वर्तमाने तथा रौद्रे राजन्वीरवरक्षये। शकुनिः सौबलः श्रीमान्पाण्डवान्समुपाद्रवत्
तथैव सात्वतो राजन्हार्दिक्यः परवीरहा। अभ्यद्रवत संग्रामे पाण्डवानां वरूथिनीम्
ततः काम्भोजमुख्यानां नदीजानां च वाजिनाम् । आरट्टानां महीजानां सिन्धुजानां च सर्वशः
वनायुजानां शुभ्राणां तथा पर्वतवासिनाम् । वाजिनां बहुभिः सङ्ख्ये समन्तात्परिवारयन्
ये चापरे तित्तिरिजा जवना वातरंहसः । सुवर्णालङ्कृतैरेतैर्वर्मवद्भिः सुकल्पितैः
हयैर्वातजवैर्मुख्यैः पाण्डवस्य सुतो बली । अभ्यवर्तत तत्सैन्यं हृष्टरूपः परंतपाः
अर्जुनस्य सुतः श्रीमानिरावान्नाम वीर्यवान् । सुतायां नागराजस्य जातः पार्थेन धीमता
ऐरावतेन सा दत्ता अनपत्या महात्मना । पत्यौ हते सुपर्णेन कृपणा दीनचेतना
कार्यार्थं तां च जग्राह पार्थः कामवशानुगाम् । एवमेष समुत्पन्नः परक्षेत्रेऽर्जुनात्मजः
स नागलोके संवृद्धो मात्रा च परिरक्षितः । पितृव्येण परित्यक्तः पार्थद्वेषाद्दुरात्मना
खमुत्पत्य महाराज नागराट् सत्यविक्रमः । इन्द्रलोकं जगामाशु श्रुत्वा तत्रार्जुनं गतम्
सोऽभिगम्य महाबाहुः पितरं सत्यविक्रमः । अभ्यवादयदव्यग्रो विनयेन कृताञ्जलिः
न्यवेदयत चात्मानमर्जुनस्य महात्मनः । इरावानस्मि भद्रं ते पुत्रश्चाहं तव प्रभो
मातुः समागमो यश्च तत्सर्वं प्रत्यवेदयत् । तच्च सर्वं यथावृत्तमनुसस्मार पाण्डवः
परिष्वज्य सुतं चापि आत्मनः सदृशं गुणैः । प्रीतिमाननयत्पार्थो देवराजनिवेशनम्
सोऽर्जुनेन समाज्ञप्तो देवलोके तदा नृप । प्रीतिपूर्वं महाबाहुः स्वकार्यं प्रति भारत
स चापि नरशार्दूलः शार्दूलसमविक्रमः।' अब्रवीच्च तदा पार्थमयमस्मि तवानघ
स्थितः प्रेष्यश्च पुत्रश्च सर्वथा त्वं प्रशाधि माम् । कं करोमि च ते कामं कं च कामं त्वमिच्छसि
परिष्वज्य सुतं प्रेम्णा वासविः प्रत्युवाच तम्। प्रीतिपूर्वं च कार्यं च कार्या प्रीतिश्च मानदः
युद्धकाले तु साहाय्यं दातव्यं नो भवेदिति । बाढमित्येवमुक्त्वा तु युद्धकाल इहागतः
कामवर्णजवैरश्वैः सर्वतः शुशुभे वृतः । ते हयाः काञ्चनापीडा नानावर्णा मनोजवाः
उत्पेतुः सहसा राजन्हंसा इव महोदधौ । ते त्वदीयान्समासाद्य हयसंघान्मनोजवान्
क्रोडैः क्रोडानभिघ्नन्तो घोणाभिश्च परस्परम् । निपेतुः सहसा राजन्सुवेगाभिहता भुवि
निपतद्भिस्तथा तैश्च हयसङ्घैः परस्परम् । शुश्रुवे दारुणः शब्दः सुपर्णपतने यथा
तथैव तावका राजन्समेत्यान्योन्यमाहवे । परस्परवधं घोरं चक्रुस्ते हयसादिनः
तस्मिंस्तथा वर्तमाने संकुले तुमुले भृशम् । उभयोरपि संशान्ता हयसङ्घाः समन्ततः
प्रक्षीणसायकाः शूरा निहताश्वाः श्रमातुराः । विलयं समनुप्राप्तास्तक्षमाणाः परस्परम्
ततः क्षीणे हयानिके किंचिच्छेषे च भारत । सौबलस्यानुजाः शूरा निर्गता रणमूर्धनि
वायुवेगसमस्पर्शाञ्जवे वायुसमांश्च ते। आरुह्य बलसंपन्नान्वयःस्थांस्तुरगोत्तमान्
गजो गवाक्षो वृषकश्चर्मवानार्जयः शुकः। षडेते बलसंपन्ना निर्ययुर्महतो बलात्