संरब्धानां च वीराणां धीराणाममितौजसाम् । धनुर्ज्यातलशब्देन न प्राज्ञायत किंचन
उत्थितेषु कबन्धेषु सर्वतः शोमितोदके। समरे पर्यधावन्त नृपा रिपुवधोद्यताः
शरशक्तिगदाभिस्ते खङ्गैश्चामिततेजसः । निजघ्नुः समरेऽन्योन्यं शूराः परिघबाहवः
बभ्रमुः कुञ्जराश्चात्र शरैर्विद्धा निरङ्कुशाः । अश्वाश्च पर्यधावन्त हतारोहा दिशो दश
उत्पत्य निपतन्त्यन्ये शरघातप्रपीडिताः। तावकानां परेषां च योधा भरतसत्तम
वाहानामुत्तमाङ्गानां कार्मुकाणां च भारत। गदानां परिघाणां च हस्तानां चोरुभिः सह
पादानां भूषणानां च केयूराणां च सङ्घशः। राशयस्तत्र दृश्यन्ते भीष्मभीमसमागमे
अश्वानां कुञ्जराणां च रथानां चानिवर्तिनाम् । सङ्घाताः स्म प्रदृश्यन्ते तत्रतत्र विशांपते
गदाभिरसिभिः प्रासैर्बाणैश्च नतपर्वभिः । जघ्नुः परस्पर तत्र क्षत्रियाः काल आगते
अपरे बाहुभिर्वीरा नियुद्धकुशला युधि। बहुधा समसञ्जन्त आयसैः परिघैरिव
मुष्टिभिर्जानुभिश्चैव तलैश्चैव विशांपते । अन्योन्यं जघ्रिरे वीरास्तावकाः पाण्डवैः सह
पतितैः पात्यमानैश्च विचेष्टद्भिश्च भूतले। घोरमायोधनं जज्ञे तत्रतत्र जनेश्वर
विरथा रथिनश्चात्र निस्त्रिंशवरधारिणःक । अन्योन्यमभिधावन्तः परस्परवधैषिणः
ततो दुर्योधनो राजा कलिङ्गैर्बहुभिर्वृतः। पुरस्कृत्य रणे भीष्मं पाण्डवानभ्यवर्तत
तथैव पाण्डवाः सर्वे परिवार्य वृकोदरम्। भीष्ममभ्यद्रवन्क्रुद्धास्ततो युद्धमवर्तत
दृष्ट्वा भीष्मेण संसक्तान्भ्रातॄनन्यांश्च पार्थिवान् । समभ्यधावद्गांङ्गेयमुद्यतास्त्रो धनञ्जयः
पाञ्चजन्यस्य निर्घोषं धनुषो गाण्डिवस्य च। ध्वजं च दृष्ट्वा पार्थस्य सर्वान्नो भयमाविशत्
सिंहलाङ्गूलमाकाशे ज्वलन्तमिव पर्वतम्। असञ्जमानं वृक्षेषु धूमकेतुमिवोत्थितम्
बहुवर्णं विचित्रं च दिव्यं वानरलक्षणम् । अपश्याम महाराज ध्वजं गाण्डीवधन्वनः
सुवर्णपृष्ठं गाण्डीवं रणे द्रक्ष्यामि भारत। विद्युतं मेघमध्यस्थां भ्राजमानामिवाम्बरे । ददृशुर्गाण्डिवं योधा रुक्मपृष्ठं महामृधे
आशुश्रुम भृशं चास्य शक्रस्येवाभिगर्जतः। सुघोरं तलयोः शब्दं निघ्नतस्तव वाहिनीम्
चण्डवातो यथा मेघः सविद्युत्स्तनयित्नुमान् । दिशः संप्लावयन्सर्वाः शरवर्षैः समन्ततः
समभ्यधावद्गाङ्गेयं भैरवास्त्रो धनञ्जयः । दिशं प्राचीं प्रतीचीं च न जानीमोऽस्त्रमोहिताः
कान्दिग्भूता श्रान्तपत्रा हताश्वा हतचेतसः। अन्योन्यमभिसंश्लिष्य योधास्ते भरतर्षभ
भीष्ममेवाभ्यलीयन्त सह सर्वैस्तवात्मजैः । तेषामार्तायनमभूद्भीष्मः शान्तनवो रणे
समुत्पतन्ति वित्रस्ता रथेभ्यो रथिनस्तथा । सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः
श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः । सर्वसैन्यानि भीतानि व्यवालीयन्त भारत
अथ काम्भोजैजरश्वैर्महद्भिः शीघ्रगामिभिः । गोपानां बहुसाहस्त्रैर्बालैर्गापायनैर्वृतः
मद्रसौवीरगान्धारैस्त्रैगर्तैश्च विशांपते । सर्वकालिङ्गमुख्यैश्च कलिङ्गाधिपतिर्वृतः
नानानरगणौघैश्च दुःशासनपुरःसरः । जयद्रथश्च नृपतिः सहितः सर्वराजभिः