न्मोहोपेतांस्तव पुत्रान्निशम्य
एतस्मिन्नेव काले तु भीमः प्रहरतां वरः। विश्रम्य च तदा राजन्पीत्वाऽमृतरसं जलम्
पुनः सन्नह्य संक्रुद्धो योधयामास संयुगे। धृष्टद्यम्नेन सहितः कालयामास भारत
एतस्मिन्नन्तरे राजन्द्रोणः शस्त्रभृतां वरः। द्रुपदं त्रिभिरासाद्य शरैर्विव्याध दारुणैः
सोऽतिविद्धस्ततो राजन्रणे द्रोणेन पार्थिवः । अपायाद्द्रुपदो राजन्पूर्ववैरमनुस्मरन्
जित्वा तु द्रुपदं द्रोणः शङ्खं दध्मौ प्रतापवान् । तस्य शङ्खस्वनं श्रुत्वा वित्रेसुः सर्वसोमकाः
अथ शुश्राव तेजस्वी द्रोणः शस्त्रभृतां वरः। प्रमोहनास्त्रेण रणे मोहितानात्मजांस्तव
ततो द्रोणो महाराज त्वरितोऽभ्याययौ रणात्। तत्रापश्यन्महेष्वासो भारद्वाजः प्रतापवान्
धृष्टद्युम्नं च भीमं च विचरन्तौ महारणे । मोहाविष्टांश्च ते पुत्रानपश्यत्स महारथः
ततः प्रज्ञांस्त्रमदाय मोहनास्त्रं व्यनाशयत् । ततः प्रत्यागतप्राणास्तव पुत्रा महारथाः
पुनर्युद्धाय समरे प्रत्युद्याता जिगीषवः । ततो युधिष्ठिरः प्राह समाहूय स्वसैनिकान्
गच्छन्तु पदवीं शक्त्या भीमपार्षतयोर्युधि। सौभद्रप्रमुखा वीरा रथा द्वादश दंशिताः
प्रवृत्तिमधिगच्छन्तु न हि शुद्ध्यति मे मनः । प्रवृत्तिर्भिमसेनस्य पार्षतस्य च संयुगे
विज्ञेया समरे शीघ्रं प्रविशध्वं रथार्णवम् । गच्छन्तु परया शक्त्या भवन्त इति मे मतिः
त एवं समनुज्ञाताः शूरा विक्रान्तयोधिनः । बाढमित्येवमुक्त्वा तु सर्वे पुरुषमानिनः । मध्यंदिनगते सूर्ये प्रययुः सर्व एव हि
केकया द्रौपदेयाश्च धृष्टकेतुश्च वीर्यवान् । अभिमन्युं पुरस्कृत्य महत्या सेनया वृताः
ते कृत्वा समरे व्यूहं सूचीमुखमरिन्दमम् । बिभिदुर्धार्तराष्ट्राणां तद्रथानीकमाहवे
तान्प्रयातान्महेष्वासानभिमन्युपुरोगमान्। भीमसेनभयाविष्टा धृष्टद्युम्नविमोहिता
न संवारयितुं शक्ता तव सेना जनाधिप । मदमूर्च्छन्वितात्मा वै प्रमदेवाध्वनि स्थिता
तेऽभिजाता महेष्वासाः सुवर्णविकृतध्वजाः । परीप्सन्तोऽभ्यधावन्त धृष्टद्युम्रवृकोदरौ
तौ च दृष्ट्वा महेष्वासावभिमन्युपुरोगमान् । बभूवतुर्मुदायुक्तौ निघ्नन्तौ तव वाहिनीम्
द्रोणमिष्वस्त्रकुशलं सर्वविद्यासु पारगम्।' दृष्ट्वा तु सहसायान्तं पाञ्चाल्यो गुरुमात्मनः । नाशंसत वधं वीरः पुत्राणां तव पार्षतः
ततो रथं समारोप्य कैकेयस्य वृकोदरम् । अभ्यधावत्सुसंक्रुद्धो द्रोणमिष्वस्त्रपारगम्
तस्याभिपततस्तूर्णं भारद्वाजः प्रतापवान्। क्रुद्धश्चिच्छेद बाणेन धनुः शत्रुनिबर्हणः
अन्यांश्च शतशो बाणान्प्रेषयामास पार्षते । दुर्योधनहितार्थाय भर्तृपिण्डमनुस्मरन्
अथान्यद्धनुरादाय पार्षतः परवीरहा । द्रोणं विव्याध विंशत्या रुक्मपुङ्खैः शिलाशितैः
तस्य द्रोणः पुनश्चापं चिच्छेदामित्रकर्शनःक । हयांश्च चतुरस्तूर्णं चतुर्भिः सायकोत्तमैः
वैवस्वतक्षयं घोरं प्रेषयामास भारत । सारथिं चास्य भल्लेन प्रेषयामास भारत
हताश्वात्स रथात्तूर्णमवप्लुत्य महारथः । आरुरोह महाबाहुरभिमन्योर्महारथम्
ततः सरथनागाश्वा समकम्पत वाहिनी । पश्यतो भीमसेनस्य पार्षतस्य च पश्यतः