स शरः पण्डितं हत्वा विवेश धरणीतलम् । यथा नरं निहत्याशु भुजगः कालचोदितः
विशालाक्षशिरश्छित्त्वा पातयामास भूतले। त्रिभिः शरैरदीनात्मा स्मरन्क्लेशं पुरातनम्
महोदरं महेष्वासं नाराचेन स्तनान्तरे । विव्याध समरे राजन्स हतो न्यपतद्भुवि
आदित्यकेतोः केतुं च च्छित्त्वा बाणेन संयुगे । भल्लेन भृशतीक्ष्णेन शिरश्चिच्छेद भारत
बह्वाशिनं तत भीमः शरेणानतर्वणा । प्रेषयामास संक्रुद्धो यमस्य सदनं प्रति
प्रदुद्रुवुस्ततस्तेऽन्ये पुत्रास्तव विशांपते । मन्यमाना हि तत्सत्यं सभायां तस्य भाषितम्
ततो दुर्योधनो राजा भ्रातृव्यसनकर्शितः। अब्रवीत्तावकान्योधान्भीमोऽयं वध्यतामिति
एवमेते महेष्वासाः पुत्रास्त्व विशांपते । भ्रातॄन्संदृश्य निहतान्प्रस्मरंस्ते हि तद्वचः
यदुक्तवान्महाप्राज्ञः क्षत्ता हितमनामयम् । तदिदं समनुप्राप्तं वचनं दिव्यदर्शिनः
लोभमोहसमाविष्टः पुत्रप्रीत्या जनाधिप। न बुध्यसे पुरा यत्तत्तथ्यमुक्तं वचो महत्
तथैव च वधार्थाय पुत्राणां पाण्डवो बली। नूनं जातो महाबाहुर्यथा हन्ति स्म कौरवान्
ततो दुरयोधनो राजा भीष्ममासाद्य संयुगे। दुःखेन महताऽऽविष्टो विललाप सुदुःखितः
निहता भ्रातरः शूरा भीमसेनेन मे युधि। यतमानास्तथान्येऽपि हन्यन्ते सर्वसैनिकाः
भवांश्च मध्यस्थतया नित्यमस्मानुपेक्षते। सोऽहं कुपथमारूढः पश्य दैवमिदं मम
एतच्छ्रुत्वा वचः क्रूरं पिता देवव्रतस्तव। दुर्योधनमिदं वाक्यमब्रवीत्समाश्रुलोचनः
उक्तमेतन्मया पूर्वं द्रोणेन विदुरेण च । गान्धार्या च यशस्विन्या तत्त्वं तात न बुद्धवान्
समयश्च मया पूर्वं कृतो वै शत्रुकर्शन । नाहंयुधि नियोक्तव्यो नाप्याचार्यः कथंचना
यय हि धर्तराष्ट्राणां भीमो द्रक्ष्यति संयुगे। हनिष्यति रणे नित्यं सत्यमेतद्ब्रवीमि ते
स त्वं राजन्स्थिरो भूत्वा रणे कृत्वा दृढां मतिम् । योधयस्व रणे पार्थान्स्वर्गं कृत्वा परायणम्
न शक्यः पाण्डवा जेतुं सेन्द्रैरपि सुरासुरैः । तस्माद्युद्धे स्थिरां कृत्वा मतिं युद्ध्यस्व भारत
दृष्ट्वा मे निहतान्पुत्रान्बहूनेकेन सञ्जय । भीष्मो द्रोणः कृपश्चैव किमकुर्वत संयुगे
अहन्यहनि मे पुत्राः क्षयं गच्छन्ति सञ्जय । मन्येऽहं सर्वथा पुत्रान्दैवेनोपहतान्भृशम्
यत्र मे तनयाः सर्वे जीयन्ते न जयन्त्युत । यत्र भीष्मस्य द्रोणस्य कृपस्य च महात्मनः
सौमदत्तेश्च वीरस्य भगदत्तस्य चोभयोः । अश्वत्थाम्नस्तथा तात शूराणामनिवर्तिनाम्
अन्येषां चैव शूराणां मध्यगास्तनया मम । यदहन्यन्त संग्रामे किमन्यद्भागधेयतः
न हि दुर्योधनो मन्दः पुरा प्रोक्तमबुध्यत । वार्यमाणो मया तात भीष्मेण विदुरेण च
गन्धार्या चैव दुर्मेधाः सततं हितकाम्यया । नाबुध्यत पुरा मोहात्तस्य प्राप्तमिदं फलम्
यद्भीमसेनः समरे पुत्रान्मम विचेतसः । अहन्यहनि संक्रुद्धो नयते यमसादनम्
इदं तत्समनुप्राप्तं क्षत्तुर्वचनमुत्तमम् । न बुद्धवानस्मि विभो प्रोच्यमानमिदं तदा
निवारय सुतं द्यूतात्पाण्डवान्मा द्रुहेति च । सुहृदां हितकामानां ब्रुवतां तत्तदेव च