स गाढविद्धो व्यथितो रथोपस्थे महारथः । निषसाद महाराज कश्मलं च जगाम ह
तं विसंज्ञं निपतितं सूतः संप्रेक्ष्य संयुगे। अपोवाह रथेनाजौ यमाभ्यामभिपीडितम्
दृष्ट्वा मद्रेश्वररथं धार्तराष्ट्राः पराङ्भुखम्। सर्वे विमनसो भूत्वा नेदमस्तीत्यचिन्तयन्
निर्जित्य मातुलं सङ्ख्ये माद्रीपुत्रौ महारथौ । दध्यतुर्मुदितौ शङ्खौ सिंहनादं च नेदतुः
अभिदुद्रुवतुर्हृष्टौ तव सैन्यं विशांपते । यथा दैत्यचमूं राजन्निन्द्रोपेन्द्राविवामरौ
ततो युधिष्ठिरो राजा मध्यं प्राप्ते दिवाकरे। श्रुतायुपमभिप्रेक्ष्य प्रेषयामास वाजिनः
ततस्तु त्वरितो राजञ्श्रुतायुषमरिन्दमन् । निजघ्ने सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिःक
स संवार्य रमे राजा प्रेषितान्धर्मसूनुना । शरान्सप्त महेष्वासः कौन्तेयाया समार्षयत्
ते तस्व कवचं भित्त्वा पपुः शोणितमाहवे। असूनिव विचिन्वन्तो देहे तस्य महात्मनः
पाण्डवस्तु भृशं क्रुद्धो विद्धस्तेन महात्मना । रणे वराहकर्णेन राजानं हृद्यविध्यता
अथापरेण भल्लेन केतुं तस्य महात्मनः । रथश्रेष्ठो रथात्तूर्णं भूमौ पार्थो न्यपातयत्
केतु निपतितं दृष्ट्वा श्रुतायुः स तु पार्थिवः । पाण्डवं विशिखैतीक्ष्णै राजन्विव्याध सप्तभिः
ततः क्रोघात्प्रजज्वल धर्मपुत्रो युधिष्ठिरः । यथा युगान्ते भूतानि दिधक्षुरिव पावकः
क्रुद्धं तु पाण्डवं दृष्ट्वा देवगन्धर्वराक्षसाः । प्रविव्यधुर्महाराज व्याकुलं जाप्यभूज्जगत्
सर्वेषां चैव भूतानामिदमासीन्मनोगतम् । त्रींल्लोकान्म संक्रुद्धो नृपोऽयं धक्ष्यतीति वै
ऋष..... देवाश्च चक्रुः स्वस्त्ययनं महत्। लोकानां नृपाशान्त्यर्थं क्रोधिते पाण्डवे तदा
स च क्रोधसमाविष्टः सृक्विणी परिसंलिहन । इवारात्सवपुर्घोरं युगान्तादित्यसन्निभम्
ततः सैन्यानि सर्वाणि तावकानि विशांपते । निराशान्यभवंस्तत्र जीवितं प्रति भारत
स तु धैर्येण तं कोपं सन्निवार्य महायशाः । श्रुतायुषः प्रचिच्छेद मुष्टिदेशे महाधनुः
अथैनं छिन्नधन्वानं नाराचेन स्तनान्तरे । निर्बिभेद रणे राजा सर्वसैन्यस्य पश्यतः
सत्वरं च रणे राजंस्तस्य वाहान्महात्मनः । निजघान शरैः क्षिप्रं सूतं च सुमहाबलः
हताश्वं तु रथं त्यक्त्वा दृष्ट्वा राज्ञोऽस्य पौरुषम् । विप्रदुद्राव वेगेन श्रुतायुः समरे तदा
तस्मिञ्जिते महेष्वासे धर्मपुत्रेण संयुगे। दुर्योधनबलं राजन्सर्वमासीत्पराङ्भुखम्
एवं जित्वा महाराज धर्मपुत्रो युधिष्ठिरः । व्यात्ताननो यथा कालस्तव सैन्यं जघान ह
चेकितानस्तु वार्ष्णेयो गौतमं रथिनां वरम् । प्रेक्षतां सर्वसैन्यानां छादयामास सायकैः
संनिवार्य शरांस्तांस्तु कृपः शारद्वतो युधि। चेकितानां रणे यत्तं राजन्विव्याध पत्रिभिः
अथापरेण भल्लेन धनुश्चिच्छेद मारिष । सारथिं चास्य समरे क्षिप्रहस्तो न्यपातयत्
अश्वांस्छास्यावधीद्राजन्नुभौ तौ पार्ष्णिसारथी । अवप्लुत्य रथात्तूर्णं गदां जग्राह सात्वतः
स तया वीरघातिन्या गदया गदिनां वरः । गौतमस्य हयान्हत्वा सारथिं च न्यपातयत्
भूमिष्ठो गौतमस्तस्य शरांश्चिक्षेप षोडशक । शरास्ते सात्वतं भित्त्वा प्राविशन्धरणीतलम्