अथाभिमन्युः समरे भीमसेनेन संगतः । पार्षतेन च ते सर्वे कैकया द्रौपदीसुताः
तादृष्ट्वा समरे क्रुद्धांस्तव सैन्ये महारथाः। दुर्योधनप्रभृतयः प्रगृहीतशरासनाः। भृशमर्श्वैः प्रजवितैः प्रययुर्यत्र ते रथाः
अपराह्णे महाराज प्रावर्तत महारणः। तावकानां च बलिनां परेषां चैव भारत
अभिमन्युर्विकर्णस्य हयान्हत्वा महाहवे। अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत्
हताश्वं रथमुत्सृज्य विकर्णस्तु महारथः । आरुरोह रथं राजंश्चित्रसेनस्य भारत । योधयामास समरे तदद्भुतमिवाभवत्
स्थितावेकरथे तौ तु भ्रातरौ कुलवर्धनौ। आर्जिनिः शरजालेन च्छादयामास भारत
चित्रसेनो विकर्णश्च कार्ष्णिं पञ्चभिरायसैः । विव्यधाते न चाकम्पत्कार्ष्णिर्मेरुरिव स्थितः
दुःशासनस्तु समरे केकयान्पञ्च मारिप । योधयामास राजेन्द्र तदद्भुतमिवाभवत्
द्रौपदेया रणे क्रुद्धा दुर्योधनमवारयन् । शरैराशीविषाकारैः पुत्रं तव विशांपते
पुत्रोऽपि तव दुर्धर्षो द्रौपद्यास्तनयान्रणे । सायकैर्निशितै राजन्नाजघान पृथक्पृथक्
तैश्चापि विद्धः शुशुभे रुधिरेम समुक्षितः । गिरिः प्रस्रवणैर्यद्वद्गैरिकादिविमिश्रितैः
भीष्मोऽपि समरे राजन्पाण्डवानामनीकिनीम् । कालयामास बलवान्पालः पशुगणानिव
ततो गाण्डीवनिर्घोषः प्रादुरासीद्विशांपते । दक्षिणेन वरूथिन्याः पार्थस्यरीन्विनिघ्नतः
उत्तस्थुः समरे तत्र कबन्धानि समन्ततः। कुरूणां चैव सैन्येषु पाण्डवानां च भारत
शोणितोदं शरावर्तं गजद्वीपं हयोर्मिणम् । रथनौभिर्नरव्याघ्राः प्रतेरुः सैन्यसागरम्
छिन्नहस्ता विकवचा विदेहाश्च नरोत्तमाः । दृश्यन्ते पतितास्तत्र शतशोऽथ सहस्रशः
निहतैर्मत्तमातङ्गैः शोणितौघपरिप्लुतैः । भूर्भाति भरतश्रेष्ठ पर्वतैराचिता यथा
तत्राद्भुतमपश्याम तव तेषां च भारत । न तत्रासीत्पुमान्कश्चिद्यो युद्धं नाभिकाङ्क्षति
एवं युयुधिरे वीराः प्रार्थयाना महद्यशः। तावकाः पाण्डवैः सार्धमाकाङ्क्षन्तो जयं युधि
ततो दुर्योधनो राजा लोहितायति भास्करे। संग्रामरभसो भीमं हन्तुकामोऽभ्यधावत
तमायान्तमभिप्रेक्ष्य नृवीरं दृढवैरिणम् । भीमसेनः सुसंक्रुद्ध इदं वचनमब्रवीत्
अयं स कालः संप्राप्तो वर्षपूगाभिवाञ्छितः । अद्य त्वां निहनिष्यामि यदि नोत्सृजसे रणम्
अद्य कुन्त्याः परिक्लेशं वनवासं च कृत्स्नशः। द्रौपद्याश्च परिक्लेशं प्रणेष्यामि हते त्वयि
यत्पुरा मत्सरीभूत्वा पाण्डवानवमन्यसे । तस्य पापस्य गान्धारे पश्य व्यसनमागतम्
कर्णस्य मतमास्थाय सौबलस्य च यत्पुरा । अचिन्त्य पाण्डवान्कामाद्यथेष्टं कृतवानसि
याचमानं च यन्मोहाद्दाशार्हमवमन्यसे। उलूकस्य समादेशं यद्ददासि च हृष्टवत्
तेन त्वां निहनिष्यामि सानुबन्धं सबान्धवम् । शमीकरिष्ये तत्पापं यत्पुरा कृतवानसि
एवमुक्त्वा धनुर्घोरं विकृष्योद्भ्राम्य चासकृत् । समाधत्त शरान्घोरान्महाशनिसमप्रभान्
षड्विंशतिमसं क्रुद्धो मुमोचाशु सुयोधने । ज्वलिताग्निशिखाकारान्वज्रकल्पानजिह्मगान्
ततोऽस्य कार्मुकं द्वाभ्यां सूतं द्वाभ्यां च विव्यधे । चतुर्भिरश्वाञ्जवनाननयद्यमसादनम्