बाढमित्येवमुक्त्वा तु तान्यनीकानि सर्वशः । नरेन्द्राणां महाराज समाजग्मुः पितामहम्
ततः प्रयातः सहसा भीष्मः शान्तनवोऽर्जुनम् । रणे भारतमायान्तमाससाद महाबलः
महाश्वेताश्वयुक्तेन भीमवानरकेतुना । महता मेघनादेन रथेनातिविराजता
समरे सर्वसैन्यानामुपयानं धनञ्जयम्। अभवत्तुमुलो नादो भयाद्दृष्ट्वा किरीटिनम्
अभीशुहस्तं कृष्णं च दृष्ट्वादित्यमिवापरम् । मध्यंदिनगतं सङ्ख्ये न शेकुः प्रतिवीक्षितुम्
तथा शान्तनवं भीष्मं श्वेताश्वं श्वेतकार्मुकम् । न शेकुः पाण्डवा द्रष्टुं श्वेतं ग्रहमिवोदितम्
स सर्वतः परिवृतस्त्रिगर्तैः सुमहात्मभिः । भ्रातृभिः सह पुत्रैश्च तथाऽन्यैश्च महारथैः
भारद्वाजस्तु समरे मत्स्यं विव्याध पत्रिणा। ध्वजं चास्य शरेणाजौ धनुश्चैकेन चिच्छिदे
तदपास्य धनुश्छिन्नं विराटो वाहिनीपतिः । अन्यदादत्त वेगेन धनुर्भारसहं दृढम्
शरांश्चाशीविषाकाराज्ज्वलितान्पन्नगानिव । द्रोणं त्रिभिश्च विव्याध चतुर्भिश्चास्य वाजिनः
ध्वजमेकेन विव्याधक सारथिं चास्य पञ्चभिः । धनुरेकेषुणाऽविध्यत्तत्राक्रुध्यद्द्विजर्षभः
तस्य द्रोणोऽवधीदश्वाञ्शरैः सन्नतपर्वभिः। अष्टाभिर्भरतश्रेष्ठ सूतमेकेन पत्रिणा
स हताश्वादवप्लुत्य स्यन्दनाद्धतसारथिः। आरुरोह रथं तूर्णं पुत्रस्य रथिनां वरः
ततस्तु तौ पितापुत्रौ भारद्वाजं रथे स्थितौ । महता शरवर्षेण वारयामाससतुर्बलात्
भारद्वाजस्ततः क्रुद्धः शरमाशीविषोपमम् । चिक्षेप समरे तूर्णं शङ्खं प्रति जनेश्वरः
स तस्य हृदयं भित्त्वा पीत्त्वा शोणितमाहवे। जगाम धरणीं बाणो लोहितार्द्रवरच्छदः
स पपात रणे तूर्णं भारद्वाजशराहतः। धनुस्त्यक्त्वा शरांश्चैव पितुरेव समीपतः
हतं तमात्मजं दृष्ट्वा विराटः प्राद्रवद्भयात्। उत्सृज्य समरे द्रोणं व्यात्ताननमिवान्तकम्
भारद्वाजस्ततस्तूर्णं पाण्डवानां महाचमूम्। दारयामास समरे शतशोऽथ सहस्रशः
शिखण्डी तु महाराज द्रौणिमासाद्य संयुगे। आजघान भ्रवोर्मध्ये नाराचैस्त्रिभिराशुगैः
स बभौ रथशार्दूलो ललाटे संस्थितैस्त्रिभिः । शिखरैः काञ्चनमयैर्मेरुस्त्रिभिरिवोच्छ्रितैः
अश्वत्थाम ततः क्रुद्धो निमेषार्धाच्छिखण्डिनः । ध्वजं सूतमथो राजंस्तुरगानायुधानि च
शरैर्बहुभिराच्छिद्य पातयामास संयुगे ष। स हताश्वादवप्लुत्य रथाद्वै रथिनां वरः
खङ्गमादाय सुशितं विमलं च शरावरम् । श्येनवद्व्यचरत्क्रुद्धः शिखण्डी शत्रुतापनः
सखङ्गस्य महाराज चरतस्तस्य संयुगे । नान्तरं ददृशे द्रौणिस्तदद्भुतमिवाभवत्
ततः शरसहस्राणि बहूनि भरतर्षभ । प्रेषयामास समरे द्रौणिः परमकोपनः
तामापतन्तीं समरे शरवृष्टिं सुदारुणाम्। असिना तीक्ष्णधारेण चिच्छेद बलिनां वरः
ततोऽस्य विमलं द्रौणिः शतचन्द्रं मनोरमम्। चर्माच्छिनदसिं चास्थ खण्डयामास संयुगे
शितैस्तु बहुशो राजंस्तं च विव्याध पत्रिभिः । शिखण्डी तु ततः खङ्गं खण्डितं तेन सायकैः
आविध्य व्यसृजत्तूर्णं ज्वलन्तमिव पन्नगम् । तमापतन्तं सहसा कालानलसमप्रभम्