पुरोहितममात्यांश्च संप्रहृष्टोऽब्रवीदिदम्। शृण्वन्त्वेतद्भवन्तोऽपि देवदूतस्य भाषितम्
शृण्वन्तु देवतानां च महर्षीणां च भाषितम्'। अहमप्येवमेवैनं जानामि सुतमात्मजम्
यद्यहं वचनादस्या गृह्णीयामिममात्मजम्। भवेद्धि शङ्का लोकस्य नैवं शुद्धो भवेदयम्
तां विशोध्य तदा राजा देवैः सह महर्षिभिः। हृष्टः प्रमुदितश्चापि प्रतिजग्राह तं सुतम्
ततस्तस्य तदा राजा पितृकर्माणि सर्वशः। कारयामास मुदितः प्रीतिमानात्मजस्य ह। मूर्ध्नि चैनं समाघ्राय सस्नेहं परिषस्वजे
सभाज्यमानो विप्रैश्च स्तूयमानश्च बन्दिभिः। मुदं स परमां लेभे पुत्रस्पर्शनजां नृपः
स्वां चैव भार्यां धर्मज्ञः पूजयामास धर्मतः। अब्रवीच्चैव तां राजा सान्त्वपूर्वमिदं वचः
लोकस्यायं परोक्षस्तु संबन्धो नौ पुराऽभवत्। कृतो लोकसमक्षोऽद्य संबन्धो वै पुनः कृतः
तस्मादेतन्मया तस्य तन्निमित्तं प्रभाषितम्
शङ्केत वाऽयं लोकोऽथ स्त्रीभावान्मयि संगतम्। तस्मादेतन्मया चापि तच्छुद्ध्यर्थं विचारितम्
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव पृथग्विधाः। त्वां देवि वूजयिष्यन्ति निर्विशङ्कां पतिव्रताम्
पुत्रश्चायं वृतो राज्ये त्वमग्रमहिषी भव
यच्च कोपनयात्यर्थं त्वयोक्तोऽस्म्यप्रियं प्रिये। प्रणयिन्या विशालाक्षितत्क्षान्तं ते मया शुभे
अनृतं वाप्यनिष्टं वा दुरुक्तं वातिदुष्कृतम्। त्वयाप्येवं विशालाक्षि क्षन्तव्यं मम दुर्वचः। क्षान्त्या पतिकृते नार्यः पातिव्रत्यं व्रजन्ति ताः
एवमुक्त्वा तु राजर्षिस्तामनिन्दितगामिनीम्। अन्तःपुरं प्रवेश्याथ दुष्यन्तो महिषीं प्रियाम्
वासोभिरन्नपानैश्च पूजयित्वा तु भारत। `स मातरमुपस्थाय रथन्तर्यामभाषत
मम पुत्रो वने जातस्तव शोकप्रणशनः। ऋणादद्य विमुक्तोऽहं तव पौत्रेण शोभने
विश्वामित्रसुता चेयं कण्वेन च विवर्धिता। स्नुषा तव महाभागे प्रसीदस्व शकुन्तलाम्
पुत्रस्य वचनं श्रुत्वा पौत्रं सा परिषस्वजे। पादयोः पतितां तत्र रथन्तर्या शकुन्तलाम्
परिष्वज्य च बाहुभ्यां हर्षादश्रुण्यवर्तयत्। उवाच वचनं सत्यं लक्षये लक्षणानि च
तव पुत्रो विशालाक्षि चक्रवर्ती भविष्यति। तव भर्ता विशालाक्षि त्रैलोक्यविजयी भवेत्
दिव्यान्भोगाननुप्राप्ता भव त्वं वरवर्णिनि। एवमुक्ता रथ्तर्या परं हर्षमवाप सा
शकुन्तलां तदा राजा शास्त्रोक्तेनैव कर्मणा। ततोऽग्रमहिषीं कृत्वा सर्वाभरणभूषिताम्
ब्राह्मणेभ्यो धनं दत्त्वा सैनिकानां च भूपतिः। दौष्यन्तिं च ततो राजा पुत्रं शाकुन्तलं तदा
भरतं नामतः कृत्वा यौवराज्येऽभ्यषेचयत्। `भरते भारमावेश्य कृतकृत्योऽभवन्नृपः
ततो वर्षशतं पूर्णं राज्यं कृत्वा नराधिपः। गत्वा वनानि दुष्यन्तः स्वर्गलोकमुपेयिवान्
दुष्यन्ताद्भरतो राज्यं यथान्यायमवाप सः।' तस्य तत्प्रथितं कर्म प्रावर्तत महात्मनः
भास्वरं दिव्यमजितं लोकसंनादनं महत्। स विजित्य महीपालांश्चकार वशवर्तिनः
चचार च सतां धर्मं प्राप्य चानुत्तमं यशः। स राजा चक्रवर्त्यासीत्सार्वभौमः प्रतापवान्
ईजे च बहुभिर्यज्ञैर्यथा शक्रो मरुत्पतिः। याजयामास तं कण्वो दक्षवद्भूरिदक्षिणम्