त्रिधाभूतैरवध्यन्त पाण्डवैः कौरवा युधि। तथैव कौरवै राजन्नवध्यन्त परे रणे
द्रोणस्तु रथिनां श्रेष्ठः सोमकान्सृञ्जयैः सह । अभ्यधावत संक्रुद्धः प्रेषयिष्यन्यमक्षयम्
तत्राक्रन्दो महानासीत्सृञ्जयानां महात्मानाम् । वध्यतां समरे राजन्भारद्वाजेन धन्विना
द्रोणेन निहतास्तत्र क्षत्रिया बहवो रणे। विचेष्टन्तो हृदृश्यन्त व्याधिक्लिष्टा वरा इव
कूजतां क्रन्दतां चैव स्तनतां चैव भारत। अनिशं शुश्रुवे शब्दः क्षुत्क्लिष्टानां नृणामिव
तथैव कौरवेयाणां भीमसेनो महाबलः । चकार कदनं घोरं क्रुद्धः काल इवापरः
वध्यतां तत्र सैन्यानामन्योन्येन महारणे । प्रावर्तत नदी घोरा रुधिरौघपरवाहिनी
स संग्रामो महाराज घोररूपोऽभवन्महान् । कुरूणां पाणडवानां च यमराष्ट्रविवर्धनः
ततो भीमो रणे क्रुद्धो रभसश्च विशेषतः। गजानीकं समासाद्य प्रेषयामास मृत्यवे
तत्र भारत भीमेन नाराचाभिहता गजाः । पेतुर्नेदुश्च सेदुश्च दिशश्च परिबभ्रमुः
छिन्नहस्ता महानागाश्छिन्नगात्राश्च मारिष । क्रौञ्चवद्व्यनदन्भीताः पृथिवीमधिशेरते
नकुलः सहदेवश्च हयानीकमभिद्रुतौ। ते हयाः काञ्चनापीडा रुक्मभाण्डपरिच्छदाः
वध्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः। पतिद्भिस्तुरगै राजन्समास्तीर्यत मेदिनी
निर्जिह्वैश्च श्वसद्भिश्च कूजद्भिश्च गतासुभिः । हयैर्बभौ नरश्रेष्ठ नानारूपधरैर्धरा
अर्जुनेन हतैः सङ्ख्ये तथा भारत राजभिः । प्रबभौ वसुधा घोरा तत्रतत्र विशांपते
रथैर्भग्नैर्ध्वजैश्छिन्नैर्निकृत्तैश्च महायुधैः । चामरैर्व्यजनैश्चैव च्छत्रैश्च सुमहाप्रभैः
हरैर्निष्कैः सकेयूरैः शिरोभिश्च सकुण्डलैः । उष्णीषैरपविद्धैश्च पताकाभिश्च सर्वशः
अनुकर्षैः शुभै राजन्योक्रैश्चैव सरश्मिभिः । संकीर्णा वसुधा भाति वसन्ते कुसुमैरिव
एवमेष क्षयो वृत्तः पाण्डूनामपि भारत। क्रुद्धे शान्तनवे भीष्मे द्रोणे च रथसत्तमे
अश्वत्थाम्नि कृपे चैव तथैव कृतवर्मणि। तथेतरेषु क्रुद्धेषु तावकानामपि क्षयः
वर्तमाने तथा रौद्रे राजन्वीरवरक्षये। शकुनिः सौबलः श्रीमान्पाण्डवान्समुपाद्रवत्
तथैव सात्वतो राजन्हार्दिक्यः परवीरहा। अभ्यद्रवत संग्रामे पाण्डवानां वरूथिनीम्
ततः काम्भोजमुख्यानां नदीजानां च वाजिनाम् । आरट्टानां महीजानां सिन्धुजानां च सर्वशः
वनायुजानां शुभ्राणां तथा पर्वतवासिनाम् । वाजिनां बहुभिः सङ्ख्ये समन्तात्परिवारयन्
ये चापरे तित्तिरिजा जवना वातरंहसः । सुवर्णालङ्कृतैरेतैर्वर्मवद्भिः सुकल्पितैः
हयैर्वातजवैर्मुख्यैः पाण्डवस्य सुतो बली । अभ्यवर्तत तत्सैन्यं हृष्टरूपः परंतपाः
अर्जुनस्य सुतः श्रीमानिरावान्नाम वीर्यवान् । सुतायां नागराजस्य जातः पार्थेन धीमता
ऐरावतेन सा दत्ता अनपत्या महात्मना । पत्यौ हते सुपर्णेन कृपणा दीनचेतना
कार्यार्थं तां च जग्राह पार्थः कामवशानुगाम् । एवमेष समुत्पन्नः परक्षेत्रेऽर्जुनात्मजः
स नागलोके संवृद्धो मात्रा च परिरक्षितः । पितृव्येण परित्यक्तः पार्थद्वेषाद्दुरात्मना