पूर्णां हस्तिगवाश्वैश्च बहुरत्नसमाकुलाम्। ममज्जेव मही तस्य भूरिभारावपीडिता
हस्त्यश्वरथसंपूर्णा मनुष्यकलिला भृशम्। सुहोत्रे राजनि तदा धर्मतः शासति प्रजाः
चैत्ययूपाङ्किता चासीद्भूमिः शतसहस्रशः। प्रवृद्धजनसस्या च सर्वदैव व्यरोचत
ऐक्ष्वाकी जनयामास सुहोत्रात्पृथिवीपतेः। अजमीढं सुमीढं च पुरुमीढं च भारत
अजमीढो वरस्तेषां तस्मिन्वंशः प्रतिष्ठितः। षट् पुत्रान्सोप्यजनयत्तिसृषु स्त्रीषु भारत
ऋक्षं धूमिन्यथो नीली दुष्यन्तपरमेष्ठइनौ। केशिन्यजनयज्जह्नुं सुतौ च जनरूषिणौ
विदुः संवरणं वीरमृक्षाद्राथन्तरीसुतम्। तथेमे सर्वपञ्चाला दुष्यन्तपरमेष्ठिनोः। अन्वयाः कुशिका राजञ्जन्होरमिततेजसः
जनरूषणयोर्ज्येष्ठमृक्षमाहुर्जनाधिपम्। ऋक्षात्संवरणो जज्ञे राजन्वंशकरस्तव
आर्क्षे संवरणे राजन्प्रशासति वसुन्धराम्। संक्षयः सुमहानासीत्प्रजानामिति नः श्रुतम्
व्यशीर्यत ततो राष्ट्रं क्षयैर्नानाविधैस्तदा। क्षुन्मृत्युभ्यामनावृष्ट्या व्याधिभिश्च समाहतम्
अभ्यघ्नन्भारतांश्चैव सपत्नानां बलानि च। चालयन्वसुधां चेमां बलेन चतुरङ्गिणा
अभ्ययात्तं च पाञ्चल्यो विजित्य तरसा महीम्। अक्षौहिणीभिर्दशभिः स एनं समरेऽजयत्
ततः सदारः सामात्यः सपुत्रः ससुहृज्जनः। राजा संवरणस्तस्मात्पलायत महाभयात्
ते प्रतीचीं पराभूताः प्रपन्ना भारता दिशम्'। सिन्धोर्नदस्य महतो निकुञ्जे न्यवसंस्तदा। नदीविपयपर्यन्ते पर्वतस्य समीपतः
तत्रावसन्बहून्कालान्भारता दुर्गमाश्रिताः। तेषां निवसतां तत्र सहस्रं परिवत्सरान्
अथाभ्यगच्छद्भरतान्वसिष्ठो भगवानृषिः। तमागतं प्रयत्नेन प्रत्युद्गम्याभिवाद्य च
अर्घ्यमभ्याहरंस्तस्मै ते सर्वे भारतास्तदा। निवेद्य सर्वमृषये सत्कारेण सुवर्चसे
तमासने चोपविष्टं राजा वव्रे स्वयं तदा। पुरोहितो भवान्नोऽस्तु राज्याय प्रयतेमहि
ओमित्येवं वसिष्ठोऽपि भारतान्प्रत्यपद्यत। अथाभ्यषिञ्चत्साम्राज्ये सर्वक्षत्रस्य पौरवम्
विषाणभूतं सर्वस्यां पृथिव्यामिति नः श्रुतम्। भरताध्युषितं पूर्वं सोऽध्यतिष्ठत्पुरोतोतमम्
पुनर्बलिभृतश्चैव चक्रे सर्वमहीक्षितः। ततः स पृथिवीं प्राप्य पुनरीजे महाबलः
आजमीढो महायज्ञैर्बहुभिर्भूरिदक्षिणैः। ततः संवरणात्सौरी तपती सुषुवे कुरुम्
राजत्वे तं प्रजाः सर्वा धर्मज्ञ इति वव्रिरे। `महिम्ना तस्य कुरवो लेभिरे प्रत्ययं भृशम्।' तस्य नाम्नाऽभिविख्यातं पृथिव्यां कुरुजाङ्गलं
कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः। अश्ववन्तमभिष्यन्तं तथा चैत्ररथं मुनिम्
जनमेजयं च विख्यातं पुत्रांश्चास्यानुशुश्रुम। पञ्चैतान्वाहिनी पुत्रान्व्यजायत मनस्विनी
अविक्षितः परिक्षित्तु शबलाश्वस्तु वीर्यवान्। आदिराजो विराजश्च शाल्मलिश्च महाबलः
उच्चैःश्रवा भङ्गकारो जितारिश्चाष्टमः स्मृतः। एतेषामन्ववाये तु ख्यातास्ते कर्मजैर्गुणैः। जनमेजयादयः सप्त तथैवान्ये महारथाः
परीक्षितोऽभवन्पुत्राः सर्वे धर्मार्थकोविदाः। कक्षसेनोग्रसेनौ तु चित्रसेनश्च वीर्यवान्
इन्द्रसेनः सुषेणश्च भीमसेनश्च नामतः। जनमेजयस्य तनया भुवि ख्याता महाबलाः
धृतराष्ट्रः प्रथमजः पाण्डुर्बाह्लीक एव च। निषधश्च महातेजास्तथा जाम्बूनदो बली