तस्य विक्षिपतश्चापं श्रुतकीर्तेर्महास्वनम्। चिच्छेद समरे तूर्णं जयत्सेनः सुतस्तव
क्षुरप्रेण सुतीक्ष्णेन प्रहसन्निव भारत। तं दृष्ट्वा च्छिन्नधन्वानं शतानीकः सहोदरम्
अभ्यपद्यत तेजस्वी सिंहवन्निनदन्मुहुः । शतानीकस्तु समरे दृढं विस्पार्य कार्मुकम्
विव्याध दशभिस्तूर्णं जयत्सेनं शिलीमुखैः । ननाद सुमहानादं प्रभिन्न इव वारणः
अथान्येन सुतीक्ष्णेन सर्वावरणभेदिना । शतानीको जयत्सेनं विव्याध हृदये भृशम्
तथा तस्मिन्वर्तमाने दुष्कर्णो भ्रातुरन्तिके । मुमोचास्मैशितान्बाणांस्तीक्ष्णानाशीविषोपमान् चिच्छेद समरे चापं नाकुलेः क्रोधमूर्च्छितः
अथान्यद्धनुरादाय भारसाहमनुत्तमम् । समादत्त शरान्घोराञ्शतानीको महाबलः
तिष्ठतिष्ठेति चामन्त्र्य दुष्कर्णं भ्रातुरग्रतः। मुमोचास्मै शितान्बाणाज्ज्वलितान्पन्नगानिव
ततोऽस्य धनुरेकेन द्वाभ्यां सूतं च मारिष । चिच्छेद समरे तूर्णं तं च विव्याध सप्तभिः
अश्वान्मनोजवांस्तस्य कर्बुरान्वातरंहसः । जघान निशितैस्तूर्णं सर्वान्द्वादशभिः शरैः
अथापरेण भल्लेन सुयुक्तेनाशुपातिना। दुष्कर्णं नाकुलिः क्रुद्धो विव्याध हृदये भृशम्
स पपात ततो भूमौ वज्राहत इव द्रुमः । दुष्कर्णं व्यथितं दृष्ट्वा पञ्च राजन्महारथाः
दिघांसन्तः शतानीकं सर्वतः पर्यवारयन्। छाद्यमानं शरव्रतैः शतानीकं यशस्विनम्
अभ्यधावन्त संक्रुद्धाः केकयाः पञ्च सोदराः । तानभ्यापततः प्रेक्ष्य तव पुत्रा महारथाः
प्रत्युद्ययुर्महाराज गजानिव महागजाः । दुर्मुखो दुर्जयश्चैव तथा दुर्मर्षणो युवा
शत्रुंजयः सत्रुसहः सर्वे क्रुद्धा यशस्विनः । प्रत्युद्याता महाराज केकयान्भ्रातरः समम्
रथैर्नगरसंकाशैर्हयैर्युक्तैर्मनोजवैः । नानावर्णविचित्राभिः पताकाभिरलङ्कृतैः
शरचापधरा वीरा विचित्रकवचध्वजाः । विविशुस्ते परं सैन्यं सिंहा इव वनाद्वनम्
तेषां सुतुमुलं युद्धं व्यतिषक्तरथद्विपम्। अवर्तत महारौद्रं निघ्नतामितरेतरम्
अन्योन्यागस्कृतां राजन्यमराष्ट्रविवर्धनम् । मुहूर्तास्तमिते सूर्ये चक्रुर्युद्धं सुदारुणम्
रथिनः सादिनश्चाथ व्यकीर्यन्त सहस्रशः । ततः शान्तनवः क्रुद्धः शरैः सन्नतपर्वभिः
नाशयामास सेनां तां भीष्मस्तेषां महात्मनाम् । पञ्चालानां च सैन्यानि शरैर्निन्ये यमक्षयम्
एवं भित्त्वा महेष्वासः पाण्डवानामनीकिनीम्। कृत्वाऽवहारं सैन्यानां ययौ स्वशिबिरं नृप
नाशयामासतुर्वीरौ धृष्टद्युम्नवृकोदरौ। करवाणामनीकानि शरैः सन्नतपर्वभिः
धर्मराजोऽपि संप्रेक्ष्य धृष्टद्युम्नवृकोदरौ । मूर्ध्नि चैतावुपाघ्राय प्रहृष्टः शिबिरं ययौ
अर्जुनो वासुदेवश्च कौरवाणामनीकिनीम् ।' हत्वा विद्राव्य च शरैः शिबिरायैव जग्मतुः
क्षत्रियास्ते महाराज परस्परकृतागसः। जग्मुः स्वशिबिराण्येव रुधिरेण समुक्षिताः
विश्रम्य च यथान्यायं पूजयित्वा परस्परम् । सन्नद्धाः समदृश्यन्त भूयो युद्धचिकीर्षवः
ततस्तव सुतो राजंश्चिन्तयाभिपरिप्लुतः । विस्रवच्छोणिताक्ताङ्गः पप्रच्छेदं पितामहम्
सैन्यानि रौद्राणि भयानकानि व्यूढानि सम्यग्बहुलध्वजानि। विदार्य हत्वा च निपीड्य शूरां- स्ते पाण्डवा लब्धजयाः प्रहृष्टाः