यानि त्वं पश्यसे राजन्धर्मसंकरकारणात्। तव दोषात्पुरा वृत्तं द्यूतमेतद्विशांपते
तव दोषेण युद्दं च प्रवृत्तं सह पाण्डवैः । त्वमेवाद्य फलं भुङ्क्ष्व कृत्वा किल्बिषमात्मना
आत्मना हि कृतं कर्म आत्मनैवोपभुज्यते। इह वा प्रेत्य वा राजंस्त्वया प्राप्तं यथातथम्
तस्माद्राजन्स्थिरो भूत्वा प्राप्येदं व्यसनं महत्। शृणु युद्धं यथा वृत्तं शंसतो मे नराधिप
भीमसेनः सुनिशितैर्बाणैर्भित्त्वा महाचमूम् । आससाद ततो वीरः सर्वान्दुर्योधनानुजान्
दुःशासनं दुर्विषहं दुःसहं दुर्मदं जयम्। जयत्सेनं विकर्णं च चित्रसेनं सुदर्शनम्
चारुचित्रं सुवर्माणं दुष्कर्णं कर्णमेव च । एतांश्चान्यांश्च सुबहून्समीपस्थान्महारथान्
धार्तराष्ट्रान्सुसंक्रुद्धान्दृष्ट्वा भीमो महारथः । भीष्मेण समरे गुप्तां प्रविवेश महाचमूम्
अथालोक्य प्रविष्टं तमूचुस्ते सर्व एव तु । जीवग्राहं निगृह्णीमो वयमेनं नराधिपाः
स तैः परिवृतः पार्थो भ्रातृभिः कृतनिश्चयैः । प्रजासंहरणे सूर्यः क्रूरैरिव महाग्रहैः
संप्राप्य मध्यं सैन्यस्य न भीः पाण्डवमाविशत्। यथा देवासुरे युद्धे महेन्द्रं प्राप्य दानवान्
ततः शतसहस्राणि रथिनां सर्वशः प्रभो । उद्यतानि शरैस्तीव्रैस्तमेकं परिवव्रिरे
स तेषां प्रवरान्योधान्हस्त्यश्वरथसादिनः । जघान समरे शूरो धार्तराष्ट्रानचिन्तयन्
तेषां व्यवसितं ज्ञात्वा भीमसेनो जिघृक्षताम्। समस्तानां वधे राजन्मतिं चक्रे महामनाः
ततो रथं समुत्सृज्य गदामादाय पाण्डवः । उवाच सारथिं भीमं स्थीयतामिति भारत
यावदेतान्हनिष्यामि धार्तराष्ट्रान्सहानुगान् । इत्युक्त्वा भीमसेनस्तु प्रविश्य महतीं चमूम् । जघान धार्तराष्ट्राणां तद्बलौघमहार्णवम्
गदया भिमसेनेन ताडिता वारणोत्तमाः । भिन्नकुम्भा महाकाया भिन्नपृष्ठास्तथैवच
भिन्नगात्राः सहारोहैः शेरते पर्वता इव। रथाश्च भग्नास्तिलशः सयोधाः शतशो रणे
अश्वाश्च सादिनश्चैव पादातैः सह भारत । तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम्
यदेकः समरे राजन्बहुभिः समयोधयत् । अन्तकाले प्रजाः सर्वा दण्डपाणिरिवान्तकः
भीमसेने प्रविष्टे तु धृष्टद्युम्नोऽपि पार्षतः । द्रोणमुत्सृज्य तरसा ययौ यत्र वृकोदरः
विदार्य महतीं सेनां तावकानां नरर्षभः । आससाद रथं शून्यं भीमसेनस्य संयुगे
दृष्ट्वा विशोकं समरे भीमसेनस्य सारथिम् । धृष्टद्युम्नो महाराज दुर्मना गतचेतनः
अपृच्छद्बाष्पसंरुद्धो निःश्वसन्वाचमीरयन् । मम प्राणैः प्रियतमः क्व भीम इति दुःखितः
विशोकस्तमुवाचेदं धृष्टद्युम्नं कृताञ्जलिः । संस्थाप्य मामिह बली पाण्डवेयः पराक्रमी
प्रविष्टो धार्तराष्ट्राणामेतद्बलमहार्णवम् । मामुक्त्वा पुरुषव्याघ्रः प्रीतियुक्तमिदं वचः
प्रतिपालय मां सूत नियम्याश्वान्मुहूर्तकम्। यावदेवान्निहन्म्यद्य य इमे मद्वधोद्यताः । अभ्यधावद्गदापाणिस्तद्बलं स महाबलः
ततो दृष्ट्वा प्रधावन्तं गदाहस्तं महाबलम् । सर्वेषामेव सैन्यानां संहर्षः समजायत
तस्मिन्सुतुमुले युद्धे वर्तमाने भयानके । भित्त्वा राजन्महाव्यूहं प्रविवेश सखा तव
विशोकस्य वचः श्रुत्वा धृष्टद्युम्नोऽथ पार्षतः । प्रत्युवाच ततः सूतं रणमध्ये महाबलः