हैडिम्बो राक्षसेन्द्रस्तु भगदत्तं समाद्रवत्। रथेनादित्यवर्णेन सध्वजेन महाबलः
ततः प्राग्ज्योतिषो राजा नागराजं समास्थितःक । यथा वज्रधरः पूर्वं संग्रामे तारकामये
तत्र देवाः सगन्धर्वा ऋषयश्च समागताः । विशेषं न स्म विविदुर्हैडिम्बभगदत्तयोः
यथा सुरपतिः शक्रस्त्रासयामास दानवान्। तथैव समरे राजा द्रावयामास पाण्डवान्
तेन विद्राव्यमाणास्ते पाण्डवाः सर्वतो दिशम्। त्रातारं नाभ्यगच्छन्तः स्वेष्वनीकेषु भारत
भैमसेनिं रथस्थं तु तत्रापश्याम भारत । शेषा विमनसो भूत्वा प्राद्रवन्त महारथाः
निवृत्तेषु तु पाण्डूनां पुनः सैन्येषु भारत । आसीन्निष्ठानको घोरस्तव सैन्यस्य संयुगे
घटोत्कचस्ततो राजन्भगदत्तं महारणे। शरैः प्रच्छादयामास मेरुं गिरिमिवाम्बुदः
निहत्य ताञ्शरान्राजा राक्षसस्य धनुश्र्युतान्। भैमसेनिं रणे तूर्णं सर्वमर्मस्वताडयत्
स ताड्यमानो बहुभिः शरैः सन्नतपर्वभिः । न विव्यथे राक्षसन्द्रो भिद्यमान इवाचलः
तस्य प्राग्ज्योतिषः क्रुद्धस्तोमरांश्च चतुर्दश । प्रेषयामास समरे तांश्चिच्छेद स राक्षसः
स तांश्छित्त्वा महाबाहुस्तोमरान्निशितैः शरैः । भगदत्तं च विव्याध सप्तत्या कङ्कपत्रिभिः
ततः प्राग्ज्योतिषो राजा प्रहसन्निव भारत। तस्याश्वांश्चतुरः सङ्ख्ये पातयामास सायकैः
स हताश्वे रथे तिष्ठन्राक्षसेन्द्रः प्रतापवान् । शक्तिं चिक्षेप वेगेन प्रग्ज्योतिषगजं प्रति
तामापतन्तीं सहसा हेमदण्डां सुवेगिनीम् । त्रिधा चिच्छेद नृपतिः सा व्यकीर्यत मेदिनीं
शक्तिं विनिहतां दृष्ट्वा हैडिम्बः प्राद्रवद्भयात् । यथेन्द्रस्य रणात्पूर्वं नमुचिर्दैत्यसत्तमः
तं विजित्य रणे शूरं विक्रान्तं ख्यातपौरुषम् । अजय्यं समरे वीरं यमेन वरुणेन च
पाण्डवीं समरे सेनां संममर्द स कुञ्जरः । यथा वनगजो राजन्मृद्गश्चरति पद्मिनीम्
मद्रेश्वरस्तु समरे यमाभ्यां समसञ्जत । स्वस्त्रीयौ छादयांचक्रे शरौघैः पाण्डुनन्दनौ
सहदेवस्तु समरे मातुलं दृश्य संगतम् । अवारयच्छरौघेण मेघो यद्वद्दिवाकरम्
छाद्यमानः शरौघेण हृष्टरूपतरोऽभवत् । तयोश्चाप्यभवत्प्रीतिरतुला मातृकारणात्
ततः प्रहस्य समरे नकुलस्य महारथः। ` ध्वजं चिच्छेद बाणेन धनुश्चैकेन मारिष
अथैनं छिन्नधन्वानं छादयामास भारत। निजघान रणे तं तु सूतं चास्य न्यपातयत्
ततः प्रसह्य समरे नकुलस्य महारथः । अश्वांश्च चतुरो राजंश्चतुर्भिः सायकोत्तमैः
प्रेषयामास समरे यमस्य सदनं प्रति। हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः
आरुरोह ततो यानं भ्रातुरेव यशस्विनः । एकस्थौ तु रणे शूरौ दृढे विक्षिप्य कार्मुके
मद्रराजरथं तूर्णं च्छादयामासतुः क्षणात्। स च्छाद्यमानो बहुभिः शरैः सन्नतपर्वभिः
स्वस्त्रीयाभ्यां नरव्याघ्रो नाकम्पत यथाऽचलः। प्रहसन्निव तां चापि शस्त्रवृष्टिं जघान ह
सहदेवस्ततः क्रुद्धः शरमुद्गृह्य वीर्यवान्। मद्रराजमभिप्रेक्ष्य प्रेषयामास भारत
स शरः प्रेषितस्तेन गरुडानिलवेगवान् । मद्रराजं विनिर्भिद्य निपपात महीतले