तौ च दृष्ट्वा महेष्वासावभिमन्युपुरोगमान् । बभूवतुर्मुदायुक्तौ निघ्नन्तौ तव वाहिनीम्
द्रोणमिष्वस्त्रकुशलं सर्वविद्यासु पारगम्।' दृष्ट्वा तु सहसायान्तं पाञ्चाल्यो गुरुमात्मनः । नाशंसत वधं वीरः पुत्राणां तव पार्षतः
ततो रथं समारोप्य कैकेयस्य वृकोदरम् । अभ्यधावत्सुसंक्रुद्धो द्रोणमिष्वस्त्रपारगम्
तस्याभिपततस्तूर्णं भारद्वाजः प्रतापवान्। क्रुद्धश्चिच्छेद बाणेन धनुः शत्रुनिबर्हणः
अन्यांश्च शतशो बाणान्प्रेषयामास पार्षते । दुर्योधनहितार्थाय भर्तृपिण्डमनुस्मरन्
अथान्यद्धनुरादाय पार्षतः परवीरहा । द्रोणं विव्याध विंशत्या रुक्मपुङ्खैः शिलाशितैः
तस्य द्रोणः पुनश्चापं चिच्छेदामित्रकर्शनःक । हयांश्च चतुरस्तूर्णं चतुर्भिः सायकोत्तमैः
वैवस्वतक्षयं घोरं प्रेषयामास भारत । सारथिं चास्य भल्लेन प्रेषयामास भारत
हताश्वात्स रथात्तूर्णमवप्लुत्य महारथः । आरुरोह महाबाहुरभिमन्योर्महारथम्
ततः सरथनागाश्वा समकम्पत वाहिनी । पश्यतो भीमसेनस्य पार्षतस्य च पश्यतः
तत्प्रभग्नं बलं दृष्ट्वा द्रोणेनामिततेजसा । नाशक्रुवन्वारयितुं समस्तास्ते महारथाः
वध्यमानं तु तत्सैन्यं द्रोणेन निशितैः शरैः । व्यभ्रमत्तत्रतत्रैव क्षोभ्यमाण इवार्णवः
तथा दृष्ट्वा च तत्सैन्यं जहृषे तावकं बलम् । दृष्ट्वाचार्यं सुसंक्रुद्धं तपन्तं रिपुवाहिनीम् । तुष्टुवुः सर्वतो योधाः साधुसाध्विति भारत
ततो दुर्योधनो राजा महोत्प्रत्यागतस्मृतिः । शरवर्षैः पुनर्भीमं प्रत्यवारयदच्युतम्
एकीभूतास्ततश्चैव तव पुत्रा महारथाः । समेत्य समरे भीमं योधयामासुरुद्यताः
भीमसेनोऽपि समरे संप्राप्य स्वरथं पुनः । समारुह्य महाबाहुर्ययौ येन तवात्मजः
प्रगृह्य च महावेगं परासुकरणं दृढम् । सज्यं शरासनं सङ्ख्ये शरैर्विव्याध ते सुतम्
ततो दुर्योधनो राजा भीमसेनं महाबलम् । नाराचेन सुतीक्ष्णेन भृशं मर्मण्यताडयत्
सोऽतिविद्धो महेष्वासस्तव पुत्रेण धन्विना । क्रोधसंरक्तनयनो वेगेनाक्षिप्य कार्मुकम्
दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् । स तत्र शुशुभे राजा शिखरैर्गिरिराडिव
तौ दष्ट्वा समरे क्रुद्धौ विनिघ्नन्तौ परस्परम् । दुर्योधनानुजाः सर्वे शूराः संत्यक्तजीविताः
संस्मृत्य मन्त्रितं पूर्वं निग्रहे भीमकर्मणः । निश्चयं परमं कृत्वा निग्रहीतुं प्रचक्रमुः
तानापतत एवाजौ भीमसेनो महाबलः । प्रत्युद्ययौ महाराज गजः प्रतिगजानिव
भृशं क्रुद्धश्च तेजस्वी नाराचेन समार्पयत् । चित्रसेनं महाराज तव पुत्रं महायशाः
तथेतरांस्तव सुतांस्ताडयामास भारत । शरैर्बहुविधैः सङ्ख्ये रुक्मपुङ्खैः सुतेजनैः
ततः संप्रेक्ष्य पुत्रैस्ते भीमसेनं समावृतम् । अभिमन्युप्रभृतयस्ते द्वदश महारथाः
प्रेषिता धर्मराजेन भीमसेनपदानुगाः । प्रतिजग्मुर्महाराज तव पुत्रान्महाबलान्
दृष्ट्वा रथस्थांस्ताञ्शूरान्सूर्याग्निसमतेजसः । सर्वानेव महेष्वासान्भ्राजमानाञ्श्रिया वृतान्
महाहवे दीष्यमानान्सुवर्णमकुटोञ्ज्वलान्। तत्यजुः समरे भीमं तव पुत्रा महाबलाः
तान्नामृष्यत कौन्तेयो जीवमाना गता इति । अन्वीय च पुनः सर्वांस्तव पुत्रानपीडयत्