मध्यंदिनगते सूर्ये नभस्याकुलतां गते । कुरवः पाण्डवेयाश्च निजघ्नुरितरेतरम्
ध्वजिनो हेमचित्राङ्गा विचरन्तो रणाजिरे । सपताका रथा रेजुर्वैयाघ्रपरिवारणाः
समेतानां च समरे जिगीषूणां परस्परम् । बभूव तुमुलः शब्दः सिंहानामिव नर्दताम्
तत्राद्भुतमपश्यास संप्रहारं सुदारुणम्। यदकुर्वन्रणे शूराः सृञ्जयाः कुरुभिः सह
नैव खं न दिशो राजन्न सूर्यं शत्रुतापन। विदिशो वापि पश्यामः शरैर्मुक्तैः समन्ततः
शक्तीनां विमलाग्राणां तोमराणां तथास्यताम् । निस्त्रिंशानां च पीतानां नीलोत्पलनिभाः प्रभाः
कवचानां विचित्राणां भूषणानां प्रभास्तथा । खं दिशः प्रदिशश्चैव भासयामासुरोजसा
वपुर्भिश्च नरेन्द्राणां चन्द्रसूर्यसमप्रभैः । विरराज तदा राजंस्तत्रतत्र रणाङ्गणम्
रथसङ्घा नरव्याघ्राः समायान्तश्च संयुगे। विरेजुः समरे राजन्ग्रहा इव नभस्तले
भीष्मस्तु रथिनां श्रेष्ठो भीमसेनं महाबलम् । अवारयत संक्रुद्धः सर्वसैन्यस्य पश्यतः
ततो भीष्मविनिर्मुक्ता रुक्मपुङ्खाः शिलाशिताः। अभ्यङ्गन्तमरे भीमं तैलघौताः सुतेजनाः
तस्य शक्तिं महावेगं भीमसेनो महाबलः । क्रुद्धाशीविषसंकाशं प्रेषयामास भारत
तामापतन्तीं सहसा रुक्मदण्डं दुरासदाम्। चिच्छेद समरे भीष्मः शरैः सन्नतपर्वभिः
ततोऽपरेण भल्लेन पीतेन निशितेन च। कार्मुकं भीमसेनस्य द्विधा चिच्छेद भारत
अपास्य तु धनुश्छिन्नं भीमसेनो महाबलः । शरैर्बहुभिरानर्च्छद्भीष्मं शान्तनवं युधि
सात्यकिस्तु ततस्तूर्णं भीष्ममासाद्य संयुगे । आकर्णप्रहितैस्त्रीक्ष्णैर्निशितैस्तिग्मतेजनैः
शरैर्बहुभिरानर्च्छत्पितरं ते जनेश्वर । ततः संधाय वै तीक्ष्णं शरं परमदारुणम्
वार्ष्णेयस्य रथाद्भीष्मः पातयामास सारथिम्। तस्याश्वाः प्रद्रुता राजन्निहते रथसारथौ
तेन तेनैव धावन्ति मनोमारुतरंहसः। ततः सर्वस्य सैन्यस्य निःस्वनस्तुमुलोऽभवत्
हाहाकारश्च संजज्ञे पाण्डवानां महात्मनाम् । अभ्यद्रवत गृह्णीत हयान्यच्छत धावत
इत्यासीत्तुमुलः शब्दो युयुधानरथं प्रति । एतस्मिन्नेव काले तु भीष्मः शान्तनवस्तदा
न्यहनत्पाण्डवीं सेनामासुरीमिव वृत्राहा । ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह । स्थिरां युद्धे मतिं कृत्वा भीष्ममेवाभिदुद्रुवुः
धृष्टद्युम्नमुखाश्चापि पार्थाः शान्तनवं रणे। अभ्यधावञ्जिगीषन्तस्तव पुत्रस्य वाहिनीम्
तथैव कौरवा राजन्भीष्मद्रोणपुरोगमाः। अभ्यधावन्त वेगेन ततो युद्धमवर्तत
विराटोऽय त्रिभिर्बाणैर्भीष्ममार्च्छन्महारथम् । विव्याध तुरमांत्रास्य त्रिभिर्बाणैर्महारथः
तं प्रत्यविध्यद्दशभिर्भीष्मः शान्तनवः शरैः। रुक्मपुङ्खैर्महेष्वासः कृतहस्तो महाबलः
द्रौणिर्गाण्डीवधन्वानं भीमधन्वा महारथः । अविध्यदिषुभिः षङ्भिर्दृढहस्तः स्तनान्तरे
कार्मुकं तस्य चिच्छेद फल्गुनः परवीरहा । अविध्यच्च भृशं तीक्ष्णैः पत्रिभिः शत्रुकर्शनः
सोऽन्यत्कार्मुकमादाय वेगवान्क्रोधमूर्च्छितः। अमृष्यमाणः पार्थेन कार्मुकच्छेदमाहवे
अविध्यत्फल्गुनं राजन्नवत्या निशितैः शरैः । वासुदेवं च सप्तत्या विव्याध परमेषुभिः