स ताड्यमानस्तु शरैर्धनंजयः पदाहतो नाग इव श्वसन्बली । बाणांश्च बाणेन महारथानां चिच्छेद चापानि रणे प्रसह्य
संछिद्य चापानि च तानि राज्ञां तेषां रणे वीर्यवतां क्षणेन। विव्याध बाणैर्युगपन्महात्मा निःशेषतां तेष्वथ मन्यमानः
निपेतुराजौ रुधिरप्रदिग्धा- स्ते ताडिताः शक्रसुतेन राजन्। विभिन्नगात्राः पतितोत्तमाङ्गा गतासवश्छिन्नतनुक्रकायाः
महीं गताः पर्थबलाभिभूता विचित्ररूपा युगपद्विनेशुः। दृष्ट्वा हतांस्तान्युधि राजपुत्रां- स्त्रिगर्तराजः प्रययौ रथेन
तेषां रथानामथ पृष्ठगोपा द्वात्रिंशदन्येऽभ्यपतन्त पार्थम्। तथैव ते तं परिवार्य पार्थं विकृष्य चापानि महारवाणि
अवीवृषन्बाणमहौघवृष्ट्या यथा गिरिं तोयधरा जलौघैः। संपीड्यमानस्तु शरौघवृष्ट्या धनंजयस्तान्युधि जातरोषः
षष्ट्या शरैः संयति तैलधौतै- र्जघान तानप्यथ पृष्ठगोपान्। रथांश्च तांस्तनवजित्य सङ्ख्ये धनञ्जयः प्रीतमना यशस्वी
अथात्वरद्भीष्मवधाय जिष्णु- र्बलानि राजन्समरे निहत्य। त्रिगर्तराजो निहतान्समीक्ष्य महात्मना तानथ बन्धुवर्गान्
रणे पुरस्कृत्य नराधिपांस्तान् जगाम पार्थं त्वरितो वधाय अभिद्रुतं चास्त्रभृतां वरिष्ठं धनंजयं वीक्ष्य शिखण्डिमुख्याः
अभ्यद्ययुस्ते शितशस्त्रहस्ता रिरक्षिषन्तो रथमर्जुनस्य। पार्थोऽपि तानापततः समीक्ष्य त्रिगर्तराज्ञा सहितान्नृवीरान
विध्वंसयित्वा समरे धनुष्मान् गाण्डीवमुक्तैर्निशितैः पृषत्कैः । भीष्मं यियासुर्युधि संददर्श दुर्योधनं सैन्धवादींश्च राज्ञः
गाङ्गेयमाजौ शरचापपाणिः
भीष्मोऽपि दृष्ट्वा समरे कृतास्त्रान् स पाण्डवानां रथिनोऽभ्युदारान्। विहाय संग्राममुखे धनंजयं जवेन पार्थं पुनराजगाम
र्भीष्मं ययौ शान्तनवं रणाय
तैः संप्रयुक्तैः स महारथाग्र्यै- र्गङ्गासुतः समरे चित्रयोधी। न विव्यधे शान्तनवो महात्मा समागतैः पाण्डुसुतैः समस्तैः
अथैत्य राजा युधि सत्यसन्धो जयद्रथोऽत्युग्रबलो मनस्वी। चिच्छेद चापानि महारथानां प्रसह्य तेषां धनुषा वरेण
युधिष्ठिरं भीमसेनं यमौ च पार्थं कृष्णं युधि संजातकोपः । दुर्योदनः क्रोधविषो महात्मा जघान बाणैरनलप्रकाशैः
कृपेण शल्येन शलेन चैव तथा विभो चित्रसेनेन चौजौ। विद्धाः शरैस्तेऽतिविवृद्धकोपै- र्देवा यथा दैत्यगणैः समेतैः
छिन्नायुधं शान्तनवेन राजा शिखण्डिनं प्रेक्ष्य च जातकोपः। अजातशत्रुः समरे महात्मा शिखण्डिनं क्रुद्ध उवाच वाक्यम्
उक्त्वा तथा त्वं पितुरग्रतो मा- महं हनिष्यामि महाव्रतं तम्। भीष्मं शरौघैर्विमलार्कवर्णैः सत्यं वदामीति कृता प्रतिज्ञा
त्वया च नैनां सफलां करोषि देवव्रतं यन्न निहंसि युद्धे। मिथ्याप्रतिज्ञो भव मात्र वीर रक्षस्व धर्मं स्वकुलं यशश्च
प्रेक्षस्व भीष्मं युधि भीमवेगं सर्वांस्तपन्तं मम सैन्यसङ्घान्। शरौघजालैरतितिग्मवेगैः कालं यथा कालकृतं क्षणेन
निकृत्तचापः समरेऽनपेक्षः पराजितः शान्तनवेन चाजौ । विहाय बन्धूनथ सदरांश्च क्व यास्यसे नानुरूपं तवेदम्
दृष्ट्वा हि भीष्मं तमनन्तवीर्यं भग्नं च सैन्यं द्रवमाणमेवम् । भीतोऽसि नूनं द्रुपदस्य पुत्र तथा हि ते मुखवर्णोऽप्रहृष्टः
अज्ञायमाने च धनंजये तु महाहावे संप्रसक्ते नृवीरे। कथं हि भीष्मात्प्रथितः पृथिव्यां भयं त्वमद्य प्रकरोषि वीर
स धर्मराजस्य वचो निशम्य रूक्षाक्षरं विप्रलापानुबद्धम् । प्रत्यादेशं मन्यमानो महात्मा प्रतत्वरे भीष्मवधाय राजन्
तमापतन्तं महता जवेन शिखण्डिनं भीष्ममभिद्रवन्तम्। निवारयामास हि शल्य एन- मस्त्रेण घोरेण सुदुर्जयेन
शरैस्तदस्त्रं प्रतिबाधमानः
अथाददे वारुणमन्यदस्त्रं शिखण्ड्यथोऽग्रं प्रतिघातमस्य। तदस्त्रमस्त्रेण विदार्यमाणं खस्थाः सुरा ददृशुः पार्थिवाश्च
भीष्मस्तु राजन्समरे महात्मा धनुश्च चित्रं ध्वजमेव चापि। छित्त्वाऽनदत्पाण्डुसुतस्य वीरो युधिष्ठिरस्याजमीढस्य राज्ञः