ऋते च गर्दभीक्षीरात्पयः पास्यति मे सुतः।' ऋतेपि त्वां च दुष्यन्त शैलराजावतंसिकाम्। चतुरन्तामिमामुर्वीं पुत्रो मे पालयिष्यति
शकुन्तले तव सुतश्चक्रवर्ती भविष्यति। एवमुक्तं महेन्द्रेण भविष्यति न चान्यथा
साक्षित्वे बहवो ह्युक्ता देवदूतादयो मया। न ब्रुवन्ति तथा सत्यमुताहो नानृतं किल
असाक्षिणी मन्दबाग्या गमिष्यामि यथागतम्
एतावदुक्त्वा वचनं प्रातिष्ठत शकुन्तला। `तस्याः क्रोधसमुत्थोग्निः सधूमो मूर्ध्न्यदृश्यत
संनियम्यात्मनोऽङ्गेषु ततः क्रोधाग्निमात्मजम्। प्रस्थितैवानवद्याङ्गी सह पुत्रेण वै वनम्
अथान्तरिक्षे दुष्यन्तं वागुवाचाशरीरिणी। ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्चाभिसंवृतम्
माता भस्त्रा पितुः पुत्रो यस्माज्जातः स एव सः। भरस्व पुत्रं दौष्यन्तिं सत्यमाह शकुन्तला
सर्वेभ्यो ह्यङ्गमङ्गेभ्यः साक्षादुत्पद्यते सुतः। आत्मा चैव सुतो नाम तेनैव तव पौरव
आहितं ह्यात्मनाऽऽत्मानं परिरक्ष इमं सुतम्। अनन्यां त्वं प्रतीक्षस्व मावमंस्थाः शकुन्तलाम्
स्त्रियः पवित्रमतुलमेतद्दुष्यन्त धर्मतः। मासि मासि रजो ह्यासां दुरितान्यपकर्षति
ततः सर्वाणि भूतानि व्याजह्रस्तं समन्ततः
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात्। त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला
पतिर्जायां प्रविशति स तस्यां जायते पुनः। अन्योन्यप्रकृतिर्ह्येषा मावमंस्थाः शकुन्तलाम्
जाया जनयते पुत्रमात्मनोऽङ्गाद्द्विधा कृतम्। तस्माद्भरस्व दुष्यन्त पुत्रं शाकुन्तलं नृप
सुभूतिरेषा न त्याज्या जीवितं जीवयात्मजम्। शाकुन्तलं महात्मानं दुष्यन्त भर पौरवम्
भर्तव्योऽयं त्वया यस्मादस्माकं वचनादपि। तस्माद्भवत्वयं नाम्ना भरतो नाम ते सुतः
भरताद्भारती कीर्तिर्येनेदं भारतं कुलम्। अपरे ये च पूर्वे च भारता इति तेऽभवन्
एवमुक्त्वा ततो देवा ऋषयश्च तपोधनाः। पतिव्रतेति संहृष्टाः पुष्पवृष्टिं ववर्षिरे
तच्छ्रुत्वा पौरवो वाक्यं व्याहृतं वे दिवौकसाम्। `सिंहासनात्समुत्थाय प्रणम्य च दिवौकसः
पुरोहितममात्यांश्च संप्रहृष्टोऽब्रवीदिदम्। शृण्वन्त्वेतद्भवन्तोऽपि देवदूतस्य भाषितम्
शृण्वन्तु देवतानां च महर्षीणां च भाषितम्'। अहमप्येवमेवैनं जानामि सुतमात्मजम्
यद्यहं वचनादस्या गृह्णीयामिममात्मजम्। भवेद्धि शङ्का लोकस्य नैवं शुद्धो भवेदयम्
तां विशोध्य तदा राजा देवैः सह महर्षिभिः। हृष्टः प्रमुदितश्चापि प्रतिजग्राह तं सुतम्
ततस्तस्य तदा राजा पितृकर्माणि सर्वशः। कारयामास मुदितः प्रीतिमानात्मजस्य ह। मूर्ध्नि चैनं समाघ्राय सस्नेहं परिषस्वजे
सभाज्यमानो विप्रैश्च स्तूयमानश्च बन्दिभिः। मुदं स परमां लेभे पुत्रस्पर्शनजां नृपः
स्वां चैव भार्यां धर्मज्ञः पूजयामास धर्मतः। अब्रवीच्चैव तां राजा सान्त्वपूर्वमिदं वचः
लोकस्यायं परोक्षस्तु संबन्धो नौ पुराऽभवत्। कृतो लोकसमक्षोऽद्य संबन्धो वै पुनः कृतः
तस्मादेतन्मया तस्य तन्निमित्तं प्रभाषितम्
शङ्केत वाऽयं लोकोऽथ स्त्रीभावान्मयि संगतम्। तस्मादेतन्मया चापि तच्छुद्ध्यर्थं विचारितम्