तस्य प्राग्ज्योतिषः क्रुद्धस्तोमरांश्च चतुर्दश । प्रेषयामास समरे तांश्चिच्छेद स राक्षसः
स तांश्छित्त्वा महाबाहुस्तोमरान्निशितैः शरैः । भगदत्तं च विव्याध सप्तत्या कङ्कपत्रिभिः
ततः प्राग्ज्योतिषो राजा प्रहसन्निव भारत। तस्याश्वांश्चतुरः सङ्ख्ये पातयामास सायकैः
स हताश्वे रथे तिष्ठन्राक्षसेन्द्रः प्रतापवान् । शक्तिं चिक्षेप वेगेन प्रग्ज्योतिषगजं प्रति
तामापतन्तीं सहसा हेमदण्डां सुवेगिनीम् । त्रिधा चिच्छेद नृपतिः सा व्यकीर्यत मेदिनीं
शक्तिं विनिहतां दृष्ट्वा हैडिम्बः प्राद्रवद्भयात् । यथेन्द्रस्य रणात्पूर्वं नमुचिर्दैत्यसत्तमः
तं विजित्य रणे शूरं विक्रान्तं ख्यातपौरुषम् । अजय्यं समरे वीरं यमेन वरुणेन च
पाण्डवीं समरे सेनां संममर्द स कुञ्जरः । यथा वनगजो राजन्मृद्गश्चरति पद्मिनीम्
मद्रेश्वरस्तु समरे यमाभ्यां समसञ्जत । स्वस्त्रीयौ छादयांचक्रे शरौघैः पाण्डुनन्दनौ
सहदेवस्तु समरे मातुलं दृश्य संगतम् । अवारयच्छरौघेण मेघो यद्वद्दिवाकरम्
छाद्यमानः शरौघेण हृष्टरूपतरोऽभवत् । तयोश्चाप्यभवत्प्रीतिरतुला मातृकारणात्
ततः प्रहस्य समरे नकुलस्य महारथः। ` ध्वजं चिच्छेद बाणेन धनुश्चैकेन मारिष
अथैनं छिन्नधन्वानं छादयामास भारत। निजघान रणे तं तु सूतं चास्य न्यपातयत्
ततः प्रसह्य समरे नकुलस्य महारथः । अश्वांश्च चतुरो राजंश्चतुर्भिः सायकोत्तमैः
प्रेषयामास समरे यमस्य सदनं प्रति। हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः
आरुरोह ततो यानं भ्रातुरेव यशस्विनः । एकस्थौ तु रणे शूरौ दृढे विक्षिप्य कार्मुके
मद्रराजरथं तूर्णं च्छादयामासतुः क्षणात्। स च्छाद्यमानो बहुभिः शरैः सन्नतपर्वभिः
स्वस्त्रीयाभ्यां नरव्याघ्रो नाकम्पत यथाऽचलः। प्रहसन्निव तां चापि शस्त्रवृष्टिं जघान ह
सहदेवस्ततः क्रुद्धः शरमुद्गृह्य वीर्यवान्। मद्रराजमभिप्रेक्ष्य प्रेषयामास भारत
स शरः प्रेषितस्तेन गरुडानिलवेगवान् । मद्रराजं विनिर्भिद्य निपपात महीतले
स गाढविद्धो व्यथितो रथोपस्थे महारथः । निषसाद महाराज कश्मलं च जगाम ह
तं विसंज्ञं निपतितं सूतः संप्रेक्ष्य संयुगे। अपोवाह रथेनाजौ यमाभ्यामभिपीडितम्
दृष्ट्वा मद्रेश्वररथं धार्तराष्ट्राः पराङ्भुखम्। सर्वे विमनसो भूत्वा नेदमस्तीत्यचिन्तयन्
निर्जित्य मातुलं सङ्ख्ये माद्रीपुत्रौ महारथौ । दध्यतुर्मुदितौ शङ्खौ सिंहनादं च नेदतुः
अभिदुद्रुवतुर्हृष्टौ तव सैन्यं विशांपते । यथा दैत्यचमूं राजन्निन्द्रोपेन्द्राविवामरौ
ततो युधिष्ठिरो राजा मध्यं प्राप्ते दिवाकरे। श्रुतायुपमभिप्रेक्ष्य प्रेषयामास वाजिनः
ततस्तु त्वरितो राजञ्श्रुतायुषमरिन्दमन् । निजघ्ने सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिःक
स संवार्य रमे राजा प्रेषितान्धर्मसूनुना । शरान्सप्त महेष्वासः कौन्तेयाया समार्षयत्
ते तस्व कवचं भित्त्वा पपुः शोणितमाहवे। असूनिव विचिन्वन्तो देहे तस्य महात्मनः
पाण्डवस्तु भृशं क्रुद्धो विद्धस्तेन महात्मना । रणे वराहकर्णेन राजानं हृद्यविध्यता