भीमसेने प्रविष्टे तु धृष्टद्युम्नोऽपि पार्षतः । द्रोणमुत्सृज्य तरसा ययौ यत्र वृकोदरः
विदार्य महतीं सेनां तावकानां नरर्षभः । आससाद रथं शून्यं भीमसेनस्य संयुगे
दृष्ट्वा विशोकं समरे भीमसेनस्य सारथिम् । धृष्टद्युम्नो महाराज दुर्मना गतचेतनः
अपृच्छद्बाष्पसंरुद्धो निःश्वसन्वाचमीरयन् । मम प्राणैः प्रियतमः क्व भीम इति दुःखितः
विशोकस्तमुवाचेदं धृष्टद्युम्नं कृताञ्जलिः । संस्थाप्य मामिह बली पाण्डवेयः पराक्रमी
प्रविष्टो धार्तराष्ट्राणामेतद्बलमहार्णवम् । मामुक्त्वा पुरुषव्याघ्रः प्रीतियुक्तमिदं वचः
प्रतिपालय मां सूत नियम्याश्वान्मुहूर्तकम्। यावदेवान्निहन्म्यद्य य इमे मद्वधोद्यताः । अभ्यधावद्गदापाणिस्तद्बलं स महाबलः
ततो दृष्ट्वा प्रधावन्तं गदाहस्तं महाबलम् । सर्वेषामेव सैन्यानां संहर्षः समजायत
तस्मिन्सुतुमुले युद्धे वर्तमाने भयानके । भित्त्वा राजन्महाव्यूहं प्रविवेश सखा तव
विशोकस्य वचः श्रुत्वा धृष्टद्युम्नोऽथ पार्षतः । प्रत्युवाच ततः सूतं रणमध्ये महाबलः
न हि मे जीवितेनापि विद्यतेऽद्य प्रयोजनम् । भीमसेनं रणे हित्वा स्नेहमुत्सृज्य पाण्डवैः
यदि यामि विना भीमं किं मां क्षत्रं वदिष्यति। एकायनगते भीमे मयि चावस्थिते युधि
तस्य न स्वस्ति कुर्वन्ति देवाः शक्रपुरोगमाः । यः सहायान्परित्यज्य स्वस्तिमानाव्रजेद्गृहम्
रौरवे नरके मञ्जेदप्लवे दुस्तरे नृभिः ।' मम भीमः सखा चैव संबन्धी च महाबलः । भक्तोऽस्मान्भक्तिमांश्चाहं तमप्यरिनिषूदनम्
सोऽहं तत्र गमिष्यामि यत्र यातो वृकोदरः । निघ्नन्तं मां रिपून्पश्य दानवानिव वासवम्
एवमुक्त्वा ततो वीरो ययौ मध्येन वाहिनीम् । भीमसेनस्य मार्गेषु गदाप्रमथितैर्गजैः
स ददर्श तदा भीमं दहन्तं रिपुवाहिनीम्। वातो वृक्षानिव बलात्प्रभञ्जन्तं रणे रिपून्
ते वध्यमानाः समरे रथिनः सादिनस्तथा । पादाता दन्तिनश्चैव चक्रुरात्स्वरं महत्
हाहाकारश्च संजज्ञे तव सैन्यस्य मारिष । वध्यतो भीमसेनेन कृतिना चित्रयोधिना
ततः कृतास्त्रास्ते सर्वे परिवार्य वृकोदरम् । अभीताः समवर्तन्त शस्त्रवृष्ट्या परंतप
अभिद्रुतं शस्त्रभृतां वरिष्ठं समन्ततः पाण्डवं लोकवीरः। सैन्येन घोरेण सुसंहितेन दृष्ट्वा बली पार्षतो भीमसेनम्
अथोपगच्छच्छरविक्षताङ्गं पदातिनं क्रोधविषं वमन्तम्। आश्वासयन्पार्षतो भीमसेनं गदाहस्तं कालमिवान्तकाले
विशल्यमेनं च चकार तूर्ण- मारोपयच्चात्मरथे महात्मा। भृशं परिष्वज्य च भीमसेन- माश्वासयामास स शत्रुमध्ये
तथा तस्मिन्वर्तमानेऽतिवेगं भ्रातॄनथोपेत्य तवापि पुत्रः । तस्मिन्विमर्दे तव संप्रवृत्ते दृष्ट्वा रणे वाक्यमिदं बभाषे
अयं दुरात्मा द्रुपदस्य पुत्रः समागतो भीमसेनेन सार्धम्
तं याम सर्वे महता बलेन मा वो रिपुः प्रार्थयतामनीकम्। श्रुत्वा तु वाक्यं तममृष्यमाणा ज्येष्ठज्ञया नोदिता धार्तराष्ट्राः
वधाय निष्पेतुरुदायुधास्ते युगक्षये केतवो यद्वदुग्राः। प्रगृह्य चास्त्राणि धनूंषि वीरा ज्यां नेमिघोषैः प्रविकम्पयन्तः
शरैरवर्षन्द्रुपदस्य पुत्रं यथाम्बुदा भूधरं वारिजालैः । निहत्य तांश्चापि शरैः सुतीक्ष्णै- र्न विव्यथे समरे चित्रयोधी
न्दैत्येषु यद्वत्समरे महेन्द्रः
स वै ततोऽस्त्रं सुमहाप्रभावं' प्रमोहनं द्रोणदत्तं महात्मा। प्रयोजयामास उदारकर्मा तस्मिन्रणे तव सैन्यस्य राजन्