लोहितायति चादित्ये त्वरमाणो धनञ्जयः । पञ्चविंशतिसाहस्रान्निजघान महारथान्
ते हि दुर्योधनादिष्टास्तदा पार्थनिबर्हणे । संप्राप्यैव गता नाशं शलभा इव पावकम्
ततो मत्स्याः केकयाश्च धनुर्वेदविशारदाः । परिवव्रुस्तदा पार्थं सहपुत्रं महारथम्
एवस्मिन्नेव काले तु सूर्येऽस्तमुपगच्छति। सर्वेषां चैव सैन्यानां प्रमोहः समजायत
अवहारं ततश्चक्रे पिता देवव्रतस्तव । संध्याकाले महाराज सैन्यानां श्रान्तवाहनः
पाण्डवानां कुरूणां च परस्परसमागमे। ते सेने भृशसंविग्ने ययतुः स्वं निवेशनम्
ततः स्वशिबिरं गत्वा न्यविशंस्तत्र भारत। पाण्डवाः सृञ्जयैः सार्धं कुरवश्च यथाविधिः
विहृत्य तु ततो राजन्सहिताः कुरुपाण्डवाः । व्यतीतायां तु शर्वर्यां पुनर्युद्धाय निर्ययुः
ततः शब्दो महानासीत्तव तेषां च भारत । युज्यतां रथमुख्यानां कल्प्यतां चैव दन्तिनाम्
संनह्यतां पदातीनां हयानां चैव भारत। शङ्खदुन्दुभिनादश्च तुमुलः सर्वतोऽभवत्
ततो युधिष्ठिरो राजा धृष्टद्युम्नमभाषत। व्यूहं व्यूहस्व पाञ्चाल मकरं शत्रुनाशनम्
एवमुक्तस्तु पार्थेन धृष्टद्युम्नो महारथः। व्यादिदेश यथान्यायं रथिनो रथिनां वरः
शिरोऽभूद्द्रुपदस्तस्य पाण्डवश्च धनञ्जयः। चक्षुषी सहदेवश्च नकुलश्च महारथः
तुण्डमासीन्महाराज भीमसेनो महाबलः । सौभद्रो द्रौपदेयाश्च राक्षसश्च घटोत्कचः
सात्यकिर्धर्मराजश्च व्यूहग्रीवां समास्थिताः । पृष्ठमासीन्महाराज विराटो वाहिनीपतिः ।। ृष्टद्युम्नो महाराज महत्या सेनया वृतः । केकया भ्रातरः पञ्च वामपार्श्वं समाश्रिताः
धृष्टकेतुर्नरव्याघ्रश्चेकितानश्च वीर्यवान्। दक्षिणं पक्षमाश्रित्य स्थितौ व्यूहस्य रक्षणे
पादयोस्तु महाराज स्थितः श्रीमान्महारथः। कुन्तिभोजः शतानीको महत्या सेनया वृतः
शिखण्डी तु महेष्वासः सोमकैः संवृतो बली । इरावांश्च ततः पुच्छे मकरस्य व्यवस्थितौ
एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः । सूर्योदये महाराज पुनर्युद्धाय दंशिताःक
कौरवानभ्ययुस्तूर्णं हस्त्यश्वरथपत्तिभिः । समुच्छ्रितैर्ध्वजैश्छत्रैः शस्त्रैश्च विमलैः शितैः
व्यूढं दृष्ट्वा तु तत्सैन्यं पिता देवव्रतस्तव । कौञ्चेन महता राजन्प्रत्यव्यूहत वाहिनीम्
तस्य तुण्डे महेष्वासो भारद्वाजो व्यरोचत। अश्वत्थामा कृपश्चैव चक्षुरास्तां जनेश्वर
कृतवर्मा तु सहितः काम्भोजैरथ बाह्लिकैः । शिरस्यासीन्नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम्
ग्रीवायां शूरसेनश्च तव पुत्रश्च मारिष । दुर्योधनो महाराज राजभिर्बहुभिर्वृतः
प्राग्जोतिषस्तु सहितो मद्रसौवीरकेकयैः । उरस्यभून्नरश्रेष्ठ महत्या सेनया वृतः
पृष्ठे चास्तां महेष्वासावावन्त्यौ सपदानुगौः । स्वसेनया च सहितः शुशर्मा प्रस्थलाधिपः । वामं पक्षं समाश्रित्य दंशितः समवस्थितः
तुषारा यवनाश्चैव शकाश्च सह चूचुपैः । दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्त भारत
श्रुतायुश्च शातायुश्च सौमदत्तिश्च मारिष । व्यूहस्य जघने तस्थू रक्षमाणाः परस्परम्
ततो युद्धाय संजग्मुः पाण्डवाः कौरवैः सह। सूर्योदये महाराज प्रावर्तत जनक्षयः
प्रतीयू रथिनो नामान्नागाश्च रथिनो ययुः । हयारोहान्रथारोहा रथिनश्चापि सादिनः