द्रोणं कृपं विकर्णं च महेष्वासं महाबलम् । राज्ञश्चान्यान्रणे शूरान्बहूनार्च्छद्धनंजयः
सैन्धवं च महेष्वासं सामात्यं सह बन्धुभिः । प्राच्यांश्च दाक्षिणात्यांश्च भूमिपान्भूमिपर्षभ
पुत्रं च ते महेष्वासं दुर्योधनममर्षणम् । दुःसहं चैव समरे भीमसेनोऽभ्यवर्तत
सहदेवस्तु शकुनिमुलूकं च महारथम् । पितापुत्रौ महेष्वासावभ्यवर्तत दुर्जयौ
युधिष्ठिरो महाराज गजानीकं महारथः । समवर्तत संग्रामे पुत्रेण निकृतस्तव
माद्रीपुत्रस्तु नकुलः शूरसंक्रन्दनो युधि । त्रिगर्तानां बलैः सार्धं समसञ्जत पाण्डवः
अभ्यवर्तन्त संक्रुद्धाः समरे साल्वकेकयान्। सात्यकिश्चेकितानश्च सौभद्रश्च महारथः
धृष्टकेतुश्च समरे राक्षसश्च घटोत्कचः । नाकुलिश्च शतानीकः समरे रथपुङ्गवः । पुत्राणां ते रथानीकं प्रत्युद्याताः सुदुर्जयाः
सेनापतिरमेयात्मा धृष्टद्युम्नो महाबलः । द्रोणेन समरे राजन्समियायोग्रकर्मणा
एवमेते महेष्वासास्तावकाः पाण्डवैः सह । समेत्य समरे शूराः संप्राहारं प्रचक्रिरे
मध्यंदिनगते सूर्ये नभस्याकुलतां गते । कुरवः पाण्डवेयाश्च निजघ्नुरितरेतरम्
ध्वजिनो हेमचित्राङ्गा विचरन्तो रणाजिरे । सपताका रथा रेजुर्वैयाघ्रपरिवारणाः
समेतानां च समरे जिगीषूणां परस्परम् । बभूव तुमुलः शब्दः सिंहानामिव नर्दताम्
तत्राद्भुतमपश्यास संप्रहारं सुदारुणम्। यदकुर्वन्रणे शूराः सृञ्जयाः कुरुभिः सह
नैव खं न दिशो राजन्न सूर्यं शत्रुतापन। विदिशो वापि पश्यामः शरैर्मुक्तैः समन्ततः
शक्तीनां विमलाग्राणां तोमराणां तथास्यताम् । निस्त्रिंशानां च पीतानां नीलोत्पलनिभाः प्रभाः
कवचानां विचित्राणां भूषणानां प्रभास्तथा । खं दिशः प्रदिशश्चैव भासयामासुरोजसा
वपुर्भिश्च नरेन्द्राणां चन्द्रसूर्यसमप्रभैः । विरराज तदा राजंस्तत्रतत्र रणाङ्गणम्
रथसङ्घा नरव्याघ्राः समायान्तश्च संयुगे। विरेजुः समरे राजन्ग्रहा इव नभस्तले
भीष्मस्तु रथिनां श्रेष्ठो भीमसेनं महाबलम् । अवारयत संक्रुद्धः सर्वसैन्यस्य पश्यतः
ततो भीष्मविनिर्मुक्ता रुक्मपुङ्खाः शिलाशिताः। अभ्यङ्गन्तमरे भीमं तैलघौताः सुतेजनाः
तस्य शक्तिं महावेगं भीमसेनो महाबलः । क्रुद्धाशीविषसंकाशं प्रेषयामास भारत
तामापतन्तीं सहसा रुक्मदण्डं दुरासदाम्। चिच्छेद समरे भीष्मः शरैः सन्नतपर्वभिः
ततोऽपरेण भल्लेन पीतेन निशितेन च। कार्मुकं भीमसेनस्य द्विधा चिच्छेद भारत
अपास्य तु धनुश्छिन्नं भीमसेनो महाबलः । शरैर्बहुभिरानर्च्छद्भीष्मं शान्तनवं युधि
सात्यकिस्तु ततस्तूर्णं भीष्ममासाद्य संयुगे । आकर्णप्रहितैस्त्रीक्ष्णैर्निशितैस्तिग्मतेजनैः
शरैर्बहुभिरानर्च्छत्पितरं ते जनेश्वर । ततः संधाय वै तीक्ष्णं शरं परमदारुणम्
वार्ष्णेयस्य रथाद्भीष्मः पातयामास सारथिम्। तस्याश्वाः प्रद्रुता राजन्निहते रथसारथौ
तेन तेनैव धावन्ति मनोमारुतरंहसः। ततः सर्वस्य सैन्यस्य निःस्वनस्तुमुलोऽभवत्
हाहाकारश्च संजज्ञे पाण्डवानां महात्मनाम् । अभ्यद्रवत गृह्णीत हयान्यच्छत धावत