ततः समुत्सृज्य धनुः सबाणं युधिष्ठिरं वीक्ष्य भयाभिभूतम्। गदां प्रगृह्याभिपपात सङ्ख्ये जयद्रथं भीमसेनः पदातिः
तमापतन्तं सहसा जवेन जयद्रथः सगदं भीमसेनम्। विव्याध घोरैर्यमदण्डकल्पैः शितैः शरैः पञ्चशरैः समन्तात्
अचिन्तयित्वा स शरांस्तरस्वी वृकोदरः क्रोधपरीतचेताः । जघान वाहान्समरे समन्तात् सुसंमतान्सिन्धुराजस्य सङ्ख्ये
ततोऽभिवीक्ष्याप्रतिमप्रभाव- स्तवात्मजस्त्वरमाणो रथेन अभ्यायौ भीमसेनं निहन्तुं समुद्यतास्त्रः सुरराजकल्पः
जयद्रथो भग्रवाहं रथं त त्यक्त्वा ययौ यत्र राजा कुरूणाम् । भयेन भीमस्य समूढचेताः ससौबलस्तत्र युद्धस्य भीतः
भीमोऽप्यथैनं सहसा विनद्य प्रत्युद्ययौ गदया तर्जयानः। समुद्यतां तां यमदण्डकल्पां दृष्ट्वा गदां ते कुरवः समन्तात्
पातं गदायाः परिहर्तुकामाः। अपक्रान्तास्तुमुले संप्रमर्दे सुदूरुणे भारत मोहनीये
ज्जगामान्यं भ्रमप भूमिदेशम्
गदापि सा प्राप्य रथं सुचित्रं साश्व ससूतं विनिहत्य सङ्ख्ये। जगाम भूमिं ज्वलिता महोल्क भ्रष्टाऽम्बराद्गामिव संपतन्ती
आश्चर्यभूतं सुमहत्त्वदीया दृष्ट्वैव तद्भारत संप्रहृष्टाः। सर्वे विनेदुः सहिताः समन्ता- त्पुपूजिरे तव पुत्रस्य शौर्यम्
विरथं तं समासाद्य चित्रसेनं यशस्विनम् । रथमारोपयामास विकर्णस्तनयस्तव
तस्मिंस्तथा वर्तमाने तुमुले संकुले भृशम्। भीष्मः शान्तनवस्तूर्णं युधिष्ठिरमुपाद्रवत्
ततः सरथनागाश्वाः समकम्पन्त सृञ्जयाः । मृत्योरास्यमनुप्राप्तं मेनिरे च युधिष्ठिरम्
युधिष्ठिरोऽपि कौरव्यो यमाभ्यां सहितः प्रभुः । महेष्वासं नरव्याघ्रं भीष्मं शान्तनवं ययौ
ततः शरसहस्राणि प्रमुञ्चन्पाण्डवो युधि । भीष्मं संछादयामास यथा मेघो दिवाकरम्
तेन सम्यक्प्रणीतानि शरजालानि मारिष । प्रतिजग्राह गाङ्गयः शतशोऽथ सहस्रशः
तथैव शरजालानि भीष्मोणास्तानि मारिष । आकाशे समदृश्यन्त स्वगमानां व्रजा इव
निमेषार्धेन कौन्तेयं भीष्मः शान्तनवो युधि । अदृश्यं समरे चक्रे शरजालेन भारत
ततो युधिष्ठिरे राजा कौरव्यस्य महात्मनः । नाराचं प्रेषयामास क्रुद्ध आशीविषोपमम्
असंप्राप्तं ततस्तं तु क्षुरप्रेण महारथः । चच्छेद समरे राजन्भीष्मस्तस्य धनुश्च्युतम्
तं तु च्छित्वा रणे भीष्मो नाराचं कलसंमितम् । नजघ्ने कौरवेन्द्रस्य हयान्काञ्चनभूषणान्
हताश्वं तु रथं त्यक्त्वा धर्मपुत्रो युधिष्ठिरः। आरुरोह रथं तूर्णं नकुलस्य महात्मनःक
यमावपि हि संक्रुद्धः समासाद्य रणे तदा । शरैः संछादयामास भीष्मः परपुरंजयः
तौ तु दृष्ट्वा महाराज भीष्मबाणप्रपीडितौ। जगाम परमां चिन्तां भीष्मस्य वधकाङ्क्षया
ततो युधिष्ठिरो वश्यान्राज्ञस्तान्समचोदयत् । भीष्मं शान्तनवं सर्वे निहतेति सुहृद्गणान्
ततस्ते पार्थिवाः सर्वे श्रुत्वा पार्थस्य भाषितम् । महता रथवंशेन परिवव्रुः पितामहम्
स समन्तात्परिवृतः पिता देवव्रतस्तव। चिक्रीड धनुषा राजन्पातयानो महारथान्
तं चरन्तं रणे पार्था ददृशुः कौरवं युधि। मृगमध्यं प्रविश्येव यथा सिंहशिशुं वने
तर्जयानं रमे वीरांस्त्रासयानं च सायकैः । दृष्ट्वा त्रेसुर्महाराज सिंहं मृगगणा इव
रणे भारत सिंहस्य ददृशुः क्षत्रिया गतिम्। अग्नेर्वायुसहायस्य यथा कक्षं दिधक्षतः