मौसलं पर्व चोद्दिष्टं ततो घोरं सुदारुणम्। महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः
हरिवंशस्ततः पर्व पुराणं खिलसंज्ञितम्। विष्णुपर्व शिशोश्चर्या विष्णोः कंसवधस्तथा
भविष्यं पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत्। एतत्पर्वशतं पूर्णं व्यासेनोक्तं महात्मना
यथावत्सूतपुत्रेण रौमहर्षणिना ततः। उक्तानि नैमिशारण्ये पर्वाण्यष्टादशैव तु
समासो भारतस्यायमत्रोक्तः पर्वसंग्रहः। पौष्यं पौलोममास्तीकमादिरंशावतारणम्
संभवो जतुवेश्माख्यं हिडिम्बबकयोर्वधः। तथा चैत्ररथं देव्याः पाञ्चाल्याश्च स्वयंवरः
क्षात्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम्। विदुरागमनं चैव राज्यलाभस्तथैव च
वनवासोऽर्जुनस्यापि सुभद्राहरणं ततः। हरणाहरणं चैव दहनं खाण्डवस्य च
पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः। आस्तीके सर्वनागानां गरुडस्य च संभवः
क्षीरोदमथं चैव जन्मोच्चैःश्रवसस्तथा। यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च
कथेयमभिनिर्वृत्ता भारतानां महात्मनाम्। विविधाः संभवा राज्ञामुक्ताः संभवपर्वणि
अन्येषां चैव शूराणामृषेर्द्वैपायनस्य च। अंशावतरणं चात्र देवानां परिकीर्तितम्
दैत्यानां दानवानां च यक्षाणां च महौजसाम्। नागानामथ सर्पाणां गन्धर्वाणां पतत्त्रिणाम्
अन्येषां चैव भूतानां विविधानां समुद्भवः। महर्षेराश्रमपदे कण्वस्य च तपस्विनः
शकुन्तलायां दुष्यन्ताद्भरतश्चापि जज्ञिवान्। यस्य लोकेषु नाम्नेदं प्रथितं भारतं कुलम्
वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम्। शन्तनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि
तेजोंशानां च संपातो भीष्मस्याप्यत्र संभवः। राज्यान्निवर्तनं तस्य ब्रह्मचर्यव्रते स्थितिः
प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च। हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः
विचित्रवीर्यस्य तथा राज्ये संप्रतिपादनम्। धर्मस्य नृषु संभूतिरणीमाण्डव्यशापजा
कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा। धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च संभवः
वारणावतयात्रा च मन्त्रो दुर्योधनस्य च। कूटस्य धार्तराष्ट्रेण प्रेषणं पाण्डवान्प्रति
हितोपदेशश्च पथि धर्मराजस्य धीमतः। विदुरेण कृतो यत्र हितार्थं म्लेच्छभाषया
विदुरस्य च वाक्येन सुरुङ्गोपक्रमक्रिया। निषाद्याः पञ्चपुत्रायाः सुप्ताया जतुवेश्मनि
पुरोचनस्य चात्रैव दहनं संप्रकीर्तितम्। पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम्
तत्रैव च हिडिम्बस्य वधो भीमान्महाबलात्। घटोत्कचस्य चोत्पत्तिंरत्रैव परिकीर्तिता
महर्षेर्दर्शनं चैव व्यासस्यामिततेजसः। तदाज्ञयैकचक्रायां ब्राह्मणस्य निवेशने
अज्ञातचर्यया वासो यत्र तेषां प्रकीर्तितः। बकस्य निधनं चैव नागराणां च विस्मयः
संभवश्चैव कृष्णाया धृष्टद्युम्नस्य चैव ह। ब्राह्मणात्समुपश्रुत्य व्यासवाक्यप्रचोदिताः
द्रौपदीं प्रार्थयन्तस्ते स्वयंवरदिदृक्षया। पञ्चालानभितो जग्मुर्यत्र कौतूहलान्विताः
अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा। सख्यं कृत्वा ततस्तेन तस्मादेव च शुश्रुवे