क्षिपतश्च परांस्तस्य रणे शत्रून्विनिघ्नतः। ददृशे रूपमत्यर्थं मेघस्येव प्रवर्षतः
तमुदीर्यन्तमालोक्य राजा दुर्योधस्ततः । रथानामयुतं तस्य प्रेषयामास भारत
तांस्तु सर्वान्महेष्वासान्सात्यकिः सत्यविक्रमः । जघान परमेष्वासो दिव्येनास्त्रेण वीर्यवान्
स कृत्कवा दारुणं कर्म प्रगृहीतशरासनः। आससाद ततो वीरो भूरिश्रवसमाहवे
स हि संदृश्य सेनां ते युयुधानेन पातिताम् । अभ्यधावत संक्रुद्धः कुरूणां कीर्तिवर्धनः
इन्द्रायुधसवर्णं तु विस्फार्य सुमहद्धनुः । सृष्टवान्वज्रसंकाशाञ्शरानाशीविषोपमान्
सहस्रशो माहाराज दर्शयन्पाणिलाघवम् । शरांस्तान्मृत्युसंस्पर्शान्सात्यकेश्च पदानुगाः
न विषेहुस्तदा राजन्दुद्रुवुस्ते समन्ततः । विहाय सात्यकिं राजन्समरे युद्धदुर्मदम्
तं दृष्ट्वा युयुधानस्य सुता दश महाबलाः । महारथाःक समाख्याताश्चित्रवर्मायुधध्वजाः
समासाद्य महेष्वासं भूरिश्रवसमाहवे। ऊचुः सर्वे सुसंरब्धा यूपकेतुं महारणे
भोभो कौरवादायाद सहास्माभिर्महाबल । एहि युध्यस्व संग्रामे समस्तैः पृथगेव वा
अस्मान्वा त्वं पराजित्य यशः प्राप्नुहि संयुगे। वयं वा त्वां पराजित्य प्रीतिं धास्यामहे पितुः
एवमुक्तस्तदा शूरैस्तानुवाच महाबलः । वीर्यश्लाघी नरश्रेष्ठस्तान्दृष्ट्वा समवस्थितान्
साध्विदं कथ्यते वीरा यंद्येवं मतिरद्य वः। युध्यध्वं सहिता यत्ता निहनिष्यामि वो रणे
एवमुक्ता महेष्वासास्ते वीराः क्षिप्रकारिणः । महता शरवर्षेण अभ्यधावन्नरिन्दमम्
सोऽपराह्णे महाराज संग्रामस्तुमुलोऽभवत्। एकस्य च बहूनां च समेतानां रणाजिरे
तमेकं रथिनां श्रेष्ठं शरैस्ते समवाकिरन् । प्रावृषीव यथा मेरुं सिषिचुर्जलदा नृप
तैस्तु मुक्ताञ्शरान्घोरान्यमदण्डाशनिप्रभान् । असंप्राप्तानसंभ्राकन्तिश्चिच्छेदाशु महारथः
तत्राद्भुतमपश्याम सौमदत्तेः पराक्रमम् । यदेको बहुबिर्युद्धे समसञ्जदभीतवत्
विसृज्य शरवृष्टिं तां दश राजन्महारथाः । परिवार्य महाबाहुं निहन्तुमुपचक्रमुः
समदत्तिस्ततः क्रुद्धस्तेषां चापानि भारत । चिच्छेद समरे राजन्युध्यमानो महारथैः
अथैषां छिन्नधनुषां शरैः सन्नतपर्वभिः । चिच्छेद समरे राजञ्शिरांसि भरतर्षभ
ते हता न्यपतन्राजन्वज्रभग्ना इव द्रुमाः । तान्दृष्ट्वा निहतान्वीरो रणे पुत्रान्महाबलान्
वार्ष्णेयो विनदराजन्भूरिश्रवसमभ्ययात्। रथं रथेन समरे पीडयित्वा महाबलौ
तावन्योन्यं हि समरे निहत्य रथवाजिनः । विरथावभिवल्गन्तौ समेयातां महारथौ
प्रगृहीतमहाखङ्गौ तौ चर्मवरधारिणौ । शुशुभाते नरव्याघ्रौ युद्धाय समवस्थितौ
असह्यमसियुद्धाय भूरिश्रवसमाहवे। मत्वा वृकोदरस्तूर्णमभिप्लुत्य महारथः
ततः सात्यकिमभ्येत्य निस्त्रिंशवरधारिणम् । भीमसेनस्त्वरन्राजन्रथमारोपयत्तदा
तवापि तनयो राजन्भूरिश्रवसमाहवे। आरोपयद्रथं तूर्णं पश्यतां सर्वधन्विनाम्
तस्मिस्तथा वर्तमाने रणे भीष्मं महारथम्। अयोधयन्त संरब्धाः पाण्डवा भरतर्षभ