प्रासैरभिहताः केचिद्गजयोधाः समन्ततः । पतमानाः स्म दृश्यन्ते गिरिशृङ्गान्नगा इव
पादाताश्चाप्यदृश्यन्त निघ्नन्तोऽथ परस्परम् । चित्ररूपधराः शूरा नखरप्रासयोधिनः
अन्योन्यं ते समासाद्य कुरुपाण्डवसैनिकाः । अस्त्रैर्नानाविधैर्घोरै रणे निन्युर्यमक्षयम्
ततः शान्तनवो भीष्मो रथघोषेण नादयन् । अभ्यागमद्रणे पार्थान्धनुःशब्देन मोहयन्
पाण्डवानां रथाश्चापि नदन्तो भैरवं स्वनम् । अभ्यद्रवन्त संयत्ता धृष्टद्युम्नपुरोगमाः
ततः प्रववृते युद्धं तव तेषां च भारत। नराश्वरथनागानां व्यतिषक्तं परस्परम्
भीष्मं तु समरे क्रुद्धं प्रतपन्तं समन्ततः। न शेकुः पाण्डवा द्रष्टुं तपन्तमिव भास्करम्
ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात्। अभ्यद्रवन्त गाङ्गेयं मर्दयन्तं शितैः शरैः
स तु भीष्मो रणश्लाघी तोमकान्सहसृज्जयान् । पाञ्चालांश्च महेष्वासान्पातयामास सायकैः
ते वध्यमाना भीष्मेण पाञ्चालाः पाण्डवैः सह। भीष्ममेवाभ्ययुस्तूर्णं त्यक्त्वा मृत्युकृतं भयम्
स तेषां रथिनां वीरो भीष्मः शान्तनवो युधि । चिच्छेद सहसा राजन्बाहूनथ शिरांसि च
विरथान्रथिनश्चक्रे पिता देवव्रतस्तव। पतितान्युत्तमाङ्गानि हयेभ्यो हयसादिनाम्
निर्मनुष्यांश्च मातङ्गाञ्शयानान्पर्वतोपमान् । अपश्याम महाराज भीष्मास्त्रेण प्रमाथितान्
न तत्रासीत्पुमान्कश्चित्पाण्डवानां विशांपते। अन्यत्र रथिनां श्रेष्ठद्भीमसेनान्महाबलात्
स हि भीष्मं समासाद्य छादयामास सायकैः । ततो निष्टानको घोरो भीष्मभीमसमागमे
बभूव सर्वसैन्यानां घोररूपो भयानकः । तथैव पाण्डवा हृष्टाः सिंहनादमथानदन्
ततो दुर्योधनो राजा सोदर्यैः परिवारितः। भीष्मं जुगोप समरे वर्तमाने जनक्षये
भीमस्तु सारथिं हत्वा भीष्मस्य रथिनां वरः। प्रद्रुताश्वे रथे तस्मिन्द्रवमाणे समन्ततः
सुनाभस्य शरेणाशु शिरश्चिच्छेद भारत । क्षुरप्रेण सुतीक्ष्णेन स हतो न्यपतद्भुवि
हते तस्मिन्महाराज तव पुत्रे महारथे । नामृष्यन्त रणे शूराः सोदराः सप्त संयुगे
आदित्यकेतुर्बह्वाशी कुण्डधारो महोदरः । अपराजितः पण्डितको विशालाक्षः सुदुर्जयः
पाण्डवं चित्रसन्नाहा विचित्रकवचध्वजाः । अभ्यद्रवन्त संग्रामे योद्धुकामारिमर्दनाः
महोदरस्तु समरे भीमं विव्याध पत्रिभिः । नवभिर्वद्रसंकाशैर्नमुचिं वृत्रहा यथा
आदित्यकेतुः सप्तत्या बह्वाशी चापि पञ्चभिः । नवत्या कुण्डधारश्च विशालाक्षश्च पञ्चभिः
अपराजितो महाराज पराजिष्णुर्महारथम् । शरैर्बहुभिरानर्च्छद्भीमसेनं महाबलम्
रणे पण्डितकश्चैनं त्रिभिर्बाणैः समार्पयत्। स तं न ममृषे भीमः शत्रुभिर्वधमाहवे
धनुः प्रपीड्य वामेन करेणामित्रकर्सनः । शिरश्चिच्छेद समरे शरेणानतपर्वणा
अपराजितस्य सुनसं तव पुत्रस्य संयुगे । पराजितस्य भीमेन कृत्तं गामपतच्छिरः
अथापरेण भल्लेन कुण्डधारं महारथम् । प्राहिणोन्मृत्युलोकाय सर्वलोकस्य पश्यतः
ततः पुनरमेयात्मा प्रसंधाय शिलीमुखम् । प्रेषयामास समरे पण्डितं प्रति भारत