तव पुत्रो विशालाक्षि चक्रवर्ती भविष्यति। तव भर्ता विशालाक्षि त्रैलोक्यविजयी भवेत्
दिव्यान्भोगाननुप्राप्ता भव त्वं वरवर्णिनि। एवमुक्ता रथ्तर्या परं हर्षमवाप सा
शकुन्तलां तदा राजा शास्त्रोक्तेनैव कर्मणा। ततोऽग्रमहिषीं कृत्वा सर्वाभरणभूषिताम्
ब्राह्मणेभ्यो धनं दत्त्वा सैनिकानां च भूपतिः। दौष्यन्तिं च ततो राजा पुत्रं शाकुन्तलं तदा
भरतं नामतः कृत्वा यौवराज्येऽभ्यषेचयत्। `भरते भारमावेश्य कृतकृत्योऽभवन्नृपः
ततो वर्षशतं पूर्णं राज्यं कृत्वा नराधिपः। गत्वा वनानि दुष्यन्तः स्वर्गलोकमुपेयिवान्
दुष्यन्ताद्भरतो राज्यं यथान्यायमवाप सः।' तस्य तत्प्रथितं कर्म प्रावर्तत महात्मनः
भास्वरं दिव्यमजितं लोकसंनादनं महत्। स विजित्य महीपालांश्चकार वशवर्तिनः
चचार च सतां धर्मं प्राप्य चानुत्तमं यशः। स राजा चक्रवर्त्यासीत्सार्वभौमः प्रतापवान्
ईजे च बहुभिर्यज्ञैर्यथा शक्रो मरुत्पतिः। याजयामास तं कण्वो दक्षवद्भूरिदक्षिणम्
श्रीमद्गोविततं नाम वाजिमेधमवाप सः। यस्मिन्सहस्रं पद्मानां कण्वाय भरतो ददौ
सोऽश्वमेधशतैरीजे यमुनामनु तीरगः। त्रिशतैश्च सरस्वत्यां गङ्गामनु चतुःशतैः
दौष्यन्तिर्भरतो यज्ञैरीजे शाकुन्तलो नृपः। तस्माद्भरतवंशस्य विप्रतस्थे महद्यशः
भरतस्य वरस्त्रीषु पुत्राः संजज्ञिरे पृथक्। नाभ्यनन्दत्तदा राजा नानुरूपा ममेति तान्
ततस्तान्मातरः क्रुद्धाः पुत्रान्निन्युर्यमक्षयम्। ततस्तस्य नरेन्द्रस्य वितथं पुत्रजन्म तत्
ततो महद्भिः क्रतुभिरीजानो भरतस्तदा। लेभे पुत्रं भरद्पाजाद्भुमन्युं नाम भारत
ततः पुत्रिणमात्मानं ज्ञात्वा पौरवनन्दनः। भुमन्युं भरतश्रेष्ठ यौवराज्येऽभ्यषेचयत्
ततो दिविरथो नाम भुमन्योरभवत्सुतः। सुहोत्रश्च सुहोता च सुहविः सुयजुस्तथा
पुष्करिण्यामृचीकश्च भुमन्योरभवन्सुताः। तेषां ज्येष्ठः सुहोत्रस्तु राज्यमाप महीक्षिताम्
राजसूयाश्वमेधाद्यैः सोऽयजद्बहुभिः सवैः। सुहोत्रः पृथिवीं कृत्स्नां बुभुजे सागराम्बराम्
पूर्णां हस्तिगवाश्वैश्च बहुरत्नसमाकुलाम्। ममज्जेव मही तस्य भूरिभारावपीडिता
हस्त्यश्वरथसंपूर्णा मनुष्यकलिला भृशम्। सुहोत्रे राजनि तदा धर्मतः शासति प्रजाः
चैत्ययूपाङ्किता चासीद्भूमिः शतसहस्रशः। प्रवृद्धजनसस्या च सर्वदैव व्यरोचत
ऐक्ष्वाकी जनयामास सुहोत्रात्पृथिवीपतेः। अजमीढं सुमीढं च पुरुमीढं च भारत
अजमीढो वरस्तेषां तस्मिन्वंशः प्रतिष्ठितः। षट् पुत्रान्सोप्यजनयत्तिसृषु स्त्रीषु भारत
ऋक्षं धूमिन्यथो नीली दुष्यन्तपरमेष्ठइनौ। केशिन्यजनयज्जह्नुं सुतौ च जनरूषिणौ
विदुः संवरणं वीरमृक्षाद्राथन्तरीसुतम्। तथेमे सर्वपञ्चाला दुष्यन्तपरमेष्ठिनोः। अन्वयाः कुशिका राजञ्जन्होरमिततेजसः
जनरूषणयोर्ज्येष्ठमृक्षमाहुर्जनाधिपम्। ऋक्षात्संवरणो जज्ञे राजन्वंशकरस्तव
आर्क्षे संवरणे राजन्प्रशासति वसुन्धराम्। संक्षयः सुमहानासीत्प्रजानामिति नः श्रुतम्
व्यशीर्यत ततो राष्ट्रं क्षयैर्नानाविधैस्तदा। क्षुन्मृत्युभ्यामनावृष्ट्या व्याधिभिश्च समाहतम्