तमब्रवीन्महाराज भीष्मः शान्तनवः पुनः । माहात्म्यं ते श्रुतं राजन्केशवस्य महात्कमनः
नरस्य च यथातत्त्वं यन्मां त्वं पृच्छसे नृप। यदर्थं नृषु संभूतौ नरानारायणावृषी
अवध्यौ च यथा वीरौ संयुगेष्वपराजितौ । यथा च पाण्डवा राजन्नवध्या युधि कस्यचित्
प्रीतिमान्हि दृढं कृष्णः पाण्डवेषु यशस्विषु । तस्माद्ब्रवीमि राजेन्द्र शमो भवतु पाण्डवैः
पृथिवीं भुङ्क्ष्व सहितो भ्रातृभिर्बलिभिर्वशी । नरानारायणौ देवाववज्ञाय नशिष्यसि
एवमुक्त्वा तव पिता तूष्णीमासीद्विशांपते । व्यसर्जयच्च राजानं शयनं च विवेश ह
राजा च शिबिरं प्रायात्प्रणिपत्य महात्मने । शिश्ये च शयने शुभ्रे रात्रिं तां भरतर्षभ
व्युषितायां तु शर्वर्यामुदिते च दिवाकरे। उभे सेने महाराज युद्धायैव समीयतुः
अभ्यधावन्त संक्रुद्धाः परस्परजिगीषवः । ते सर्वे सहिता युद्धे समालोक्य परस्परम्
पाण्डवा धार्तराष्ट्राश्च राजन्दर्मन्त्रिते तव। व्यूहौ च व्यूह्य संरब्धाः संप्रहृष्टाः प्रहारिणः
अरक्षन्मकरव्यूहं भीष्मो राजन्समन्ततः । तथैव पाण्डवा राजन्नरक्षन्व्यूहमात्मनः
अजातशत्रुः शत्रूणां मनांसि समकम्पयत्।' श्येनवद्व्यूह्य तं व्यूहं धौम्यस्य वचनात्स्वयम्
स हि तस्य सुविज्ञात अग्निचित्येषु भारत। मकरस्तु महाव्यूहस्तव पुत्रस्य धीमतः
स्वयं सर्वेण सैन्येन द्रोणेनानुमतस्तदा । यथाव्यूहं शान्तनवः सोऽन्ववर्तत तत्पुनः
स निर्ययौ महाराज पिता देवव्रतस्तव । महता रथवंशेन संवृतो रथिनां वरः
इतरेतरमन्वीयुर्यथाभागमवस्थिताः । रथिनः पत्तयश्चैव दन्तिनः सादिनस्तथा
तान्दृष्ट्वाऽभ्युद्यतान्सङ्ख्ये पाण्डवा हि यशस्विनः । श्येनव्यूहेन संव्यूह्य समनह्यन्त संयुगे
अशोभत मुखे तस्य भीमसेनो महाबलः । नेत्रे शिखण्डी दुर्धर्षो धृष्टद्युम्नश्च पार्षतः
शीर्षे तस्याभवद्वीरः सात्यकिः सत्यविक्रमः । विधुन्वन्गाण्डिवं पार्थो ग्रीवायामभवत्तदा
अक्षौहिण्या समं तत्र वामपक्षोऽभवत्तदा । महात्मा द्रुपदः श्रीमान्सह पुत्रेण संयुगे
दक्षिणश्चाभवत्पक्षः कैकेयोऽक्षौहिणीपतिः । पृष्ठतो द्रौपदेयाश्च सौभद्रश्चापि वीर्यवान्
पृष्ठे समभवच्छ्रीमान्स्वयं राजा युधिष्ठिरःक । भ्रातृभ्यां सहितो वीरो यमाभ्यां चारुविक्रमः
प्रविश्य तु रणे भीमो मकरं मुखतस्तदा। भीष्ममासाद्य संग्रामे च्छादयामास सायकैः
ततो भीष्मो महास्राणि पातयामास भारत। मोहयन्पाण्डुपुत्राणां व्यूढं सैन्यं महाहवे
संमुह्यति तदा सैन्ये त्वरमाणो धनंजयः । भीष्मं शरसहस्रेण विव्याध रणमूर्धनि
प्रतिसंवार्य चास्राणि भीष्ममुक्तानि संयुगे। स्वेनानीकेन हृष्टेन युद्धाय समुपस्थितः
ततो दुर्योधनो राजा भारज्वाजमभाषत । पूर्वं दृष्ट्वा वधं घोरं बलस्य बलिनां वरः
भ्रातॄणां च वधं युद्धे स्मरमाणो महारथः। आचार्यः सततं हि त्वं हितकामो ममानघ
वयं हि त्वां समाश्रित्य भीष्मं चैव पितामहम् । देवानपि रणे जेतुं प्रार्थयामो न संशयः
किमु पाण्डुसुताकन्युद्धे हीनवीर्यपराक्रमान् । स तथा कुरु भद्रं ते यथा वध्यन्ति पाण्डवाः