रेजुस्तत्र पताकाश्च श्वेतच्छत्राणि भारत । अङ्गदान्यत्र चित्राणि महार्हाणि धनूंषि च
तं तु दृष्ट्वा महाव्यूहं तावकानां महारथः । युधिष्ठिरोऽब्रवीत्तूर्णं पार्षतं पृतनापतिम्
पश्य व्यूहं महेष्वास निर्मितं सागरोपमम् । प्रतिव्यूहं रणे शूर कुरु क्षिप्रं महारथ
ततः स पार्षतः क्रूरो व्यूहं चक्रे सुदारुणम् । श्रृङ्गाटकं महाराज परव्यूहविनाशनम्
श्रृङ्गाभ्यां भीमसेनश्च सात्यकिश्च महारथः । रथैरनेकसाहस्रैस्तथा हयपदातिभिः
नाभावभून्नरश्रेष्ठः श्वेताश्वः कृष्णसारथिः । मध्ये युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ
अथेतरे महेष्वासाः सहसैन्या नराधिपाः । व्यूहं तं पूरयामासुर्व्यूहशास्त्रविशारदाः
एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः । अतिष्ठन्समरे शूरा योद्धुकामा जयैषिणः
भेरीशब्दैश्च विमलैर्विमिश्रैः शङ्खनिःस्वनैः । क्ष्वेडितास्फोटितोत्क्रुष्टैर्नादिताः सर्वतो दिशः
ततः शूराः समासाद्य समरे ते परस्परम। नेत्रैरनिमिषै राजन्नवैक्षन्त परस्परम्
मनोभिस्ते मनुष्येन्द्र युद्धं योधाः प्रचक्रिरे ।' पुनराहूय तेऽन्योन्यं शरीरैरपि चक्रिरे
ततः प्रववृते युद्धं घोररूपं भयावहम् । तावकानां परेषां च निघ्नतामितरेतरम्
नाराचा निशिताः सङ्ख्ये संपतन्ति स्म भारत । व्यात्तानना भयकरा उरगा इव सङ्घशः
निष्पेतुर्विमलाः शक्त्यस्तैलधौताः सुतेजनाः । अम्बुदेभ्यो यथा राजन्भ्राजमानाः शतह्रदाः
गदाश्च विमलैः पट्टैः पिनद्धाः स्वर्णभूषिताः। पतन्त्यस्तत्र दृस्यन्ते गिरिशृङ्गोपमाः शुभाः
निस्त्रिंशाश्च व्यदृश्यन्त विमलाम्बरसन्निभाः । आर्षभाणि च चर्माणि शतचन्द्राणि भारतत
अशोभन्त रणे राजन्पात्यमानानि सर्वशः । तेऽन्योन्यं समरे सेने युध्यमाने नराधिप
अशोभेतां यथा देवदैत्यसेने समुद्यते। अभ्यद्रवन्त समरे तेऽन्योन्यं वै समन्ततः
रथास्तु रथिभिस्तूर्णं प्रेषिताः परमाहवे। युगैर्युगानि संश्लिष्य युयुधुः पार्थिवर्षभाः
दन्तिनां युध्यमानानां संघर्षात्पावकोऽभवत् । दन्तेषु भरतश्रेष्ठ सधूमः सर्वतो दिशम्
प्रासैरभिहताः केचिद्गजयोधाः समन्ततः । पतमानाः स्म दृश्यन्ते गिरिशृङ्गान्नगा इव
पादाताश्चाप्यदृश्यन्त निघ्नन्तोऽथ परस्परम् । चित्ररूपधराः शूरा नखरप्रासयोधिनः
अन्योन्यं ते समासाद्य कुरुपाण्डवसैनिकाः । अस्त्रैर्नानाविधैर्घोरै रणे निन्युर्यमक्षयम्
ततः शान्तनवो भीष्मो रथघोषेण नादयन् । अभ्यागमद्रणे पार्थान्धनुःशब्देन मोहयन्
पाण्डवानां रथाश्चापि नदन्तो भैरवं स्वनम् । अभ्यद्रवन्त संयत्ता धृष्टद्युम्नपुरोगमाः
ततः प्रववृते युद्धं तव तेषां च भारत। नराश्वरथनागानां व्यतिषक्तं परस्परम्
भीष्मं तु समरे क्रुद्धं प्रतपन्तं समन्ततः। न शेकुः पाण्डवा द्रष्टुं तपन्तमिव भास्करम्
ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात्। अभ्यद्रवन्त गाङ्गेयं मर्दयन्तं शितैः शरैः
स तु भीष्मो रणश्लाघी तोमकान्सहसृज्जयान् । पाञ्चालांश्च महेष्वासान्पातयामास सायकैः
ते वध्यमाना भीष्मेण पाञ्चालाः पाण्डवैः सह। भीष्ममेवाभ्ययुस्तूर्णं त्यक्त्वा मृत्युकृतं भयम्