ततो दुर्योधनो राजा लोहितायति भास्करे। अब्रवीत्तावकान्सर्वांस्त्वरध्वमिति भारत
युध्यतां तु तथा तेषां कुर्वतां कर्म दुष्करम्। अस्तं गिरिमथारूढे अप्रकाशति भास्करे
प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी । गोमायुगणसंकीर्णा क्षणेन क्षणदामुखे
शिवाभिरशिवाभिश्च रुवद्भिर्भैरवं रवम्। घोरमायोधनं जज्ञे भूतसङ्घैः समाकुलम्
राक्षसाश्च पिशाचाश्च तथान्ये पिशिताशिनः । समन्ततो व्यदृश्यन्त शतशोऽथ सहस्रशः
अर्जुनोऽथ सुशर्मादीन्राज्ञस्तान्सपदानुगान्। विजित्य पृतनामध्ये ययौ स्वशिबिरं प्रति
युधिष्टिरोऽपि कौरव्यो भ्रातृभ्यां सहितस्तथा। ययौ स्वशिबिरं राजा निशायां सेनया वृतः
भीमसेनोऽपि राजेन्द्र दुर्योधनमुखान्रथान् । अवजित्य ततः सङ्ख्ये ययौ स्वशिबिरं प्रति
दुर्योधनोऽपि नृपतिः परिवार्य महारणे। भीष्मं शान्तनवं तूर्णं प्रयातः शिबिरं प्रति
द्रोणो द्रौणिः कृपः शल्यः कृतवर्मा च सात्वतः । परिवार्य चमूं सर्वाः प्रययुः शिबिरं प्रति
तथैव सात्यकी राजन्धृष्टद्युम्नश्च पार्षतः। परिवार्य रणे योधान्ययतुः शिबिरं प्रति
एवमेते महाराज तावकाः पाण्डवैः सह। पर्यवर्तन्त सहिता निशाकाले परंतप
ततः स्वशिबिरं गत्वा पाण्डवाः कुरवस्तथा । न्यवसन्त महाराज पूजयन्तः परस्परम्
रक्षां कृत्वा ततः शूरा न्यस्य गुल्मान्यथाविधि। अपनीय च शल्यानि स्नात्वा च विविधैर्जलैः
कृतस्वस्त्ययनाः सर्वे स्तूयमानाश्च बन्दिभिः । गीतवादित्रशब्देन व्यक्रीडन्त यशस्विनः
मुहूर्तादिव तत्सर्वमभवत्स्वर्गसन्निभम् । न हि युद्धकथां कांचित्तत्राकुर्वन्महारथाः
ते प्रसुप्ते बले तत्र परिश्रान्तजने नृप । हस्त्यश्वबहुले रात्रौ प्रेक्षणीये बभूवतुः
परिणाम्य निशां तां तु सुखसुप्ता जनेश्वराः। कुरवः पाण्डवाश्चैव पुनर्युद्धाय निर्ययुः
ततः शब्दो महानासीत्सेनयोरुभयोर्नृप । निर्गच्छमानयोः सङ्ख्ये यथा सागरयोरिव
ततो दुर्योधनो राजा चित्रसेनो विविंशतिः। भीष्मश्च रथिनां श्रेष्ठो भारद्वाजश्च वै द्विजः
एकीभूताः सुसंयत्ताः कौरवाणां महाचमूम् । व्यूहाय विदधू राजन्पाण्डवान्प्रतिदंशितान्
कूर्मव्यूहं ततः कृत्वा पिता तव विशांपते । सागरप्रतिमं घोरं वाहनोर्मितरङ्गिणम्
अग्रतः सर्वसैन्यानां भीष्मः शान्तनवो ययौ । मालवैर्दाक्षिणात्यैश्च आवन्त्यैश्च समन्वितः
ततोऽनन्तरमेवासीद्भारद्वाजः प्रतापवान । पुलिन्दैः पारदैश्चैव तथा क्षुद्रकमालवैः
द्रोणादनन्तरं यत्तो भगदत्तः प्रतापवान् । मगधैश्च कलिङ्गैश्च पिशाचैश्च विशांपते
प्राग्ज्योतिषादनु नृपः कौसल्योऽथ बृहद्बलः । मेकलैः कुरुविन्दैश्च त्रैपुरैश्च समन्विताः
बृहद्बलादनु नृपस्त्रिगर्तः प्रस्थलाधिपः। काम्भोजैर्बहुभिः सार्धं यवनैश्च सहस्रशः
द्रौणिस्तु रभसः शूरस्त्रैगर्तादनु भारत। प्रययौ सिंहनादेन नादयानो धरातलम्
तथा सर्वेण सैन्येन राजा दुर्योधनस्तदा। द्रौणेरनन्तरं प्रायात्सोदर्यैः परिवारितः
दुर्योधनादनु ततः कृपः शारद्वतो ययौ। एवमेष महाव्यूहः प्रययौ सागरोपमः