व्यूढं दृष्ट्वा तु तत्सैन्यं पिता देवव्रतस्तव । कौञ्चेन महता राजन्प्रत्यव्यूहत वाहिनीम्
तस्य तुण्डे महेष्वासो भारद्वाजो व्यरोचत। अश्वत्थामा कृपश्चैव चक्षुरास्तां जनेश्वर
कृतवर्मा तु सहितः काम्भोजैरथ बाह्लिकैः । शिरस्यासीन्नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम्
ग्रीवायां शूरसेनश्च तव पुत्रश्च मारिष । दुर्योधनो महाराज राजभिर्बहुभिर्वृतः
प्राग्जोतिषस्तु सहितो मद्रसौवीरकेकयैः । उरस्यभून्नरश्रेष्ठ महत्या सेनया वृतः
पृष्ठे चास्तां महेष्वासावावन्त्यौ सपदानुगौः । स्वसेनया च सहितः शुशर्मा प्रस्थलाधिपः । वामं पक्षं समाश्रित्य दंशितः समवस्थितः
तुषारा यवनाश्चैव शकाश्च सह चूचुपैः । दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्त भारत
श्रुतायुश्च शातायुश्च सौमदत्तिश्च मारिष । व्यूहस्य जघने तस्थू रक्षमाणाः परस्परम्
ततो युद्धाय संजग्मुः पाण्डवाः कौरवैः सह। सूर्योदये महाराज प्रावर्तत जनक्षयः
प्रतीयू रथिनो नामान्नागाश्च रथिनो ययुः । हयारोहान्रथारोहा रथिनश्चापि सादिनः
सादिनश्च हयान्राजन्रथिनश्च महारणे । हस्त्यारोहान्हयारोहा रथिनः सादिनस्तथा
रथिनः पत्तिभिः सार्धं सादिनश्चापि पत्तिभिः । अन्योन्यं समरे राजन्प्रत्यधावन्नमर्षिताः
भीमसेनार्जुनयमैर्गुप्ता चान्यैर्महारथैः । शुशुभे पाण्डवी सेना नक्षत्रैरिव शर्वरी
तथा भीष्मकृपद्रोणशल्यदुर्योधनादिभिः । तवापि च बभौ सेना ग्रहैर्द्यौरिव संवृताः
भीमसेनस्तु कौन्तेयो द्रोणं दृष्ट्वा पराक्रमी । अभ्ययाञ्जवनैरश्वैर्भारद्वाजस्य वाहिनीम्
द्रोणास्तु समरे क्रुद्धो भीमं नवभिरायसैः । विव्याध समरश्लाघी मर्माण्युद्दिष्य वीर्यवान्
दृढाहतस्तो भीमो भारद्वाजस्य संयुगे। सारथिं प्रेषयामास यमस्य सदनं प्रति
स संगृह्य स्कवयं वाहान्भारद्वाजः प्रतापवान् । व्यधमत्पाण्डवीं सेनां तूलराशिमिवानलः
ते वद्यमाना द्रोणेन भीष्मेण च नरोत्तमाः । सृञ्जयाः तावकं सैन्यं भीमार्जुनपरिक्षतम्
तथैव तावकं सैन्यं भीमार्जुनपरिक्षतम्। मुह्यते तत्रतत्रैव समदेव वराङ्गना
अभिद्येतां ततो व्यूहौ तस्मिन्वीरवरक्षये। आसीद्व्यतिकरो घोरस्तव तेषां च भारत
तदद्भुतमपश्याम तावकानां परैः सह । एकायनगताः सर्वे यदयुध्यन्त भारत
प्रतिसंवार्य चास्त्राणि तेऽन्योन्यस्य विशांपते । युयुधुः पाण्डवाश्चैव कौरवाश्च महाबलाः
एवं बहुगुणं सैन्यमेवं बहुविधं परम्। व्यूढमेवं यथाशास्त्रममोघं चैव सञ्जय
जुष्टमस्माकमत्यन्तमभिकामं च नः सदा । प्रहृष्टं व्यसनोपेतं पुरस्ताद्दृष्टविक्रमम्
नातिवृद्धमबालं च न कृशं न च पीवरम् । लघुवृत्तायतप्रायं सागराकारमव्ययम्
आत्तसन्नाहशस्त्रं च बहुशस्त्रपरिग्रहम् । असियुद्धे नियुद्धे च गदायुद्धे च कोविदम्
प्रासर्ष्टितोमरेष्वाजौ परिघेष्वायसेषु च । भिण्डिपालेषु शक्तीषु मुसलेषु च सर्वशः
कम्पनेषु च चापेषु कणपेषु च सर्वशः । क्षेणणीयेषु चित्रेषु मुष्टयुद्धेषु च क्षमम्
अपरोक्षं च विद्यासु व्यायामे च कृतश्रमम् । शस्त्रग्रहणविद्यासु सर्वासु परिनिष्ठितम्