गङ्गायाः सुरनद्या वै स्वादुभूतं यथोदकम् । महोदधिसमभ्याशे लवणत्वं निगच्छति
तथा तत्पौरुषं राजंस्तावकानां परंतप । प्राप्य पाण्डुसुतान्वीरान्व्यर्थं भवति संयुगे
घटमानान्यथाशक्ति कुर्वाणान्कर्म दुष्करम् । न दोषेण कुरुश्रेष्ठ कौरवान्गन्तुमर्हसि
तवापराधात्सुमहान्सपुत्रस्य विशांपते । पृतिव्याः प्रक्षयो घोरो यमराष्ट्रविवर्धनः
आत्मदोषात्समुत्पन्नं शोचितुं नार्हसे नृप । न हि रक्षन्ति राजानः सर्वथाऽत्रापि जीवितम्
युद्धे सुकृतिनां लोकानिच्छन्तो वसुधाधिपाः। चमूं विगाह्य युद्ध्यन्ते नित्यं स्वर्गपरायणाः
पूर्वाह्णे तु महाराज प्रावर्तत जनक्षयः। तं त्वमेकमना भूत्वा शृणु देवासुरोपमम्
आवन्त्यौ तु महेष्वासौ महासेनौ महाबलौ । युधामन्युमभिप्रेक्ष्य समेयता रणोत्कटौ
तेषां प्रववृते युद्धं समुहद्रोणहर्षणम् । युधामन्युः सुसंक्रुद्धो भ्रातरौ देवरूपिणौ
विव्याध निशितैस्तूर्णं शरैः सन्नतपर्वभिः। तावेनं प्रत्यविध्येतां समरे चित्रयोधिनौ
युध्यतां हि तथा राजन्विशेषो न व्यदृश्यत । यततां शत्रुनाशाय कृतप्रतिकृतैषिणाम्
युधामन्युस्ततो राजन्ननुविन्दस्य सायकैः । चतुर्भिश्चतुरो वाहाननयद्यमसादनम्
भल्लाभ्यां च सुतीक्ष्णाभ्यां धनुः केतुं च मारिष । चिच्छेद समरे राजंस्तदद्भुतमिवाभवत्
त्यक्त्वाऽनुविन्दोऽथ रथं विन्दस्य रथमास्थितः। धनुर्गृहीत्वा परमं भारसाधनमुत्तमम्
तावेकस्थौ रणे वीरावावन्त्यौ रथिनां वरौ। शरान्मुमुचतुस्तूर्णं युधामन्यौ महात्मनि
ताभ्यां मुक्ता महावेगाः शराः काञ्चनभूषणाः । दिवाकरपथं प्राप्य च्छादयामासुरम्बरम्
युधामन्यू रणे क्रुद्धो भ्रातरौ तौ महारथौ । ववर्ष शरवर्षेण सारथिं चाप्यपातयत्
तस्मिंस्तु पतिते भूमौ गतसत्वे तु सारथौ । रथः प्रदुद्राव दिशः समुद्धान्तहयस्ततः
तौ स जित्वा महाराज यज्ञसेनसुतः प्रभुः। पौरुषं ख्यापयंस्तूर्णं व्यधमत्तव वाहिनीम्
सा वध्यमाना समरे धार्तराष्ट्री महाचमूः । वेगान्बहुविधांश्चक्रे विषं पीत्वेन मानवः
हैडिम्बो राक्षसेन्द्रस्तु भगदत्तं समाद्रवत्। रथेनादित्यवर्णेन सध्वजेन महाबलः
ततः प्राग्ज्योतिषो राजा नागराजं समास्थितःक । यथा वज्रधरः पूर्वं संग्रामे तारकामये
तत्र देवाः सगन्धर्वा ऋषयश्च समागताः । विशेषं न स्म विविदुर्हैडिम्बभगदत्तयोः
यथा सुरपतिः शक्रस्त्रासयामास दानवान्। तथैव समरे राजा द्रावयामास पाण्डवान्
तेन विद्राव्यमाणास्ते पाण्डवाः सर्वतो दिशम्। त्रातारं नाभ्यगच्छन्तः स्वेष्वनीकेषु भारत
भैमसेनिं रथस्थं तु तत्रापश्याम भारत । शेषा विमनसो भूत्वा प्राद्रवन्त महारथाः
निवृत्तेषु तु पाण्डूनां पुनः सैन्येषु भारत । आसीन्निष्ठानको घोरस्तव सैन्यस्य संयुगे
घटोत्कचस्ततो राजन्भगदत्तं महारणे। शरैः प्रच्छादयामास मेरुं गिरिमिवाम्बुदः
निहत्य ताञ्शरान्राजा राक्षसस्य धनुश्र्युतान्। भैमसेनिं रणे तूर्णं सर्वमर्मस्वताडयत्
स ताड्यमानो बहुभिः शरैः सन्नतपर्वभिः । न विव्यथे राक्षसन्द्रो भिद्यमान इवाचलः