अरक्षन्मकरव्यूहं भीष्मो राजन्समन्ततः । तथैव पाण्डवा राजन्नरक्षन्व्यूहमात्मनः
अजातशत्रुः शत्रूणां मनांसि समकम्पयत्।' श्येनवद्व्यूह्य तं व्यूहं धौम्यस्य वचनात्स्वयम्
स हि तस्य सुविज्ञात अग्निचित्येषु भारत। मकरस्तु महाव्यूहस्तव पुत्रस्य धीमतः
स्वयं सर्वेण सैन्येन द्रोणेनानुमतस्तदा । यथाव्यूहं शान्तनवः सोऽन्ववर्तत तत्पुनः
स निर्ययौ महाराज पिता देवव्रतस्तव । महता रथवंशेन संवृतो रथिनां वरः
इतरेतरमन्वीयुर्यथाभागमवस्थिताः । रथिनः पत्तयश्चैव दन्तिनः सादिनस्तथा
तान्दृष्ट्वाऽभ्युद्यतान्सङ्ख्ये पाण्डवा हि यशस्विनः । श्येनव्यूहेन संव्यूह्य समनह्यन्त संयुगे
अशोभत मुखे तस्य भीमसेनो महाबलः । नेत्रे शिखण्डी दुर्धर्षो धृष्टद्युम्नश्च पार्षतः
शीर्षे तस्याभवद्वीरः सात्यकिः सत्यविक्रमः । विधुन्वन्गाण्डिवं पार्थो ग्रीवायामभवत्तदा
अक्षौहिण्या समं तत्र वामपक्षोऽभवत्तदा । महात्मा द्रुपदः श्रीमान्सह पुत्रेण संयुगे
दक्षिणश्चाभवत्पक्षः कैकेयोऽक्षौहिणीपतिः । पृष्ठतो द्रौपदेयाश्च सौभद्रश्चापि वीर्यवान्
पृष्ठे समभवच्छ्रीमान्स्वयं राजा युधिष्ठिरःक । भ्रातृभ्यां सहितो वीरो यमाभ्यां चारुविक्रमः
प्रविश्य तु रणे भीमो मकरं मुखतस्तदा। भीष्ममासाद्य संग्रामे च्छादयामास सायकैः
ततो भीष्मो महास्राणि पातयामास भारत। मोहयन्पाण्डुपुत्राणां व्यूढं सैन्यं महाहवे
संमुह्यति तदा सैन्ये त्वरमाणो धनंजयः । भीष्मं शरसहस्रेण विव्याध रणमूर्धनि
प्रतिसंवार्य चास्राणि भीष्ममुक्तानि संयुगे। स्वेनानीकेन हृष्टेन युद्धाय समुपस्थितः
ततो दुर्योधनो राजा भारज्वाजमभाषत । पूर्वं दृष्ट्वा वधं घोरं बलस्य बलिनां वरः
भ्रातॄणां च वधं युद्धे स्मरमाणो महारथः। आचार्यः सततं हि त्वं हितकामो ममानघ
वयं हि त्वां समाश्रित्य भीष्मं चैव पितामहम् । देवानपि रणे जेतुं प्रार्थयामो न संशयः
किमु पाण्डुसुताकन्युद्धे हीनवीर्यपराक्रमान् । स तथा कुरु भद्रं ते यथा वध्यन्ति पाण्डवाः
एवमुक्तस्ततो द्रोणस्तव पुत्रेण मारिष । तत्र संप्रेक्ष्य राजनं संक्रुद्ध इव निश्चसन्
बालिशस्त्वं न जानीषे पाण्डवानां पराक्रमम् । न शक्या हि यथा जेतुं पाण्डवा हि महाबलाः
यथाबलं यथावीर्यं कर्म कुर्यामहं हि ते। इत्युक्तवा ते सुतं राजन्नभ्यपद्यत वाहिनीम् । अभिनत्पाण्डवानीकं प्रेक्षमाणस्य सात्यकेः
सात्यकिस्तु ततो द्रौणं वारयामात भारत। तयोः प्रववृते युद्धं घोररूपं भयावहम्
शैनेयं तु रणे क्रुद्धो भारद्वाजः प्रतापावान्। अविध्यन्निशितैर्बाणैर्जत्रुदेशे हसन्निव
भीमसेनस्ततः क्रुद्धो भारद्वाजमविध्यत । संरक्षन्सात्यकिं राजन्द्रोणाच्छस्त्रभृतां वरात्
ततो द्रोणश्च भीष्मश्च तथा शल्यश्च मारिष। भीमसेनं रणे क्रुद्धाश्छादयांचक्रिरे शरैः
तत्राभिमन्युः संक्रुद्धो द्रौपदेयाश्च मारिष । विव्यधुर्निशितैर्बैणैः सर्वांस्तानुद्यतायुधान्
द्रोणभीष्मौ तु संक्रुद्धावापतन्तौ महाबलौ । प्रत्युद्ययौ शिखण्डी तु महेष्वासो महाहवे
प्रगृह्य बलवद्वीरो धनुर्जलदनिःश्वनम् । अभ्यवर्षच्छरैस्तूर्णं छादयानो दिवाकरम्