चिच्छेद समरे द्रौणिर्दर्शयन्पाणिलाघवम् । शिखण्डिनं च विव्याध शरैर्बहुभिरायसैः
शिखण्डी तु भृशं राजंस्तड्यमानः शितैः शरैः । आरुरोह रथं तूर्णं माधवस्य महात्मनः
सात्यकिश्चापि संक्रुद्धो राक्षसं क्रूरमाहवे। अलम्बुसं शरैस्तीक्ष्णैर्विव्याध बलिनां वरः
राक्षसेन्द्रस्ततस्तस्य धनुश्चिच्छेद भारत। अर्धचन्द्रेण समरे तं च विव्याध सायकैः
मायां च राक्षसीं कृत्वा शरवर्षैरवाकिरत्। तत्राद्भुतमपश्याम शैनेयस्य पराक्रमम्
असंभ्रमस्तु समरे वध्यमानः शितैः शरैः । ऐन्द्रमस्त्रं च वार्ष्णेयो योजयामास भारत
विजयाद्यदनुप्राप्तं माधवेन यशस्विना। तदस्त्रं भस्मासात्कृत्वा मायां तां राक्षसीं तदा
अलम्बुसं शरैरन्यैरभ्याकिरत सर्वतः। पर्वतं वारिधाराभिः प्रावृषीव बलाहकः
तत्तथा पीडितं तेन माधवेन यशस्विना । प्रदुद्राव भयाद्रक्षस्त्यक्त्वा सात्यकिमाहवे
........ माघवता जित्वा भारत सात्यकिः। शैनेयः प्राणद?ज्जित्वा योधानां तव पश्यताम्
न्यहनत्तावकांश्चापि सात्यकिः सत्यविक्रमः । निशितैर्बहुभिर्बाणैस्तेऽद्रवन्त भयार्दिताः
एतस्मिन्नेव काले तु द्रुपदस्यात्मजो बली। धृष्टद्युम्नो महाराज पुत्रं तव जनेश्वरम्
छादयामास समरे शरैः सन्नतपर्वभिः । स च्छाद्यमानो विशिखैर्धृष्टद्युम्नेन भारत
विव्यथे न च राजेन्द्र तव पुत्रो जनेश्वर । धृष्टद्युम्नं च समरे तूर्णं विव्याध पत्रिभिःक
षष्ट्या च त्रिंशता चैव तदद्भुतमिवाभवत् । तस्य सेनापतिः क्रुद्धो धनुश्चिच्छेद मारिष
हयांश्च चतुरः शीघ्रं निजघान महाबलः । शरैश्चैनं सुनिशितैः क्षिप्रं विव्याध सप्तभिः
स हताश्वान्महाबाहुरवप्लुत्य रथाद्बली । पदातिरसिमुद्यम्य प्राद्रवत्पार्षतं प्रति
शकुनिस्तं समभ्येत्य राजगृद्धी महाबलः । राजानं सर्वलोकस्य रथमारोपयत्स्वकम्
ततो नृपं पराजित्य पार्षतः परवीरहा । न्यहनत्तावकं सैन्यं वज्रपाणिरिवासुरान्
कृतवर्मा रणे भीमं शरैरार्च्छन्महारथः । प्रच्छादयामास च तं महामेघो रविं यथा
ततः प्रहस्य समरे भीमसेनः परंतपः । प्रेषयामास संक्रुद्धः सायंकान्कृतवर्मणे
तैरर्द्यमानोऽतिरथः सात्वतः शस्त्रकोविदः । नाकम्पत महाराज भीमं चार्च्छच्छितैः शरैः
तस्याश्वांश्चतुरो हत्वा भीमसेनो महारथः । सारथिं पातयामास सध्वजं सुपरिष्कृतम्
शरैर्बहुविधैश्चैनमाचिनोत्परवीरहा । शकलीकृतसर्वाङ्गः श्वावित्तु शललैर्यथा
हताश्वश्च ततस्तूर्णं सुबलस्य रथं ययौ। स्वालस्य ते महाराज तव पुत्रस्य पश्यतः
भीमसेनोऽपि संक्रुद्धस्तव सैन्यमुपाद्रवत्। निजघान च संक्रुद्धो दण्डपाणिरिवान्तकः
बहूनि हि विचित्राणि द्वैरथानि स्म सञ्जय। पाण्डूनां मामकैः सार्धमश्रौषं तव जल्पतः
न चैव मामकं किंचिद्धृष्टं शंससि सञ्जय । नित्यं पाण्डुसुतान्हृष्टानभग्नान्संप्रशंससि
जीयमानान्विमनसो मामकान्विगतौजसः । वदसे संयुगे सूत दिष्टमेतन्न संशयः
यथाशक्ति यथोत्साहं युद्धे चेष्टन्ति तावकाः। दर्शयानाः परं शक्त्या पौरुषं पुरुषर्षभ