द्वाभ्यां च सुविकृष्टाभ्यां शराभ्यामरिमर्दनः । छत्रं चिच्छेद समरे राज्ञस्तस्य नरोत्तम्
षङ्भिश्च तस्य चिच्छेद ज्वलन्तं ध्वजमुत्तमम् । छित्त्वा तं च ननादोच्चैस्तव पुत्रस्य पश्यतः
रथाच्च स ध्वजः श्रीमान्नानारत्नविभूषितात्। पपात सहसा भूमौ विद्युञ्जलधरादिव
ज्वलन्तं सूर्यसंकाशं नागं मणिमयं शुभम् । ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः
अथैनं दशभिर्बाणैस्तोत्रैरिव महाद्विपम् । आजघान रणे वीरं स्मयन्निव महारथः
स गाढविद्धो व्यथितो भीमसेनेन संयुगे । निषसाद रथोपस्थे मूर्च्छाभिहतचेतनः
ततः स राजा सिन्धूनां रथश्रेष्ठो महाबलः । दुर्योधनस्य जग्राह पार्ष्णिं स्वपुरुषैर्वृतः
कृपश्च रथिनां श्रेष्ठस्तव पुत्रमचेतनम् । आरोपयद्रथं राजन्दुर्योधनममर्षणम्
परिवार्य ततो भीमं जेतुकामो जयद्रथः । रथैरनेकसाहस्रैर्भीमस्यावारयद्दिशः
धृष्टकेतुस्ततो राजन्नभिमन्युश्च वीर्यवान्। केकया द्रौपदेयाश्च तव पुत्रानयोधयन्
चित्रसेनः सुचित्रश्च चित्राङ्गश्चित्रदर्शनः । चारुचित्रः सुचारुश्च तथा नन्दोपनन्दकौ
अष्टावेते महेष्वासाः सुकुमारा यशस्विनः । अभिमन्युरथं राजन्समन्तात्पर्यवारयन्
आजघान ततस्तूर्णमभिमन्युर्महामनाः । एकैकं पञ्चभिर्बाणैः शितैः सन्नतपर्वभिः
वज्रमृत्युप्रतीकाशैर्विचित्रायुधनिःसृतैः । अमृष्यमाणास्ते सर्वे सौभद्रं रथसत्तमम्
ववृषुर्मार्गणैस्तीक्ष्णैर्गिरिं मेरुमिवाम्बुदाः । स पीड्यमानः समरे कृतास्त्रो युद्धदुर्मदः
अभिमन्युर्महाराज तावकान्समकम्पयत्। यथा देवासुरे युद्धे वज्रपाणिर्महासुरान्
विकर्णस्य ततो भल्लान्प्रेषयामास भारत। चतुर्दश रथश्रेष्ठो घोरानाशीविषोपमान्
स तैर्विकर्णस्य रथात्पातयामास वीर्यवान् । ध्वजं सूतं हयांश्चैव नृत्यमान इवाहवे
पुनश्चान्याञ्शरान्पीतानकुण्ठाग्राञ्शिलाशितान्। प्रेषयामास संक्रुद्धो विकर्णाय महाबलः
ते विकर्णं समासाद्य कङ्कबर्हिणवाससः। भित्त्वा देहं गता भूमिं ज्वलन्त इव पन्नगाः
ते शरा हेमपुङ्खाग्रा व्यदृश्यन्त महीतले । विकर्णरुधिरक्लिन्ना वमन्त इव शोणितम्
विकर्णं वीक्ष्य निर्भिन्नं तस्यैवान्ये सहोदराः । अभ्यद्रवन्त समरे सौभद्रप्रमुखान्रथान्
अभियात्वा तथैवान्यान्रथांस्तान्सूर्यवर्चसः । अविध्यन्समरेऽन्योन्यं संरम्भाद्युद्धदुर्मदाः
दुर्मुखः श्रुतकर्माणं विद्ध्वा सप्तभिराशुगैः । ध्वजमेकेन चिच्छेद सारथिं चास्य सप्तमिः
अश्वाञ्जाम्बूनदैर्जालैः प्रच्छन्नान्वातरंहसः । जघान षङ्भिरासाद्य सारथिं चाभ्यपातयत्
स हताश्वे रथे तिष्ठञ्श्रुतकर्मा महारथः । शक्तिं चिक्षेप संक्रुद्धो महोल्कां ज्वलितामिव
सा दुर्मुखस्य विमलं वर्म भित्त्वा यशस्विनः । विदार्य प्राविशद्भूभिं दीप्यमाना स्वतेजसा
दुर्मुखो विह्वलस्तत्र निषसाद रणे विभो। विसंज्ञं प्रेक्ष्य ते सर्वे भ्रातरः पर्यवारयन्
तं दृष्ट्वा विरथं तत्र सुतसोमो महारथः । पश्यतां सर्वसैन्यानां रथमारोपयत्स्वकम्
श्रुतकीर्तिस्तथा वीरो जयत्सेनं सुतं तव। अभ्ययात्समरे राजन्हन्तुकामो यशस्विनम्