हयारोहवराश्चैव तव पुत्रेण चोदिताः । चतुर्दशसहस्राणि सौबलं पर्यवारयन्
ततस्ते सहिताः सर्वे विभक्तरथवाहनाः । अर्जुनं समरे जघ्नुस्तावका भरतर्षभ
चेदिकाशिपदातैश्च रथैः पाञ्चालसृञ्जयैः । पाण्डवाः सहिताः सर्वे धृष्टद्युम्नपुरोगमाः। तावकान्समरे जघ्नुर्धर्मपुत्रेण चोदिताः
रथिभिर्वारणैरश्वैः पादातैश्च समीरितम् । घोरमायोधनं चक्रे महाभ्रसदृशं रजः
तोमरप्रासनाराचगजाश्वरथयोधिनाम् । बलेन महता भीष्मः समसञ्जत्किरीटिना
आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः । अजातशत्रुर्मद्राणामृषभेण यशश्विना
सहपुत्रः सहामात्यः शल्येन समसञ्जत। विकर्णः सहदेवेन चित्रसेनः शिखण्डिना
मत्स्या दुर्योधनं जग्मुः शंकुनिं न विशांपते। द्रुपदश्चेकितानश्च सात्यकिश्चक महारथः
द्रोणेन समसञ्जन्त सपुत्रेण महात्मना । कृपश्च कृतवर्मा च धृष्टद्युम्नमभिद्रुतौ
एवं प्रव्रजिताश्वानि भ्रान्तनागरथानि च। सैन्यानि समसञ्जन्त प्रयुद्धानि समन्ततः
निरभ्रे विद्युतस्तीव्रा दिशश्च रजसा वृताः । प्रादुरासन्महोत्काश्च सनिर्घाता विशांपते
प्रादुर्भूतो महावातः पांसुवर्षं पपात च । नभस्यन्तर्दधे सूर्यः सैन्येन सजसा वृतः
प्रमोहः सर्वसत्वानामतीव समपद्यत। रजसा चाभिभूतानामस्त्रजालैश्च तुद्यताम्
वीरबाहुविसृष्टानां सर्वावरणभेदिनाम् । संघातः शरजालानां तुमुलः समपद्यत
प्रकाशं चक्रुराकाशमुद्यतानि भुजोत्तमैः । नक्षत्रविमलाभानि शस्त्राणि भरतर्षभ
आर्षभाणि विचित्राणि रुक्मजालावृतानि च । संपेतुर्दिक्षु सर्वासु चर्माणि भरतर्षभ
सूर्यवर्णैश्च निस्त्रिंशैः पात्यमानानि सर्वशः । दिक्षु सर्वास्वदृश्यन्त शरीराणि शिरांसि च
भग्नचक्राक्षनीडाश्च निपातितमहाध्वजाः । हताश्वाः पृथिवीं जग्मुस्तत्रतत्र महारथाः
परिपेतुर्हयाश्चात्र केचिच्छस्त्रकृतव्रणाः । रथान्विपरिकर्षन्तो हतेषु रथयोधिषु
शराहता भिन्नदेहा बद्धयोक्रा हयोत्तमाः । युगानि पर्यकर्षन्त तत्रतत्र स्म भारत
अदृश्यन्त ससूताश्च साश्वाः सरथयोधिनः । एकेन बलिना राजन्वारणेन विमर्दिताः
गन्धहस्तिमदस्रावमाघ्राय बहवो रणे। सन्निपाते बलौघानां गजैर्ममृदिरे गजाः
सतोमरैर्महामात्रैर्निपतद्भिर्गतासुभिः । बभूवायोधनं छन्नं नाराचाभिहतैर्गजैः
सन्निपाते बलौघानां प्रेषितैर्वरवारणैः । निपेतुर्युधि संभग्नाः सयोधाः सध्वजा गजाः
नागराजोपमैर्हस्तैर्नागैराक्षिप्य संयुगे । व्यदृश्यन्त महाराज संभग्ना रथकूबराः
विशीर्णरथसङ्घाश्च केशेष्वाक्षिप्य दन्तिभिः । द्रुमशाखा इवाविध्य निष्पिष्टा रथिनो रणे
रथेषु च रथान्युद्धे संसक्तान्वरवारणाः । विकर्षन्तो दिशः सर्वाः संपेतुः सर्वशब्दगाः
तेषां तथा कर्षतां तु गजानां रूपमाबभौ । सरःसु नलिनीजालं विषक्तमिव कर्षताम्
एवं संछादितं तत्र बभूवायोधनं महत्। सादिभिश्च पदातैश्च सध्वजैश्च महारथैः
शिखण्डी सह मत्स्येन विराटेन विशांपते। भीष्ममाशु महेष्वासमाससाद सुदुर्जयम्