वैश्यांश्चाप्यूरुतो राजञ्शूद्रान्पद्भ्यां तथैवच। तपसा नियतं देवं निधानं सर्वदेहिनाम्
ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च। योगभूतं परिचरन्केशवं महदाप्नुयात्
केशवः परमं तेजः सर्वलोकपितामहः । एवमार्हुर्हृषीकेशं मुनयो वै नराधिप
एवमेनं विजानीहि आचार्यं पितरं गुरुम् । कृष्णो यस्य प्रसीदेत लोकास्तेनाक्षया जिताः
यश्चैवैनं भयस्थाने केशवं शरणं व्रजेत् । सदा नरः पठंश्चेदं स्वस्तिमान्स सुखी भवेत्
ये च कृष्णं प्रपद्यन्ते ते न मुह्यन्ति मानवाः । भये महति मग्नांश्च पाति नित्यं जनार्दनःक
स तं युधिष्ठिरो ज्ञात्वा याथातथ्येन भारत। सर्वात्मना महात्मानं केशवं जगदीश्वरम्। प्रपन्नः शरणं राजन्योगानां प्रभुमीश्वरम्
स्तवं वै ब्रह्मसंयुक्तं शृणु कृष्णस्य भारत। ब्रह्मर्षिभिश्च देवैश्च यः पुरा कथितो भुवि
साध्यानामपि देवानां देवदेवेश्वरः प्रभुः । लोकभावनभावज्ञ इति त्वां नारदोऽब्रवीत्
भूतं भव्यं भविष्यच्च मार्कण्डेयोऽभ्युवाच ह। यज्ञं त्वां चैव यज्ञानां तपश्च तपसामपि
देवानामपि देवं च त्वामाह भगवान्भृगुः । पुराणां चैव परमं विष्णो रूपं तवेति च
वासुदेवो वसूनां त्वं शक्रं स्थापयिता तथा। देवदेवोऽसि देवानामिति द्वैपायनोऽब्रवीत्
पूर्वे प्रजानिसर्गे च दक्षमाहुः प्रजापतिम्। स्रष्टारं सर्वभूतानामङ्गिरास्त्वां तथाऽब्रवीत्
अव्यक्तं ते शरीरोत्थं व्यक्तं ते मनसि स्थितम् । देवास्त्वत्संभवाश्चैव देवलस्त्वसितोऽब्रवीत्
शिरसा ते दिव्यं व्याप्तं बाहुभ्यां पृथिवी तथा । जठरं ते त्रयो लोकाः पुरुषोऽसि सनातनः
एवं त्वामभिजानन्ति तपसा भाविता नराः। आत्मदर्शनतृप्तानामृषीणां चासि सत्तमः
राजर्षीणामुदाराणामाहवेष्वनिवर्तिनाम् । सर्वधर्मप्रधानानां त्वं गतिर्मधुसूदन
इति नित्यं योगविर्द्भिर्भगवान्पुरुषोत्तमः। सनत्कुमारप्रमुखैः स्तूयतेऽभ्यर्च्यते हरिः
एष ते विस्तरस्तात संक्षेपश्च प्रकीर्तितः । केशवस्य यथा तत्त्वं सुप्रीतो भज केशवम्
पुण्यं श्रुत्वैतदाख्यानं महाराज सुतस्तव। केशवं बहुमेने स पाण्डवांश्च महारथान्
तमब्रवीन्महाराज भीष्मः शान्तनवः पुनः । माहात्म्यं ते श्रुतं राजन्केशवस्य महात्कमनः
नरस्य च यथातत्त्वं यन्मां त्वं पृच्छसे नृप। यदर्थं नृषु संभूतौ नरानारायणावृषी
अवध्यौ च यथा वीरौ संयुगेष्वपराजितौ । यथा च पाण्डवा राजन्नवध्या युधि कस्यचित्
प्रीतिमान्हि दृढं कृष्णः पाण्डवेषु यशस्विषु । तस्माद्ब्रवीमि राजेन्द्र शमो भवतु पाण्डवैः
पृथिवीं भुङ्क्ष्व सहितो भ्रातृभिर्बलिभिर्वशी । नरानारायणौ देवाववज्ञाय नशिष्यसि
एवमुक्त्वा तव पिता तूष्णीमासीद्विशांपते । व्यसर्जयच्च राजानं शयनं च विवेश ह
राजा च शिबिरं प्रायात्प्रणिपत्य महात्मने । शिश्ये च शयने शुभ्रे रात्रिं तां भरतर्षभ
व्युषितायां तु शर्वर्यामुदिते च दिवाकरे। उभे सेने महाराज युद्धायैव समीयतुः
अभ्यधावन्त संक्रुद्धाः परस्परजिगीषवः । ते सर्वे सहिता युद्धे समालोक्य परस्परम्
पाण्डवा धार्तराष्ट्राश्च राजन्दर्मन्त्रिते तव। व्यूहौ च व्यूह्य संरब्धाः संप्रहृष्टाः प्रहारिणः