इत्यासीत्तुमुलः शब्दो युयुधानरथं प्रति । एतस्मिन्नेव काले तु भीष्मः शान्तनवस्तदा
न्यहनत्पाण्डवीं सेनामासुरीमिव वृत्राहा । ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह । स्थिरां युद्धे मतिं कृत्वा भीष्ममेवाभिदुद्रुवुः
धृष्टद्युम्नमुखाश्चापि पार्थाः शान्तनवं रणे। अभ्यधावञ्जिगीषन्तस्तव पुत्रस्य वाहिनीम्
तथैव कौरवा राजन्भीष्मद्रोणपुरोगमाः। अभ्यधावन्त वेगेन ततो युद्धमवर्तत
विराटोऽय त्रिभिर्बाणैर्भीष्ममार्च्छन्महारथम् । विव्याध तुरमांत्रास्य त्रिभिर्बाणैर्महारथः
तं प्रत्यविध्यद्दशभिर्भीष्मः शान्तनवः शरैः। रुक्मपुङ्खैर्महेष्वासः कृतहस्तो महाबलः
द्रौणिर्गाण्डीवधन्वानं भीमधन्वा महारथः । अविध्यदिषुभिः षङ्भिर्दृढहस्तः स्तनान्तरे
कार्मुकं तस्य चिच्छेद फल्गुनः परवीरहा । अविध्यच्च भृशं तीक्ष्णैः पत्रिभिः शत्रुकर्शनः
सोऽन्यत्कार्मुकमादाय वेगवान्क्रोधमूर्च्छितः। अमृष्यमाणः पार्थेन कार्मुकच्छेदमाहवे
अविध्यत्फल्गुनं राजन्नवत्या निशितैः शरैः । वासुदेवं च सप्तत्या विव्याध परमेषुभिः
ततः क्रोधाभिताम्राक्षः कृष्णेन सह फल्गुनः । दीर्घमुष्णं च निःश्वस्य चिन्तयित्वा पुनःपुनः
धनुः प्रपीड्य वामेन करेणामित्रकर्शनः । गाण्डीवधन्वा संक्रुद्धः शितान्सन्नतपर्वणः
जीवितान्तकरान्घोरान्समादत्त शिलीमुखान्। तैस्तूर्णं समरेऽविध्यद्रौणिं बलवतां वरः
तस्य ते कवचं भित्त्वा पपुः शोणितमाहवे। न विव्यथे च निर्भिन्नो द्रौणिर्गाण्डीवधन्वना
तथैव च शरान्द्रौणिः प्रविमुञ्चन्नविह्वलः । तस्थौ च समरे राजंस्त्रातुमिच्छन्महाव्रतम्
तस्य तत्सुमहत्कर्म शशंसुः कुरुसत्तमाः । यत्कृष्णाभ्यां समेताभ्यामभ्यापतत संयुगे
स हि नित्यमनीकेषु युध्यतेऽभयमास्तितः। अस्त्रग्रामं ससंहारं द्रोणात्प्राप्य सुदुर्लभम्
ममैष आचार्यसुतो द्रोणस्यापि प्रियः सुतः । ब्राह्मणश्च विशेषेण माननीयो ममेति च
समास्थआय मतिं वीरो बीभत्सुः सत्रुतापनः । कृपां चक्रे रथश्रेष्ठो भारद्वाजसुतं प्रति
द्रौणिं त्यक्त्वा ततो युद्धे कौन्तेयः श्वेतवाहनः। युयुधे तावकान्निघ्नंस्त्वरमाणः पराक्रमी
दुर्योधनस्तु दशभिर्गार्ध्रपत्रैः शिलाशितैः । भीमसेनं महेष्वासं रुक्मपुङ्खैः समार्पयत्
भीमसेनः सुसंक्रुद्धः परासुकरणं दृढम् । चित्रं कार्मुकमादत्त शरांश्च निशितान्दश
आकर्णप्रहितैस्तीक्ष्णैर्वेगवद्भिरजिह्मगैः। अविध्यत्तूर्णमव्यग्रः कुरुराजं महोरसि
तस्य काञ्चनसूत्रस्थः शरैः संछादितो मणिः। रराजोरसि खे सूर्यो ग्रहैरिव समावृतः
पुत्रस्तु तव तेजस्वी भीमसेनेन ताडित। नामृष्यत यथा नागस्तलशब्दं मदोत्कटः
ततः शरैर्महाराज रुक्मपुङ्खैः शिलाशितैः । भीमं विव्याध संक्रुद्धस्त्रासयानो वरूथिनीम्
तौ युध्यमानौ समरे भृशमन्योन्यविक्षतौ । पुत्रौ ते देवसंकाशौ व्यरोचेतां महाबलौ
चित्रसेनं नरव्याघ्रं सौभद्रः परवीरहा। अविध्यद्दशभिर्बाणैः पुरुमित्रं च सप्तभिः
सत्यव्रतं च सप्तत्या विद्ध्वा शक्रसमो युधि। नृत्यन्निव रणे वीर आर्तिं नः समजीजनत्
तं प्रत्यविध्यद्दशभिश्चित्रसेनः शिलीमुखैः । सत्यव्रतश्च नवभिः पुरुमित्रश्च सप्तभिः