कामवर्णजवैरश्वैः सर्वतः शुशुभे वृतः । ते हयाः काञ्चनापीडा नानावर्णा मनोजवाः
उत्पेतुः सहसा राजन्हंसा इव महोदधौ । ते त्वदीयान्समासाद्य हयसंघान्मनोजवान्
क्रोडैः क्रोडानभिघ्नन्तो घोणाभिश्च परस्परम् । निपेतुः सहसा राजन्सुवेगाभिहता भुवि
निपतद्भिस्तथा तैश्च हयसङ्घैः परस्परम् । शुश्रुवे दारुणः शब्दः सुपर्णपतने यथा
तथैव तावका राजन्समेत्यान्योन्यमाहवे । परस्परवधं घोरं चक्रुस्ते हयसादिनः
तस्मिंस्तथा वर्तमाने संकुले तुमुले भृशम् । उभयोरपि संशान्ता हयसङ्घाः समन्ततः
प्रक्षीणसायकाः शूरा निहताश्वाः श्रमातुराः । विलयं समनुप्राप्तास्तक्षमाणाः परस्परम्
ततः क्षीणे हयानिके किंचिच्छेषे च भारत । सौबलस्यानुजाः शूरा निर्गता रणमूर्धनि
वायुवेगसमस्पर्शाञ्जवे वायुसमांश्च ते। आरुह्य बलसंपन्नान्वयःस्थांस्तुरगोत्तमान्
गजो गवाक्षो वृषकश्चर्मवानार्जयः शुकः। षडेते बलसंपन्ना निर्ययुर्महतो बलात्
वार्यमाणाः शकुनिना स्वैश्च योधैर्महाबलैः । सन्नद्धा युद्धकुशला रौद्ररूपा महाबलाः
तदनीकं महाबहो भित्त्वा परमदुर्जयम् । बलेन महता युक्ताः स्वर्गाय विजयैषिणः
विविशुस्ते तदा हृष्टा गान्धारा युद्धदुर्मदाः । तान्प्रविष्टांस्तदा दृष्ट्वा इरावानपि वीर्यवान्
अब्रवीत्समरे योधान्स्वान्विचित्रहयस्थितान् । यथैते धार्तराष्ट्रस्य योधाः सानुगवाहनाः
हन्यन्ते समरे सर्वे तथा नीतिर्विधीयताम् । बाढमित्येवमुक्त्वा ते सर्वे योधा इरावतः
जघ्नुस्तेषां बलानीकं दुर्जयं समरे परैः । तदनीकमनीकेन समरे वीक्ष्य पातितम्
अमृष्यमाणास्ते सर्वे सुबलस्यात्मजा रणे । इरावन्तमभिद्रुत्य सर्वतः पर्यवारयन्
ताडयन्तः शितैः प्रासैश्चोदयन्तः परस्परम्। ते शूराः पर्यधावन्त कुर्वन्तो महदाकुलम्
इरावानथ निर्भिन्नः प्रासैस्तीक्ष्णैर्महात्मभिः । स्रवता रुधिरेणाक्तस्तोत्रैर्विद्ध इव द्विपः
उरस्यपि च पृष्ठे च पार्श्वयोश्च भृशाहतः । एको बहुभिरत्यर्थं धैर्याद्राजन्न विव्यथे
इरावानपि संक्रुद्धः सर्वास्तान्निशितैः शरैः । मोहयामास समरे विद्ध्वा परपुरंजयः
प्रासानुत्कृष्य तरसा स्वशरीरादरिन्दमः । तैरेव ताडयामास सुबलस्यात्मजान्रणे
विकृष्य च शितं खङ्गं गृहीत्वा च शरावरम् । पदातिर्द्रुतमागच्छज्जिघांसुः सौबलान्युधि
ततः प्रत्यागतप्राणाः सर्वे ते सुबलात्मजाः । भूयः क्रोधसमाविष्टा इरावन्तमभिद्रुताः
इरावानपि खङ्गेन दर्शयन्पाणिलाघवम् । अभ्यवर्तत देवांश्च मानुषांश्चैव संयुगे
लाघवेनाथ चरतः सर्वे ते सुबलात्मजाः । अन्तरं नाभ्यगच्छन्त चरन्तः शीघ्रगैर्हयैः
भूमिष्ठमथ तं सह्ख्ये ह्यन्तरिक्षादवप्लुतम् । परिवार्य भृशं सर्वे ग्रहीतुमुपचक्रमुः
अथाभ्याशगतानां तेषां गात्राण्यकृन्तत । असिहस्तोऽस्त्रहस्तानां तेषां गात्राण्यकृन्तत
आयुधानि च सर्वेषां बाहूनपि विभूषितान्। अपतन्त निकृत्ताङ्गा मृता भूमौ गतासवः
वृषकस्तु महाराज बहुधा विपरिक्षतः। अमुच्यत महारौद्रात्तस्माद्वीरावकर्तनात्