चेकितानस्ततः क्रुद्धः पुनश्चिक्षेप तां गदाम् । गौतमस्य वधाकाङ्क्षी वृत्रस्येव पुरन्दरः
तामापतन्तीं विमलामश्यमगर्भां महागदाम्। शरैरनेकसाहस्त्रैर्वारयामास गौतमः
चेकितानस्ततः खङ्गं क्रोधादुद्धृत्य भारत। लाघवं परमास्थाय गौतमं समुपाद्रवत्
गौतमोऽपि धनुस्त्यक्त्वा प्रगृह्यासिं सुसंयतः । वेगेन महता राजंश्चेकितानमुपाद्रवत्
तावुभौ बलसंपन्नौ निस्त्रिंशवरधारिणौ । निस्त्रिंशाभ्यां सुतीक्ष्णाभ्यामन्योन्यं संततक्षतुः
निस्त्रिंशवेगाभिहतौ ततस्तौ पुरुषर्षभौ । धरणीं समनुप्राप्तौ सर्वभूतनिषेविताम्
मूर्छयाऽभिपरीताङ्गौ व्यायामेन तु मोहितौ । ततोऽभ्यधावद्वेगेन भीमसेनः सुहृत्तया
चेकितानं तथाभूतं दृष्ट्वा समरदुर्मदः । रथमारोपयच्चैनं सर्वसैकन्यस्य पश्यतः
तथैव शकुनि शूरः स्यालस्तव विशांपतेक । आरोपयद्रथं तूर्णं गौतमं रथिनां वरम्
सौमदत्तिं ततः क्रुद्धो धृष्टकेतुर्महाबलः । नवत्या सायकैः क्षिप्रं राजन्विव्याध वक्षसि
सौमदत्तिरुरस्थैस्तैर्भृशं बाणैरशोभत । मध्यंदिने महाराज रश्मिभिस्तपनो यथा
भूरिश्रवास्तु समरे धृष्टकेतुं महारथम् । हतसूतहयं चक्रे विरथं सायकोत्तमैः
विरथं तं समालोक्य हताश्वं हतसारथिम् । महता शरवर्षेण च्छादयामास संयुगे
स तु तं रथमुत्सृज्य धृष्टकेतुर्महामनाः । आरुरोह ततो यानं शतानीकस्य मारिष
चित्रसेनो विकर्णश्च राजन्दुर्मर्षणस्तथा। रथिनो हेमसन्नाहाः सौभद्रमभिदुद्रुवुः
अभिमन्योस्ततस्तैस्तु घोरं युद्धमवर्तत। शरीरस्य यथा राजन्वातपित्तकफैस्त्रिभिः
विरथांस्तव पुत्रांस्तु कृत्वा राजन्महाहवे । न जघान नरव्याघ्रः स्मरन्भीमवचस्तदा
ततो राज्ञां बहुशतैर्गजाश्वरथयायिभिः । संवृतं समरे भीष्मं देवैरपि दुरासदम्
प्रयान्तं शीघ्रमुद्वीक्ष्य परित्रातुं सुतांस्तव । अभिमन्युं समुद्दिश्य बालमेकं महारथम्
वासुदेवमुवाचेदं कौन्तेयः श्वेतवाहनः । चोदयाश्वान्हृषीकेश यत्रैते बहुला रथाः
एते हि बहवः शूराः कृतास्त्रा युद्धदुर्मदाः। यथा हन्युर्न नः सेनां तथा माधव चोदय
एवमुक्तः स वार्ष्णेयः कौन्तेयेनामितौजसा । रथं श्वेतहयैर्युक्तं प्रेषयामास संयुगे
निष्ठानको महानासीत्तव सैन्यस्य मारिष । यदर्जुनो रणे क्रुद्धः संयातस्तावकान्प्रति
समासाद्य तु कौन्तेयो राज्ञस्तान्भीष्मरक्षिणः । सुशर्माणमथो राजन्निदं वचनमब्रवीत्
जानामि त्वां युधां श्रेष्ठमत्यन्तं पूर्ववैरिणम् । अनयस्याद्य संप्राप्तं फलं पश्य सुदारुणम्
अद्य ते दर्शयिष्यामि पूर्वप्रेतान्पितामहान् । एवं संजल्पतस्तस्य बीभत्सोः शत्रुघातिनः
श्रुत्वापि परुषं वाक्यं सुशर्मा रथयूथपः । न चैनमब्रवीत्किंचिच्छुभं वा यदि वाऽशुभम्
अभिगम्यार्जुनं वीरं राजभिर्बहुभिर्वृतः। पुरस्तात्पृष्ठतश्चैव पार्श्वतश्चैव सर्वतः
परिवार्यार्जुनं सङ्ख्ये तव पुत्रैर्महारथः । शरैः संछादयामास मेघैरिव दिवाकरम्
ततः प्रवृत्तः सुमहान्संग्रामः शोणितोदकः। तावकानां च समरे पाण्डवानां च भारत