संप्राप्य मध्यं सैन्यस्य न भीः पाण्डवमाविशत्। यथा देवासुरे युद्धे महेन्द्रं प्राप्य दानवान्
ततः शतसहस्राणि रथिनां सर्वशः प्रभो । उद्यतानि शरैस्तीव्रैस्तमेकं परिवव्रिरे
स तेषां प्रवरान्योधान्हस्त्यश्वरथसादिनः । जघान समरे शूरो धार्तराष्ट्रानचिन्तयन्
तेषां व्यवसितं ज्ञात्वा भीमसेनो जिघृक्षताम्। समस्तानां वधे राजन्मतिं चक्रे महामनाः
ततो रथं समुत्सृज्य गदामादाय पाण्डवः । उवाच सारथिं भीमं स्थीयतामिति भारत
यावदेतान्हनिष्यामि धार्तराष्ट्रान्सहानुगान् । इत्युक्त्वा भीमसेनस्तु प्रविश्य महतीं चमूम् । जघान धार्तराष्ट्राणां तद्बलौघमहार्णवम्
गदया भिमसेनेन ताडिता वारणोत्तमाः । भिन्नकुम्भा महाकाया भिन्नपृष्ठास्तथैवच
भिन्नगात्राः सहारोहैः शेरते पर्वता इव। रथाश्च भग्नास्तिलशः सयोधाः शतशो रणे
अश्वाश्च सादिनश्चैव पादातैः सह भारत । तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम्
यदेकः समरे राजन्बहुभिः समयोधयत् । अन्तकाले प्रजाः सर्वा दण्डपाणिरिवान्तकः
भीमसेने प्रविष्टे तु धृष्टद्युम्नोऽपि पार्षतः । द्रोणमुत्सृज्य तरसा ययौ यत्र वृकोदरः
विदार्य महतीं सेनां तावकानां नरर्षभः । आससाद रथं शून्यं भीमसेनस्य संयुगे
दृष्ट्वा विशोकं समरे भीमसेनस्य सारथिम् । धृष्टद्युम्नो महाराज दुर्मना गतचेतनः
अपृच्छद्बाष्पसंरुद्धो निःश्वसन्वाचमीरयन् । मम प्राणैः प्रियतमः क्व भीम इति दुःखितः
विशोकस्तमुवाचेदं धृष्टद्युम्नं कृताञ्जलिः । संस्थाप्य मामिह बली पाण्डवेयः पराक्रमी
प्रविष्टो धार्तराष्ट्राणामेतद्बलमहार्णवम् । मामुक्त्वा पुरुषव्याघ्रः प्रीतियुक्तमिदं वचः
प्रतिपालय मां सूत नियम्याश्वान्मुहूर्तकम्। यावदेवान्निहन्म्यद्य य इमे मद्वधोद्यताः । अभ्यधावद्गदापाणिस्तद्बलं स महाबलः
ततो दृष्ट्वा प्रधावन्तं गदाहस्तं महाबलम् । सर्वेषामेव सैन्यानां संहर्षः समजायत
तस्मिन्सुतुमुले युद्धे वर्तमाने भयानके । भित्त्वा राजन्महाव्यूहं प्रविवेश सखा तव
विशोकस्य वचः श्रुत्वा धृष्टद्युम्नोऽथ पार्षतः । प्रत्युवाच ततः सूतं रणमध्ये महाबलः
न हि मे जीवितेनापि विद्यतेऽद्य प्रयोजनम् । भीमसेनं रणे हित्वा स्नेहमुत्सृज्य पाण्डवैः
यदि यामि विना भीमं किं मां क्षत्रं वदिष्यति। एकायनगते भीमे मयि चावस्थिते युधि
तस्य न स्वस्ति कुर्वन्ति देवाः शक्रपुरोगमाः । यः सहायान्परित्यज्य स्वस्तिमानाव्रजेद्गृहम्
रौरवे नरके मञ्जेदप्लवे दुस्तरे नृभिः ।' मम भीमः सखा चैव संबन्धी च महाबलः । भक्तोऽस्मान्भक्तिमांश्चाहं तमप्यरिनिषूदनम्
सोऽहं तत्र गमिष्यामि यत्र यातो वृकोदरः । निघ्नन्तं मां रिपून्पश्य दानवानिव वासवम्
एवमुक्त्वा ततो वीरो ययौ मध्येन वाहिनीम् । भीमसेनस्य मार्गेषु गदाप्रमथितैर्गजैः
स ददर्श तदा भीमं दहन्तं रिपुवाहिनीम्। वातो वृक्षानिव बलात्प्रभञ्जन्तं रणे रिपून्
ते वध्यमानाः समरे रथिनः सादिनस्तथा । पादाता दन्तिनश्चैव चक्रुरात्स्वरं महत्
हाहाकारश्च संजज्ञे तव सैन्यस्य मारिष । वध्यतो भीमसेनेन कृतिना चित्रयोधिना
ततः कृतास्त्रास्ते सर्वे परिवार्य वृकोदरम् । अभीताः समवर्तन्त शस्त्रवृष्ट्या परंतप