रथिनः सादिनश्चाथ व्यकीर्यन्त सहस्रशः । ततः शान्तनवः क्रुद्धः शरैः सन्नतपर्वभिः
नाशयामास सेनां तां भीष्मस्तेषां महात्मनाम् । पञ्चालानां च सैन्यानि शरैर्निन्ये यमक्षयम्
एवं भित्त्वा महेष्वासः पाण्डवानामनीकिनीम्। कृत्वाऽवहारं सैन्यानां ययौ स्वशिबिरं नृप
नाशयामासतुर्वीरौ धृष्टद्युम्नवृकोदरौ। करवाणामनीकानि शरैः सन्नतपर्वभिः
धर्मराजोऽपि संप्रेक्ष्य धृष्टद्युम्नवृकोदरौ । मूर्ध्नि चैतावुपाघ्राय प्रहृष्टः शिबिरं ययौ
अर्जुनो वासुदेवश्च कौरवाणामनीकिनीम् ।' हत्वा विद्राव्य च शरैः शिबिरायैव जग्मतुः
क्षत्रियास्ते महाराज परस्परकृतागसः। जग्मुः स्वशिबिराण्येव रुधिरेण समुक्षिताः
विश्रम्य च यथान्यायं पूजयित्वा परस्परम् । सन्नद्धाः समदृश्यन्त भूयो युद्धचिकीर्षवः
ततस्तव सुतो राजंश्चिन्तयाभिपरिप्लुतः । विस्रवच्छोणिताक्ताङ्गः पप्रच्छेदं पितामहम्
सैन्यानि रौद्राणि भयानकानि व्यूढानि सम्यग्बहुलध्वजानि। विदार्य हत्वा च निपीड्य शूरां- स्ते पाण्डवा लब्धजयाः प्रहृष्टाः
संमोह्य सर्वान्युधि कीर्तिमन्तो व्यूहं च तं मकरं मृत्युकल्पम् । प्रविश्य भीमेन रणे हतोऽस्मि घोरैः शरैर्मृत्युदण्डप्रकाशैः
क्रुद्धं तमुद्वीक्ष्य भयेन राज- न्संमूर्च्छितो न लभे शान्तिमद्य । इच्छे प्रसादात्तव सत्यसन्ध प्राप्तुं जयं पाण्डवेयांश्च हन्तुम्
तेनैवमुक्तः प्रहसन्महात्मा दुर्योधनं मन्युगतं विदित्वा। तं प्रत्युवाचाविमना मनस्वी गङ्गासुतः सस्त्रभृतां वरिष्ठः
परेण यत्नेन विगाह्य सेनां सर्वात्मनाऽहं तव राजपुत्र। इच्छामि दातुं विजयं सुखं च न चात्मानं छादयेऽहं त्वदर्थे
एते तु रौद्रा बहवो महारथा यशस्विनः शूरतमाः कृतास्त्राः । ये पाण्डवानां समरे सहाया जितक्लमा रोषविषं वमन्ति
केनेह शक्याः सहसा विजेतुं वीर्योद्धताः कृतवैरास्त्वया च। अहं ह्येतान्प्रतियोत्स्यामि राज- न्सर्वात्मना जीवितं त्यज्य वीर
रणे तवार्थाय महानुभाव न जीवितं रक्षितव्यं ममाद्य। सर्वांस्तवार्थाय सदेवदैत्याँ- ल्लोकान्दहेयं किमु शत्रुसेनाम्
तान्पाण्डवान्योधयिष्यामि राजन् प्रियं च ते सर्वमहं करिष्ये
सर्वाणि सैन्यानि ततः प्रहृष्टो निर्गच्छतेत्याह नृपांश्च सर्वान्। तदाक्षया तानि विनिर्ययुर्द्रुतं गजाश्वपादातरथायुतानि
प्रहर्षयुक्तानि तु तानि राज- न्महान्ति नानाविधशस्त्रवन्ति। स्थितानि नागाश्वपदातिमन्ति विरेजुराजौ तव राजन्बलानि
शस्त्रास्त्रविद्भिर्नरवीरयोधै- रधिष्ठिताः सैन्यगणास्त्वदीयाः। रथौघपादातगजाश्वसङ्घैः प्रयाद्भिराजौ विधिवत्प्रणुन्नैः
समुद्धतं वै तरुणार्कवर्णं रजो बभौ च्छादयत्सूर्यश्मीन्। रेजुः पताका रथदन्तिसंस्था वातेरिता भ्राम्यमाणाः समन्तात्
नानालिङ्गैः समरे तत्र राजन् मेघैर्युता विद्युतः खे यथैव। वृन्दैः स्थिताश्चापि सुसंप्रयुक्ता- श्चकाशिरे दन्तिगणाः समन्तात्
धनूंषि विष्फारयतां नृपाणां बभूव शब्दस्तुमुलोऽतिघोरः। विमथ्यतो देवमहासुरौघै- र्यथार्णवस्यादियुगे तदानीम्
तदुग्रनागं बहुरूपवर्णं तवात्मजानां समुदीर्णकोपम् । बभूव सैन्यं रिपुसैन्यहन्त- युगान्तमेघौघनिभं तदानीम्
प्रवृत्तमात्रे संग्रामे निवृत्ते च सुशर्मणि । भग्नेषु चापि वीरेषु पाण्डवेन महात्मना
क्षुभ्यमाणे बले तूर्णं सागरप्रतिमे तव। प्रत्युद्याते च गाङ्गेये त्वरितं विजयं प्रति
दृष्ट्वा दुर्योधनो राजा रणे पार्थस्य विक्रमम् । त्वरमाणः समभ्येत्य सर्वांस्तानब्रवीन्नृपान् ।। ेषां तु प्रमुखे शूरं सुशर्माणं महाबलम् । मध्ये सर्वस्य सैन्यस्य भृशं संहर्षयन्निव
एष भीष्मः शान्तनवो योद्धुकामो धनञ्जयम् । सर्वात्मना कुरुश्रेष्ठस्त्यक्त्वा जीवितमात्मनः
तं प्रयान्तं रणे वीरं सर्वसैन्येन भारतम् । संयत्ताः समरे सर्वे पालयध्वं पितामहम्