स बभौ रथशार्दूलो ललाटे संस्थितैस्त्रिभिः । शिखरैः काञ्चनमयैर्मेरुस्त्रिभिरिवोच्छ्रितैः
अश्वत्थाम ततः क्रुद्धो निमेषार्धाच्छिखण्डिनः । ध्वजं सूतमथो राजंस्तुरगानायुधानि च
शरैर्बहुभिराच्छिद्य पातयामास संयुगे ष। स हताश्वादवप्लुत्य रथाद्वै रथिनां वरः
खङ्गमादाय सुशितं विमलं च शरावरम् । श्येनवद्व्यचरत्क्रुद्धः शिखण्डी शत्रुतापनः
सखङ्गस्य महाराज चरतस्तस्य संयुगे । नान्तरं ददृशे द्रौणिस्तदद्भुतमिवाभवत्
ततः शरसहस्राणि बहूनि भरतर्षभ । प्रेषयामास समरे द्रौणिः परमकोपनः
तामापतन्तीं समरे शरवृष्टिं सुदारुणाम्। असिना तीक्ष्णधारेण चिच्छेद बलिनां वरः
ततोऽस्य विमलं द्रौणिः शतचन्द्रं मनोरमम्। चर्माच्छिनदसिं चास्थ खण्डयामास संयुगे
शितैस्तु बहुशो राजंस्तं च विव्याध पत्रिभिः । शिखण्डी तु ततः खङ्गं खण्डितं तेन सायकैः
आविध्य व्यसृजत्तूर्णं ज्वलन्तमिव पन्नगम् । तमापतन्तं सहसा कालानलसमप्रभम्
चिच्छेद समरे द्रौणिर्दर्शयन्पाणिलाघवम् । शिखण्डिनं च विव्याध शरैर्बहुभिरायसैः
शिखण्डी तु भृशं राजंस्तड्यमानः शितैः शरैः । आरुरोह रथं तूर्णं माधवस्य महात्मनः
सात्यकिश्चापि संक्रुद्धो राक्षसं क्रूरमाहवे। अलम्बुसं शरैस्तीक्ष्णैर्विव्याध बलिनां वरः
राक्षसेन्द्रस्ततस्तस्य धनुश्चिच्छेद भारत। अर्धचन्द्रेण समरे तं च विव्याध सायकैः
मायां च राक्षसीं कृत्वा शरवर्षैरवाकिरत्। तत्राद्भुतमपश्याम शैनेयस्य पराक्रमम्
असंभ्रमस्तु समरे वध्यमानः शितैः शरैः । ऐन्द्रमस्त्रं च वार्ष्णेयो योजयामास भारत
विजयाद्यदनुप्राप्तं माधवेन यशस्विना। तदस्त्रं भस्मासात्कृत्वा मायां तां राक्षसीं तदा
अलम्बुसं शरैरन्यैरभ्याकिरत सर्वतः। पर्वतं वारिधाराभिः प्रावृषीव बलाहकः
तत्तथा पीडितं तेन माधवेन यशस्विना । प्रदुद्राव भयाद्रक्षस्त्यक्त्वा सात्यकिमाहवे
........ माघवता जित्वा भारत सात्यकिः। शैनेयः प्राणद?ज्जित्वा योधानां तव पश्यताम्
न्यहनत्तावकांश्चापि सात्यकिः सत्यविक्रमः । निशितैर्बहुभिर्बाणैस्तेऽद्रवन्त भयार्दिताः
एतस्मिन्नेव काले तु द्रुपदस्यात्मजो बली। धृष्टद्युम्नो महाराज पुत्रं तव जनेश्वरम्
छादयामास समरे शरैः सन्नतपर्वभिः । स च्छाद्यमानो विशिखैर्धृष्टद्युम्नेन भारत
विव्यथे न च राजेन्द्र तव पुत्रो जनेश्वर । धृष्टद्युम्नं च समरे तूर्णं विव्याध पत्रिभिःक
षष्ट्या च त्रिंशता चैव तदद्भुतमिवाभवत् । तस्य सेनापतिः क्रुद्धो धनुश्चिच्छेद मारिष
हयांश्च चतुरः शीघ्रं निजघान महाबलः । शरैश्चैनं सुनिशितैः क्षिप्रं विव्याध सप्तभिः
स हताश्वान्महाबाहुरवप्लुत्य रथाद्बली । पदातिरसिमुद्यम्य प्राद्रवत्पार्षतं प्रति
शकुनिस्तं समभ्येत्य राजगृद्धी महाबलः । राजानं सर्वलोकस्य रथमारोपयत्स्वकम्
ततो नृपं पराजित्य पार्षतः परवीरहा । न्यहनत्तावकं सैन्यं वज्रपाणिरिवासुरान्
कृतवर्मा रणे भीमं शरैरार्च्छन्महारथः । प्रच्छादयामास च तं महामेघो रविं यथा