तं तु च्छित्वा रणे भीष्मो नाराचं कलसंमितम् । नजघ्ने कौरवेन्द्रस्य हयान्काञ्चनभूषणान्
हताश्वं तु रथं त्यक्त्वा धर्मपुत्रो युधिष्ठिरः। आरुरोह रथं तूर्णं नकुलस्य महात्मनःक
यमावपि हि संक्रुद्धः समासाद्य रणे तदा । शरैः संछादयामास भीष्मः परपुरंजयः
तौ तु दृष्ट्वा महाराज भीष्मबाणप्रपीडितौ। जगाम परमां चिन्तां भीष्मस्य वधकाङ्क्षया
ततो युधिष्ठिरो वश्यान्राज्ञस्तान्समचोदयत् । भीष्मं शान्तनवं सर्वे निहतेति सुहृद्गणान्
ततस्ते पार्थिवाः सर्वे श्रुत्वा पार्थस्य भाषितम् । महता रथवंशेन परिवव्रुः पितामहम्
स समन्तात्परिवृतः पिता देवव्रतस्तव। चिक्रीड धनुषा राजन्पातयानो महारथान्
तं चरन्तं रणे पार्था ददृशुः कौरवं युधि। मृगमध्यं प्रविश्येव यथा सिंहशिशुं वने
तर्जयानं रमे वीरांस्त्रासयानं च सायकैः । दृष्ट्वा त्रेसुर्महाराज सिंहं मृगगणा इव
रणे भारत सिंहस्य ददृशुः क्षत्रिया गतिम्। अग्नेर्वायुसहायस्य यथा कक्षं दिधक्षतः
शिरांसि रथिनां भीष्मः पातयामास संयुगे। तालेभ्यः परिपक्वानि फलानि कुशलो नरः
पतद्भिश्च महाराज शिरोभिर्धरणीतले। बभूव तुमुलः शब्दः पततामश्मनामिव
तस्मिन्सुतुमुले युद्धे वर्तमाने भयानके। सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान्
भिन्नेषु तेषु व्यूहेषु क्षत्रिया इतरेतरम् । एकमेकं समाहूय युद्धायैवावतस्थिरे
शिखण्डी तु समासाद्य भरतानां पितामहम् । अभिदुद्राव वेगेन तिष्ठतिष्ठेति चाब्रवीत्
अनादृत्य ततो भीष्मस्तं शिखण्डिनमाहवे । प्रययौ सृञ्जयान्क्रुद्धः स्त्रीत्वं तस्य विचिन्तयन्
सृंजयास्तु ततो दृष्ट्वा हृष्टं भीष्म महारणे । सिंहनादांश्च विविधांश्चक्रुः शङ्खविमिश्रितान्
ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् । पश्चिमां दिशमासाद्य स्थिते सवितरि प्रभो
धृष्टद्युम्नोऽथ पाञ्चाल्यः सात्यकिश्च महारथः । पीडयन्तौ भृशं सैन्यं शक्तितोमरवृष्टिभिः
शस्त्रैश्च बहुभी राजञ्जघ्नतुस्तावकान्रणे । ते हन्यमानाः समरे तावका भरतर्षभ
आर्यां युद्धे मतिं कृत्वा न त्यजन्ति स्म संयुगम्। यथोत्साहं तु समरे निजघ्नुस्तावका रणे
तत्राक्रन्दो महानासीत्तावकानां महात्मानाम् । वध्यतां समरे राजन्पार्षतेन महात्मना
तं श्रुत्वा निनदं घोरं तावकानां महारथौ । विन्दानुविन्दावावन्त्यौ पार्षतं प्रत्युपस्थितौ
तौ तस्य तुरगान्हत्वा त्वरमाणौ महारथौ । छादयामासतुरुभौ शरवर्षेण पार्षतम्
अवप्लुत्याथ पाञ्चाल्यो रथात्तूर्णं महाबलः । आरुरोहक रथं तूर्णं सात्यकेस्तु महात्मनः
ततो युधिष्ठिरो राजा महत्या सेनया वृतः। आवन्त्यौ समरे क्रुद्धावभ्ययात्स परंतपौ
तथैव तव पुत्रोऽपि सर्वोद्योगेन मारिष । विन्दानुविन्दौ समरे परिवार्यावतस्थिवान्
अर्जुनश्चापि संक्रुद्धः क्षत्रियान्क्षत्रियर्षभः । अयोधयत संग्रामे वज्रपाणिरिवासुरान्
द्रोणास्तु समरे क्रुद्धः पुत्रस्य प्रियकृत्तव । व्यधमत्सर्वपाञ्चालांस्तूलराशिमिवानलः
दुर्योधनपुरोगास्तु पुत्रास्तव विशांपते । परिवार्य रणे भीष्मं युयुधुः पाण्डवैः सह