आदित्यकेतुर्बह्वाशी कुण्डधारो महोदरः । अपराजितः पण्डितको विशालाक्षः सुदुर्जयः
पाण्डवं चित्रसन्नाहा विचित्रकवचध्वजाः । अभ्यद्रवन्त संग्रामे योद्धुकामारिमर्दनाः
महोदरस्तु समरे भीमं विव्याध पत्रिभिः । नवभिर्वद्रसंकाशैर्नमुचिं वृत्रहा यथा
आदित्यकेतुः सप्तत्या बह्वाशी चापि पञ्चभिः । नवत्या कुण्डधारश्च विशालाक्षश्च पञ्चभिः
अपराजितो महाराज पराजिष्णुर्महारथम् । शरैर्बहुभिरानर्च्छद्भीमसेनं महाबलम्
रणे पण्डितकश्चैनं त्रिभिर्बाणैः समार्पयत्। स तं न ममृषे भीमः शत्रुभिर्वधमाहवे
धनुः प्रपीड्य वामेन करेणामित्रकर्सनः । शिरश्चिच्छेद समरे शरेणानतपर्वणा
अपराजितस्य सुनसं तव पुत्रस्य संयुगे । पराजितस्य भीमेन कृत्तं गामपतच्छिरः
अथापरेण भल्लेन कुण्डधारं महारथम् । प्राहिणोन्मृत्युलोकाय सर्वलोकस्य पश्यतः
ततः पुनरमेयात्मा प्रसंधाय शिलीमुखम् । प्रेषयामास समरे पण्डितं प्रति भारत
स शरः पण्डितं हत्वा विवेश धरणीतलम् । यथा नरं निहत्याशु भुजगः कालचोदितः
विशालाक्षशिरश्छित्त्वा पातयामास भूतले। त्रिभिः शरैरदीनात्मा स्मरन्क्लेशं पुरातनम्
महोदरं महेष्वासं नाराचेन स्तनान्तरे । विव्याध समरे राजन्स हतो न्यपतद्भुवि
आदित्यकेतोः केतुं च च्छित्त्वा बाणेन संयुगे । भल्लेन भृशतीक्ष्णेन शिरश्चिच्छेद भारत
बह्वाशिनं तत भीमः शरेणानतर्वणा । प्रेषयामास संक्रुद्धो यमस्य सदनं प्रति
प्रदुद्रुवुस्ततस्तेऽन्ये पुत्रास्तव विशांपते । मन्यमाना हि तत्सत्यं सभायां तस्य भाषितम्
ततो दुर्योधनो राजा भ्रातृव्यसनकर्शितः। अब्रवीत्तावकान्योधान्भीमोऽयं वध्यतामिति
एवमेते महेष्वासाः पुत्रास्त्व विशांपते । भ्रातॄन्संदृश्य निहतान्प्रस्मरंस्ते हि तद्वचः
यदुक्तवान्महाप्राज्ञः क्षत्ता हितमनामयम् । तदिदं समनुप्राप्तं वचनं दिव्यदर्शिनः
लोभमोहसमाविष्टः पुत्रप्रीत्या जनाधिप। न बुध्यसे पुरा यत्तत्तथ्यमुक्तं वचो महत्
तथैव च वधार्थाय पुत्राणां पाण्डवो बली। नूनं जातो महाबाहुर्यथा हन्ति स्म कौरवान्
ततो दुरयोधनो राजा भीष्ममासाद्य संयुगे। दुःखेन महताऽऽविष्टो विललाप सुदुःखितः
निहता भ्रातरः शूरा भीमसेनेन मे युधि। यतमानास्तथान्येऽपि हन्यन्ते सर्वसैनिकाः
भवांश्च मध्यस्थतया नित्यमस्मानुपेक्षते। सोऽहं कुपथमारूढः पश्य दैवमिदं मम
एतच्छ्रुत्वा वचः क्रूरं पिता देवव्रतस्तव। दुर्योधनमिदं वाक्यमब्रवीत्समाश्रुलोचनः
उक्तमेतन्मया पूर्वं द्रोणेन विदुरेण च । गान्धार्या च यशस्विन्या तत्त्वं तात न बुद्धवान्
समयश्च मया पूर्वं कृतो वै शत्रुकर्शन । नाहंयुधि नियोक्तव्यो नाप्याचार्यः कथंचना
यय हि धर्तराष्ट्राणां भीमो द्रक्ष्यति संयुगे। हनिष्यति रणे नित्यं सत्यमेतद्ब्रवीमि ते
स त्वं राजन्स्थिरो भूत्वा रणे कृत्वा दृढां मतिम् । योधयस्व रणे पार्थान्स्वर्गं कृत्वा परायणम्
न शक्यः पाण्डवा जेतुं सेन्द्रैरपि सुरासुरैः । तस्माद्युद्धे स्थिरां कृत्वा मतिं युद्ध्यस्व भारत