दुर्योधनस्तु दशभिर्गार्ध्रपत्रैः शिलाशितैः । भीमसेनं महेष्वासं रुक्मपुङ्खैः समार्पयत्
भीमसेनः सुसंक्रुद्धः परासुकरणं दृढम् । चित्रं कार्मुकमादत्त शरांश्च निशितान्दश
आकर्णप्रहितैस्तीक्ष्णैर्वेगवद्भिरजिह्मगैः। अविध्यत्तूर्णमव्यग्रः कुरुराजं महोरसि
तस्य काञ्चनसूत्रस्थः शरैः संछादितो मणिः। रराजोरसि खे सूर्यो ग्रहैरिव समावृतः
पुत्रस्तु तव तेजस्वी भीमसेनेन ताडित। नामृष्यत यथा नागस्तलशब्दं मदोत्कटः
ततः शरैर्महाराज रुक्मपुङ्खैः शिलाशितैः । भीमं विव्याध संक्रुद्धस्त्रासयानो वरूथिनीम्
तौ युध्यमानौ समरे भृशमन्योन्यविक्षतौ । पुत्रौ ते देवसंकाशौ व्यरोचेतां महाबलौ
चित्रसेनं नरव्याघ्रं सौभद्रः परवीरहा। अविध्यद्दशभिर्बाणैः पुरुमित्रं च सप्तभिः
सत्यव्रतं च सप्तत्या विद्ध्वा शक्रसमो युधि। नृत्यन्निव रणे वीर आर्तिं नः समजीजनत्
तं प्रत्यविध्यद्दशभिश्चित्रसेनः शिलीमुखैः । सत्यव्रतश्च नवभिः पुरुमित्रश्च सप्तभिः
स विद्धो विक्षरन्रक्तं शत्रुसंवारणं महत्। चिच्छेद चित्रसेनस्य चित्रं कार्मुकमार्जुनिः
भित्त्वा चास्य तनुत्राणं शरेणोरस्यताडयत् । ततस्ते तावका वीरा राजपुत्रा महारथाः
समेत्य युधि संरब्धा विव्यधुर्निशितैः शरैः। तांश्च सर्वाञ्शरैस्तीक्ष्णैर्जघान परमास्त्रवित्
तस्य दृष्ट्वा तु तत्कर्म परिवव्रुः सुतास्तव। दहन्तं समरे सैन्यं वने कक्षं यथोल्बणम्
अपेतशिशिरे काले समिद्धमिव पावकम् । अत्यरोचत सौभद्रस्तव सैन्यानि नाशयन्
तत्तस्य चरितं दृष्ट्वा पौत्रस्तव विशांपते । लक्ष्मणोऽभ्यपतत्तूर्णं सात्तीपुत्रमाहवे
अभिमन्युस्तु संक्रुद्धो लक्ष्मणं शुभलक्षणम् । विव्याध निशितैः षङभिः सारथिं च त्रिभिः शरैः
तथैव लक्ष्मणो राजन्सौभद्रं निशितैः शरैः। अविध्यत महाराज तदद्भुतमिवाभवत्
तस्याश्वांश्चतुरो हत्वा सारथिं च महाबलः । अभ्यद्रवत सौभद्रो लक्ष्मणं निशितैः शरैः
हताश्वे तु रथे तिष्ठँल्लक्ष्मणः परवीरहा । शक्तिं चिक्षेप संक्रुद्धः सौभद्रस्य रथं प्रति
तामापतन्तीं सहसा घोररूपां दुरासदाम्। अभिमन्युः शरैस्तीक्ष्णैश्चिच्छेद भुजगोपमाम्
ततः स्वरथमारोप्य लक्ष्मणं गौतमस्तदा। अपोवाह रथेनाजौ सर्वसैन्यस्य पश्यतः
ततः समाकुले तस्मिन्वर्तमाने महाभये । अभ्यद्रवञ्जिघांसन्तः परस्परवधैषिणः
तावकाश्च महेष्वासाः पाण्डवाश्च महारथाः । जुह्वन्तः समरे प्राणान्निजघ्नुरितरेतरम्
मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः । बाहुभइः समयुध्यन्त सृञ्जयाः कुरुभिः सह
ततो भीष्मो महाबाहुः पाण्डवानां महात्मनाम् । सेनां जघान संक्रुद्धो दिव्यैरस्त्रैर्महाबलः
हतेश्वरैर्गजैस्तत्र नरैरश्वैश्च पातितैः । रथिभिः सादिभिश्चैव समास्तीर्यत मेदिनी
अथ राजन्महाबाहुः सात्यकिर्युद्धदुर्मदः। विकृष्य चापं समरे भारसाहमनुत्तमम्
यत्तत्सख्युस्तु पूर्वेण अर्जुनादुपशिक्षितम् । प्रगाढं लघु चित्रं च दर्शयन्हस्तलाघवम्। प्रामुञ्चत्पुङ्खसंयुक्ताञ्शरानाशीविषोपमान्
तस्य विक्षिपतस्छापं शरानन्यांश्च मुञ्चतः। आददानस्य भूयश्च संदधानस्य चापरान्