सौमदत्तिरुरस्थैस्तैर्भृशं बाणैरशोभत । मध्यंदिने महाराज रश्मिभिस्तपनो यथा
भूरिश्रवास्तु समरे धृष्टकेतुं महारथम् । हतसूतहयं चक्रे विरथं सायकोत्तमैः
विरथं तं समालोक्य हताश्वं हतसारथिम् । महता शरवर्षेण च्छादयामास संयुगे
स तु तं रथमुत्सृज्य धृष्टकेतुर्महामनाः । आरुरोह ततो यानं शतानीकस्य मारिष
चित्रसेनो विकर्णश्च राजन्दुर्मर्षणस्तथा। रथिनो हेमसन्नाहाः सौभद्रमभिदुद्रुवुः
अभिमन्योस्ततस्तैस्तु घोरं युद्धमवर्तत। शरीरस्य यथा राजन्वातपित्तकफैस्त्रिभिः
विरथांस्तव पुत्रांस्तु कृत्वा राजन्महाहवे । न जघान नरव्याघ्रः स्मरन्भीमवचस्तदा
ततो राज्ञां बहुशतैर्गजाश्वरथयायिभिः । संवृतं समरे भीष्मं देवैरपि दुरासदम्
प्रयान्तं शीघ्रमुद्वीक्ष्य परित्रातुं सुतांस्तव । अभिमन्युं समुद्दिश्य बालमेकं महारथम्
वासुदेवमुवाचेदं कौन्तेयः श्वेतवाहनः । चोदयाश्वान्हृषीकेश यत्रैते बहुला रथाः
एते हि बहवः शूराः कृतास्त्रा युद्धदुर्मदाः। यथा हन्युर्न नः सेनां तथा माधव चोदय
एवमुक्तः स वार्ष्णेयः कौन्तेयेनामितौजसा । रथं श्वेतहयैर्युक्तं प्रेषयामास संयुगे
निष्ठानको महानासीत्तव सैन्यस्य मारिष । यदर्जुनो रणे क्रुद्धः संयातस्तावकान्प्रति
समासाद्य तु कौन्तेयो राज्ञस्तान्भीष्मरक्षिणः । सुशर्माणमथो राजन्निदं वचनमब्रवीत्
जानामि त्वां युधां श्रेष्ठमत्यन्तं पूर्ववैरिणम् । अनयस्याद्य संप्राप्तं फलं पश्य सुदारुणम्
अद्य ते दर्शयिष्यामि पूर्वप्रेतान्पितामहान् । एवं संजल्पतस्तस्य बीभत्सोः शत्रुघातिनः
श्रुत्वापि परुषं वाक्यं सुशर्मा रथयूथपः । न चैनमब्रवीत्किंचिच्छुभं वा यदि वाऽशुभम्
अभिगम्यार्जुनं वीरं राजभिर्बहुभिर्वृतः। पुरस्तात्पृष्ठतश्चैव पार्श्वतश्चैव सर्वतः
परिवार्यार्जुनं सङ्ख्ये तव पुत्रैर्महारथः । शरैः संछादयामास मेघैरिव दिवाकरम्
ततः प्रवृत्तः सुमहान्संग्रामः शोणितोदकः। तावकानां च समरे पाण्डवानां च भारत
स ताड्यमानस्तु शरैर्धनंजयः पदाहतो नाग इव श्वसन्बली । बाणांश्च बाणेन महारथानां चिच्छेद चापानि रणे प्रसह्य
संछिद्य चापानि च तानि राज्ञां तेषां रणे वीर्यवतां क्षणेन। विव्याध बाणैर्युगपन्महात्मा निःशेषतां तेष्वथ मन्यमानः
निपेतुराजौ रुधिरप्रदिग्धा- स्ते ताडिताः शक्रसुतेन राजन्। विभिन्नगात्राः पतितोत्तमाङ्गा गतासवश्छिन्नतनुक्रकायाः
महीं गताः पर्थबलाभिभूता विचित्ररूपा युगपद्विनेशुः। दृष्ट्वा हतांस्तान्युधि राजपुत्रां- स्त्रिगर्तराजः प्रययौ रथेन
तेषां रथानामथ पृष्ठगोपा द्वात्रिंशदन्येऽभ्यपतन्त पार्थम्। तथैव ते तं परिवार्य पार्थं विकृष्य चापानि महारवाणि
अवीवृषन्बाणमहौघवृष्ट्या यथा गिरिं तोयधरा जलौघैः। संपीड्यमानस्तु शरौघवृष्ट्या धनंजयस्तान्युधि जातरोषः
षष्ट्या शरैः संयति तैलधौतै- र्जघान तानप्यथ पृष्ठगोपान्। रथांश्च तांस्तनवजित्य सङ्ख्ये धनञ्जयः प्रीतमना यशस्वी
अथात्वरद्भीष्मवधाय जिष्णु- र्बलानि राजन्समरे निहत्य। त्रिगर्तराजो निहतान्समीक्ष्य महात्मना तानथ बन्धुवर्गान्
रणे पुरस्कृत्य नराधिपांस्तान् जगाम पार्थं त्वरितो वधाय अभिद्रुतं चास्त्रभृतां वरिष्ठं धनंजयं वीक्ष्य शिखण्डिमुख्याः
अभ्यद्ययुस्ते शितशस्त्रहस्ता रिरक्षिषन्तो रथमर्जुनस्य। पार्थोऽपि तानापततः समीक्ष्य त्रिगर्तराज्ञा सहितान्नृवीरान