शिखण्डिनं समासाद्य भरतानां पितामहः । अवर्जयत संग्रामं स्त्रीत्वं तस्यानुसंस्मरन्
ततो द्रोणो महाराज अभ्यद्रवत तं रणे। रक्षमाणस्तदा भीष्मं तव पुत्रेण चोदितः
शिखण्डी तु समासाद्य द्रोणं शस्त्रभृतां वरम्। अवर्जयत संत्रस्तो युगान्ताग्निमिवोल्बणम्
ततो बलेन महता पुत्रस्तव विशांपते । जुगोप भीष्ममासाद्य प्रार्थयानो महद्यशः
तथैव पाण्डवा राजन्पुरुस्कृत्य धनञ्जयम्। भीष्ममेवाभ्यवर्तन्त जये कृत्वा दृढां मतिम्
तद्युद्धमभवद्धोरं देवानां दानवैरिव। जयमाकाङ्क्षतां सङ्क्ष्ये यशश्च सुमहाद्भुतम्
अकरोत्तुमुलं युद्धं भीष्मः शान्तनवस्तदा। भीमसेनभयादिच्छन्पुत्रांस्तारयितुं तव
पूर्वाह्णे तन्महारौद्रं राज्ञां युद्धमवर्तत । कुरूणां पाण्डवानां च मुख्यशूरविनाशनम्
तस्मिन्नाकुलसंग्रामे वर्तमाने महाभये । अभवत्तुमुलः शब्दः संस्पृशन्गगनं महत्
नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः । भेरीशङ्खनिनादैश्च तुमुलं समपद्यत
युयुत्सवस्ते विक्रान्ता विजयाय महाबलाःक । अन्योन्यमभिगर्जन्तो गोष्ठिष्विव महर्षभाः
शिरासं पात्यमानानां समरे निशितैः शरैः। अश्यवृष्टिरिवाकाशे बभूव भरतर्षभ
कुण्डलोष्णीषधारीणि जातरूपोज्ज्वलानि च। पतितानि स्म दृश्यन्ते शिरांसि भरतर्षभ
विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः । सहस्ताभरणैश्चान्यैरभवच्छादिता मही
कवचोपहितैर्गात्रैर्हस्तैश्च समलङ्कृतैः । मुखैश्च चन्द्रसंकाशै रक्तान्तनयनैः शुभैः
गजवाजिमनुष्याणां सर्वगात्रैश्च भूपते । आसीत्सर्वा समास्तीर्णा मुहूर्तेन वसुंधराः
रजोमेघैश्च तुमुलैः शस्त्रविद्युत्प्रकाशिभिः । आयुधानां च निर्घोषः स्तनयित्नुसमोऽभवत्
स संप्रहारस्तुमुलःक कटुकः शोणितोदकः। प्रावर्तत कुरूणां च पाण्डवानां च भारत
तस्मिन्महाभये घोरे तुमुले रोमहर्षणे। ववृषुः शरवर्षाणि क्षत्रिया युद्धदुर्मदाः
आक्रोशन्कुञ्जरास्तत्र शरवर्षप्रतापिताः । तावकानां परेषां च संयुगे भरतर्षभ
संरब्धानां च वीराणां धीराणाममितौजसाम् । धनुर्ज्यातलशब्देन न प्राज्ञायत किंचन
उत्थितेषु कबन्धेषु सर्वतः शोमितोदके। समरे पर्यधावन्त नृपा रिपुवधोद्यताः
शरशक्तिगदाभिस्ते खङ्गैश्चामिततेजसः । निजघ्नुः समरेऽन्योन्यं शूराः परिघबाहवः
बभ्रमुः कुञ्जराश्चात्र शरैर्विद्धा निरङ्कुशाः । अश्वाश्च पर्यधावन्त हतारोहा दिशो दश
उत्पत्य निपतन्त्यन्ये शरघातप्रपीडिताः। तावकानां परेषां च योधा भरतसत्तम
वाहानामुत्तमाङ्गानां कार्मुकाणां च भारत। गदानां परिघाणां च हस्तानां चोरुभिः सह
पादानां भूषणानां च केयूराणां च सङ्घशः। राशयस्तत्र दृश्यन्ते भीष्मभीमसमागमे
अश्वानां कुञ्जराणां च रथानां चानिवर्तिनाम् । सङ्घाताः स्म प्रदृश्यन्ते तत्रतत्र विशांपते
गदाभिरसिभिः प्रासैर्बाणैश्च नतपर्वभिः । जघ्नुः परस्पर तत्र क्षत्रियाः काल आगते
अपरे बाहुभिर्वीरा नियुद्धकुशला युधि। बहुधा समसञ्जन्त आयसैः परिघैरिव