारिणः। अचिराद्गमयामासुः प्रेतलोकं परस्परम्
तस्मिंस्तु निहते सैन्ये तावुभौ युद्धदुर्मदौ। संग्रामे समतिष्ठेतां यथा वै वृत्रवासवौ
आद्रवन्तमभिप्रेक्ष्य राक्षसं युद्धदुर्मदम् । इरावाथ संरब्धः प्रत्यधावन्महाबलः
समभ्याशगतस्याजौ तस्य खङ्गेन दुर्मदः । चिच्छेद कार्मुकं दीप्तं शरवापं च कञ्चुकम्
स निकृत्तं धनुर्दृष्ट्वा खं जवेन समाविशत्। इरावन्तमभिक्रुद्धं मोहयन्निव मायया
ततोऽन्तरिक्षमुत्पत्य इरावानपि राक्षसम्। विमोहयित्वा मायाभिसत्स्य गात्रामि सायकैः
चिच्छेद सर्वमर्मज्ञः कामरूपो दुरासदः । तथा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः
संबभूव महाराज समवाप च यौवनम् । माया हि सहराज समवाप च यौवनम्
एवं तद्राक्षसस्याङ्गं छिन्नंछिन्नं व्यरोहत । इरावानपि संक्रुद्धो राक्षसं त महाबलम्
परश्वथेन तीक्ष्णेन चिच्छेद च पुनः पुनः । स तेन बलिना वीरश्छिद्यमान इव द्रुमः
राक्षसो व्यनदद्धोरं स शब्दस्तुमुलोऽभवत्। परश्वथक्षतं रक्षः सुस्राव बहुशोणितम्
ततश्रुक्रोध बलवांश्चक्रे वेगं च संयुगे। आर्श्यशृङ्गिस्ततो दृष्ट्वा समरे शत्रुमूर्चितम्
कृत्वा घोरं महद्रूपं ग्रहीतुमुपचक्रमे । अर्जुनस्य सुतं वीरमिरावन्तं यशस्विनम्
संग्रामशिरसो मध्ये सर्वेषां तत्र पश्यताम्। तां दृष्ट्वा तादृशीं मायां राक्षसस्य दुरात्मनः
इरावानपि संक्रुद्धो मायां स्रष्टुं प्रचक्रमे। तस्य क्रोधाभिभूतस्य समरेष्वनिवर्तिनः
योऽन्वयो मातृकस्तस्य स एनमभिपेदिवान्। स नागैर्बहुभी राजन्निरावान्संवृतो रणे
दधार सुमहद्रूपमनन्त इव भोगवान्। ततो बहुविधैर्नागैश्छादयामास राक्षसम्
छाद्यमानस्तु नागैः स ध्यात्वा राक्षसपुङ्गवः। सौपर्णं रूपमास्थाय भक्षयामास पन्नगम्
मायया भक्षिते तस्मिन्नन्वये तस्य मातृके । विमोहितमिरावन्तं न्यहनद्राक्षसोऽसिना
सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम् । इरावतः शिरो रक्षः पातयामास भूतले