सत्वरं च रणे राजंस्तस्य वाहान्महात्मनः । निजघान शरैः क्षिप्रं सूतं च सुमहाबलः
हताश्वं तु रथं त्यक्त्वा दृष्ट्वा राज्ञोऽस्य पौरुषम् । विप्रदुद्राव वेगेन श्रुतायुः समरे तदा
तस्मिञ्जिते महेष्वासे धर्मपुत्रेण संयुगे। दुर्योधनबलं राजन्सर्वमासीत्पराङ्भुखम्
एवं जित्वा महाराज धर्मपुत्रो युधिष्ठिरः । व्यात्ताननो यथा कालस्तव सैन्यं जघान ह
चेकितानस्तु वार्ष्णेयो गौतमं रथिनां वरम् । प्रेक्षतां सर्वसैन्यानां छादयामास सायकैः
संनिवार्य शरांस्तांस्तु कृपः शारद्वतो युधि। चेकितानां रणे यत्तं राजन्विव्याध पत्रिभिः
अथापरेण भल्लेन धनुश्चिच्छेद मारिष । सारथिं चास्य समरे क्षिप्रहस्तो न्यपातयत्
अश्वांस्छास्यावधीद्राजन्नुभौ तौ पार्ष्णिसारथी । अवप्लुत्य रथात्तूर्णं गदां जग्राह सात्वतः
स तया वीरघातिन्या गदया गदिनां वरः । गौतमस्य हयान्हत्वा सारथिं च न्यपातयत्
भूमिष्ठो गौतमस्तस्य शरांश्चिक्षेप षोडशक । शरास्ते सात्वतं भित्त्वा प्राविशन्धरणीतलम्
चेकितानस्ततः क्रुद्धः पुनश्चिक्षेप तां गदाम् । गौतमस्य वधाकाङ्क्षी वृत्रस्येव पुरन्दरः
तामापतन्तीं विमलामश्यमगर्भां महागदाम्। शरैरनेकसाहस्त्रैर्वारयामास गौतमः
चेकितानस्ततः खङ्गं क्रोधादुद्धृत्य भारत। लाघवं परमास्थाय गौतमं समुपाद्रवत्
गौतमोऽपि धनुस्त्यक्त्वा प्रगृह्यासिं सुसंयतः । वेगेन महता राजंश्चेकितानमुपाद्रवत्
तावुभौ बलसंपन्नौ निस्त्रिंशवरधारिणौ । निस्त्रिंशाभ्यां सुतीक्ष्णाभ्यामन्योन्यं संततक्षतुः
निस्त्रिंशवेगाभिहतौ ततस्तौ पुरुषर्षभौ । धरणीं समनुप्राप्तौ सर्वभूतनिषेविताम्
मूर्छयाऽभिपरीताङ्गौ व्यायामेन तु मोहितौ । ततोऽभ्यधावद्वेगेन भीमसेनः सुहृत्तया
चेकितानं तथाभूतं दृष्ट्वा समरदुर्मदः । रथमारोपयच्चैनं सर्वसैकन्यस्य पश्यतः
तथैव शकुनि शूरः स्यालस्तव विशांपतेक । आरोपयद्रथं तूर्णं गौतमं रथिनां वरम्
सौमदत्तिं ततः क्रुद्धो धृष्टकेतुर्महाबलः । नवत्या सायकैः क्षिप्रं राजन्विव्याध वक्षसि
सौमदत्तिरुरस्थैस्तैर्भृशं बाणैरशोभत । मध्यंदिने महाराज रश्मिभिस्तपनो यथा
भूरिश्रवास्तु समरे धृष्टकेतुं महारथम् । हतसूतहयं चक्रे विरथं सायकोत्तमैः
विरथं तं समालोक्य हताश्वं हतसारथिम् । महता शरवर्षेण च्छादयामास संयुगे
स तु तं रथमुत्सृज्य धृष्टकेतुर्महामनाः । आरुरोह ततो यानं शतानीकस्य मारिष
चित्रसेनो विकर्णश्च राजन्दुर्मर्षणस्तथा। रथिनो हेमसन्नाहाः सौभद्रमभिदुद्रुवुः
अभिमन्योस्ततस्तैस्तु घोरं युद्धमवर्तत। शरीरस्य यथा राजन्वातपित्तकफैस्त्रिभिः
विरथांस्तव पुत्रांस्तु कृत्वा राजन्महाहवे । न जघान नरव्याघ्रः स्मरन्भीमवचस्तदा
ततो राज्ञां बहुशतैर्गजाश्वरथयायिभिः । संवृतं समरे भीष्मं देवैरपि दुरासदम्
प्रयान्तं शीघ्रमुद्वीक्ष्य परित्रातुं सुतांस्तव । अभिमन्युं समुद्दिश्य बालमेकं महारथम्
वासुदेवमुवाचेदं कौन्तेयः श्वेतवाहनः । चोदयाश्वान्हृषीकेश यत्रैते बहुला रथाः