आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते । सम्यक्प्रहरणे याने व्यपयाने च कोविदम्
नागाश्वरथयानेषु बहुशः सुपरीक्षितम् । परीक्ष्य च यथान्यायं वेतनेनोपपादितम्
न गोष्ठ्या नोपकारेण न च बन्धुनिमित्ततः । न सौहृदबलैर्वापि नाकुलीनपरिग्रहैः
समृद्धजनमार्यं च तुष्टसंबन्धिबान्धवम् । कृतोपकारभूयिष्ठं यशस्वि च मनस्वि च
स्वजनैस्तु नरैर्मुख्यैर्बहुशो दृष्टकर्मभिः । लोकपालोपमैस्तात पालितं लोकविश्रुतम्
बहुभिः क्षत्रियैर्गुप्तं पृथिव्यां लोकसंमतैः । अस्मानभिगतैः कामात्सबलैः सपदानुगैः
महोदधिमिवापूर्णमापगाभिः समन्ततः । अपक्षपक्षिसंकाशै रथैर्नागैश्च संवृतम्
नानायोधजलं भीमं वाहनोर्मितरङ्गिणम्। क्षेपण्यसिगदाशक्तिशरप्राससामाकुलम्
ध्वजभूषणसंबाधं रत्नपट्टसुसंचितम् । परिधावद्भिरश्वैश्च वायुवेगविकम्पितम्
अपारमिव गर्जन्तं सागरप्रतिमं महत्। द्रोणभीष्मासिसंगप्तं गुप्तं च कृतवर्मणा
कृपदुःशासनाभ्यां च जयद्रथमुखैस्तथा । भगदत्तविकर्णाभ्यां द्रौणिसौबलबाह्लिकैः
गुप्तं प्रवीरैर्लौकैश्च सारवद्भिर्महात्मभिः । यदहन्यत सैन्यं मे दिष्टमत्र परायणम्
नैतादृशं समुद्योगं दृष्टवन्तो हि मानुषाः । ऋषयो वा महाभागाः पुराणा भुवि सञ्जय
ईदृशोऽपि बलौघस्तु संयुक्तः शस्त्रसंपदा । वध्यते यत्र संग्रामे किमन्यद्भागधेयतः
विपरीतमिदं सर्वं प्रतिभाति हि सञ्जय । यत्रेदृशं बलं घोरं नावधीद्युधि पाण्डवान्
पाण्डवार्थाय नियतं देवास्तत्र समागताः । युध्यन्ते मामकं सैन्यं यथाऽवध्यत सञ्जय
उक्तोऽपि विदुरेणाहं हितं पथ्यं च नित्यशः । न च जग्राह तन्मन्दः पुत्रो दुर्योधनो मम
तथ्यां मन्ये मतिं तस्य सर्वज्ञस्य महात्मनः । आसीत्तथाऽऽगतं तात येन दृष्टमिदं पुरा
अथवा भाव्यमेवं हि संजयैतेन सर्वथा । पुरा धात्रा यथा दिष्टं तत्तथा न तदन्यथा
आत्मदोषात्त्वया राजन्प्राप्तं व्यसनमीदृशम् । न हि दुर्योधनस्तानि पश्यते भरतर्षभ
यानि त्वं पश्यसे राजन्धर्मसंकरकारणात्। तव दोषात्पुरा वृत्तं द्यूतमेतद्विशांपते
तव दोषेण युद्दं च प्रवृत्तं सह पाण्डवैः । त्वमेवाद्य फलं भुङ्क्ष्व कृत्वा किल्बिषमात्मना
आत्मना हि कृतं कर्म आत्मनैवोपभुज्यते। इह वा प्रेत्य वा राजंस्त्वया प्राप्तं यथातथम्
तस्माद्राजन्स्थिरो भूत्वा प्राप्येदं व्यसनं महत्। शृणु युद्धं यथा वृत्तं शंसतो मे नराधिप
भीमसेनः सुनिशितैर्बाणैर्भित्त्वा महाचमूम् । आससाद ततो वीरः सर्वान्दुर्योधनानुजान्
दुःशासनं दुर्विषहं दुःसहं दुर्मदं जयम्। जयत्सेनं विकर्णं च चित्रसेनं सुदर्शनम्
चारुचित्रं सुवर्माणं दुष्कर्णं कर्णमेव च । एतांश्चान्यांश्च सुबहून्समीपस्थान्महारथान्
धार्तराष्ट्रान्सुसंक्रुद्धान्दृष्ट्वा भीमो महारथः । भीष्मेण समरे गुप्तां प्रविवेश महाचमूम्
अथालोक्य प्रविष्टं तमूचुस्ते सर्व एव तु । जीवग्राहं निगृह्णीमो वयमेनं नराधिपाः
स तैः परिवृतः पार्थो भ्रातृभिः कृतनिश्चयैः । प्रजासंहरणे सूर्यः क्रूरैरिव महाग्रहैः